श्रीः अध्यायः 004 विदुरेण धृतराष्ट्रं प्रति जीवस्य गर्भवासप्रकारकथनम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
कथं संसारगहनं विज्ञेयं वदतां वर । 001a
एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः ॥ 001c
विदुर उवाच 002
जन्मप्रभृति भूतानां क्रियाः सर्वास्तु लक्षयन् । 002a
पूर्वमेवेह कलिले वसते किञ्चिदन्तरम् ॥ 002c
ततः स पञ्चमेऽतीते मासे मांसमकल्पयत् । 003a
ततः सर्वाङ्गसम्पूर्णो गर्भो मासे तु जायते ॥ 003c
अमेध्यमध्ये वसति मांसशोणितलेपने । 004a
ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधोमुखः ॥ 004c
योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति । 005a
योनिसम्पीडनाच्चैव पूर्वकर्मभिरन्वितः ॥ 005c
तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान् । 006a
ग्रहास्तमनुगच्छन्ति सारमेया इवामिषम् ॥ 006c
ततः कालान्तरे प्राप्ते व्याधयश्चापि तं तथा । 007a
उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः ॥ 007c
बद्धमिन्द्रियपाशैस्तं सङ्गकामुकमातुरम् । 008a
व्यसनान्यनुवर्तन्ते विविधानि नराधिप ॥ 008c
बाध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः । 009a
[तदा नावैति चैवायं प्रकुर्वन्साध्वसाधु वा ॥] 009c
तत्रैनं परिपश्यन्ति ये ध्यानपरिनिष्ठिताः । 010a
अयं न बुध्यते तावद्यमलोकादिहागमे ॥ 010c
यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति । 011a
वाग्घीनस्य च या मात्रा इष्टानिष्टकृताऽस्य वै । 011c
भूय एवात्मनाऽऽत्मानं बध्यमानमुपैति सः ॥ 011e
अहो विनिकृतो लोको लोभेन च वशीकृतः । 012a
लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते ॥ 012c
कुलीनत्वे च रमते दुष्कुलीनान्विकुत्सयन् । 013a
धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन् ॥ 013c
मूर्खानिति परानाह नात्मानं समवेक्षते । 014a
दोषान्क्षिपति चान्येषां नात्मानं शास्तुमिच्छति ॥ 014c
यदा प्राज्ञाश्च मूर्खाश्च धनवन्तश्च निर्धनाः । 015a
कुलीनाश्चाकुलीनाश्च मानिनोऽथाप्यमानिनः ॥ 015c
सर्वे पितृवनं प्राप्ताः स्वपन्ति विगतत्वचः । 016a
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धनैः ॥ 016c
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः । 017a
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् ॥ 017c
यदा सर्वे समं न्यस्ताः स्वपन्ति धरणीतले । 018a
कस्मादन्योन्यमिच्छन्ति विप्रलब्धुमिहाबुधाः ॥ 018c
प्रत्यक्षं च परोक्षं च यो निशम्य श्रुतिं त्विमाम् । 019a
[अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन् ।] 019c
जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम् ॥ 019e
एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते । 020a
स प्रमोक्षयते चैव पन्थानं मनुजेश्वर ॥ 020c

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥

11-4-2 कलिलं शुकशोणितसंयोगः । एकरात्रोषितं कलिलं भवति पञ्चरात्राद्बुद्बुद इत्यादिशास्त्राद्गम्यते । तत्र कलिले वसते जीव इति शेषः । किञ्चिदन्तरं पूर्वदिनापेक्षया वृद्ध्यवस्थाभेदेन अल्पेन परिमाणान्तरेण ॥ 11-4-5 पूर्वकर्मापदानत इति क. पाठः ॥ 11-4-6 मृगयन्पर्यटन्नित्यं सारमेया इति ट. पाठः ॥ चतुर्थोऽध्यायः ॥