श्रीः अध्यायः 003 विदुरेण धृतराष्ट्रशोकापनोदनाय शास्त्रार्थकथनम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
सुभाषितं महाप्राज्ञ शोकोऽयं विगतो मम । 001a
भूय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः ॥ 001c
अनिष्टानां च संसर्गादिष्टानां च निवर्तनात् । 002a
कथं हि मानसं दुःखं विप्रयुज्यन्ति पण्डिताः ॥ 002c
विदुर उवाच 003
यतोयतो मनो दुःखात्सुखाद्वा विप्रमुच्यते । 003a
ततस्ततः शमं लब्ध्वा सुगतिं विन्दते बुधः ॥ 003c
अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ । 004a
कदलीसन्निभो लोकः सारो ह्यस्य न विद्यते ॥ 004c
[यदा प्राज्ञाश्च मूढाश्च धनवन्तोऽथ निर्धनाः । 005a
सर्वे पितृवनं प्राप्य स्वपन्ति विगतज्वराः ॥ 005c
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धिभिः । 006a
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः ॥ 006c
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् । 007a
कस्मादन्योन्यमिच्छन्ति विप्रलब्धधियो नराः ॥] 007c
गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः । 008a
कालेन विनियुज्यन्ते सत्वमेकं तु शोभनम् ॥ 008c
यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु पूरुषः । 009a
अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम् ॥ 009c
वैचित्रवीर्य सत्यं हि दुःखं वा यदि वा सुखम् । 010a
प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा ॥ 010c
कर्मणा प्राप्यते स्वर्गः सुखं दुःखं च भारत । 011a
ततो वहति तं भारमवशः स्ववशोऽपि वा ॥ 011c
यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते । 012a
किञ्चित्प्रक्रियमाणं वा कृतमात्रमथापि वा ॥ 012c
हीनं वाऽप्यवरोप्यं वा अवतीर्णमथापि वा । 013a
आर्द्रं वाऽप्यथवा शुष्कं पच्यमानमथापि वा ॥ 013c
अवतार्यन्तमापाकादुद्धृतं चापि भारत । 014a
अथवा परिभुज्जन्तमेवं देहाः शरीरिणाम् ॥ 014c
गर्भस्थो वा प्रसूतो वाऽप्यथवा दशरात्रिकः । 015a
अर्धमासगतो वाऽपि मासमात्रगतोऽपि वा ॥ 015c
संवत्सरगतो वापि द्विसंवत्सर एव वा । 016a
यौवनस्थोऽथ मध्यस्थो वृद्धो वापि विपद्यते ॥ 016c
प्राक्कर्मभिस्तु भूतानि भवन्ति नभवन्ति च । 017a
एवं संवर्धिते लोके किमर्थमनुतप्यसे ॥ 017c
यथा तु सलिलं राजन्क्रीडार्थमनुसञ्चरन् । 018a
उन्मज्जेच्च निमज्जेच्च चेष्टते च नराधिप ॥ 018c
एवं संसारगहने उन्मज्जननिमज्जने । 019a
कर्मयोगेन बध्यन्ते क्लिश्यन्ते चाल्पबुद्धयः ॥ 019c
ये तु प्राज्ञाः स्थिता मध्ये संसारान्तगतैषिणः । 020a
समागमज्ञा भूतानां ते यान्ति परमां गतिम् ॥ 020c

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

11-3-1 सुभाषितैरिति झ. पाठः ॥ 11-3-5 पितृवनं मृत्युम् ॥ 11-3-8 सत्वमेकं तु शाश्वतमिति झ. पाठः । तत्र सत्वं लिङ्गशरीरम् । शाश्वतं मोक्षपर्यन्तं स्थायित्वात् इत्यर्थः ॥ 11-3-13 अवरोप्यन्तमितिपाठे अवरोप्यमाणम् ॥ 11-3-14 आपाकात् कुलालकृतात् पात्रपाककूटात् । अथवा परिभृज्जन्तमिति झ. पाठः ॥ 11-3-19 एवं संसारगहनादुन्मज्जननिमज्जनात् इति क. छ. ट. पाठः ॥ तृतीयोऽध्यायः ॥