श्रीः
अध्यायः 005
विदुरेण धृतराष्ट्रं प्रति उत्तराध्याये वक्ष्यमाणसंसारादीनां कान्तारादित्वेन रूपणम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
यदिदं धर्मगहनं बुद्ध्या समनुबुध्यते । 001a
एतद्विस्तरतः सर्वं बुद्धिमार्गं प्रशंस मे ॥ 001c
विदुर उवाच 002
अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयम्भुवे । 002a
यथा संसारगहनं वदन्ति परमर्षयः ॥ 002c
कश्चिन्महति कान्तारे वर्तमानो द्विजः किल ॥ 003a
महद्दुर्गमनुप्राप्तो वनं क्रव्यादसङ्कुलम् ॥ 003c
सिंहव्याघ्रगजर्क्षौघैरतिघोरमहास्वनैः । 004a
पिशितादैरतिभयैर्महोग्राकृतिभिस्तथा ॥ 004c
समन्तात्सम्परिक्षिप्तं यस्माद्द्रष्टुर्महद्भयम् । 005a
तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम् ॥ 005c
अभ्युच्छ्रयन्ति रोमाणि विक्रियाश्च परन्तप । 006a
स तद्वनं व्यनुसरन्सम्प्रधावन्नितस्ततः ॥ 006c
वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति । 007a
स तेषां नाशमन्विच्छन्प्रद्रुतो भयपीडितः । 007c
न च निर्याति वै दूरं न वा तैर्विप्रयुज्यते ॥ 007e
अथापश्यद्वनं गूढं समन्ताद्वागुरावृतम् । 008a
बाहुभ्यां सम्परिष्वक्तः स्त्रिया परमघोरया ॥ 008c
पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः । 009a
नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम् ॥ 009c
वनमध्ये च तत्राभूदुदपानः समावृतः । 010a
वल्लीभिस्तृणनद्धाभिर्गूढाभिरभिसंवृतः ॥ 010c
पपात स द्विजस्तत्र निगूढे सलिलाशये । 011a
विलग्नश्चाभवत्तस्मिल्ँलतासन्तानसङ्कुले ॥ 011c
पनसस्य यथा जातं वृन्तबद्धं महाफलम् । 012a
स तथा लम्बते तत्र ह्यूर्ध्वपादो ह्यधःशिराः ॥ 012c
अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः । 013a
कूपमध्ये महानागमपश्यत महाबलम् ॥ 013c
कूपपीनाहवेलायामपश्यत महागजम् ॥ 014ac
षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम् । 015a
क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम् ॥ 015c
तस्य शाखाप्रशाखासु वृक्षशाखावलम्बिनः । 016a
नानारूपा मधुकरा घोररूपा भयावहाः ॥ 016c
आसते मधु संवृत्य पूर्वमेव निकेतजाः । 017a
भूयोभूयः समीहन्ते मधूनि भरतर्षभ ॥ 017c
स्वादनीयानि भूतानां यैर्बालो न वितृप्यते । 018a
तेषां मधूनां बहुधा धारा प्रस्रवते तदा ॥ 018c
आलम्बमानः स पुमान्धारां पिबति सर्वदा । 019a
न चास्य तृष्णा विरता पिबमानस्य सङ्कटे ॥ 019c
अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः । 020a
न चास्य जीविते राजन्निर्वेदः समजायत ॥ 020c
तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता । 021a
कृष्णाः श्वेताश्च तं वृक्षं निकृन्तन्ति स्म मूषिकाः ॥ 021c
व्यालैश्च तद्वनं दुर्गं स्त्रिया च परमोग्रया । 022a
कूपाधस्ताच्च नागेन पीनाहे कुञ्जरेण च ॥ 022c
वृक्षप्रपाताच्च भयं मूषिकेभ्यश्च पञ्चमम् । 023a
मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम् ॥ 023c
एवं स वसते तत्र क्षिप्तः संसारसागरे । 024a
न चैव जीविताशायां निर्वेदमुपगच्छति ॥ 024c
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥