श्रीः अध्यायः 002 विदुरेण शास्त्रार्थकथनेन धृतराष्ट्रस्य शोकापनोदनम् ॥ 1 ॥ वैशम्पायन उवाच 001
ततोऽमृतरसैर्वाक्यैर्ह्लादयन्पुरुषर्षभम् । 001a
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत् ॥ 001c
विदुर उवाच 002
उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना । 002a
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः ॥ 002c
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । 003a
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ 003c
यदा शूरं च भीरुं च यमः कर्षति भारत । 004a
तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ ॥ 004c
अयुध्यमानो म्रियते युध्यमानश्च जीवति । 005a
कालं प्राप्य महाराज न कश्चिदतिवर्तते ॥ 005c
अभावादीनि भूतानि भावमध्यानि भारत । 006a
अभावनिधनान्येव तत्र का परिदेवना ॥ 006c
न शोचन्मृतमन्वेति न शोचन्म्रियते नरः । 007a
एवं सांसिद्धिके लोके किमर्थमनुशोचसि ॥ 007c
कालः कर्षति भूतानि सर्वाणि विविधान्युत । 008a
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ॥ 008c
यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः । 009a
तथा कालवशं यान्ति भूतानि भरतर्षभ ॥ 009c
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् । 010a
यस्य कालः स यात्यग्रे तत्र का परिदेवना ॥ 010c
न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि । 011a
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम् ॥ 011c
सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः । 012a
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ॥ 012c
अदर्शनादापतिताः पुनश्चादर्शनं गताः । 013a
नैते तव न तेषां त्वं तत्र का परिदेवना ॥ 013c
हतो हि लभते स्वर्गं जित्वा च लभते यशः । 014a
उभयं नो बहुगुणं नास्ति निष्फलता रणे ॥ 014c
तेषां कामदुघाल्ँलोकानिन्द्रः सङ्कल्पयिष्यति । 015a
इन्द्रस्यातिथयो ह्येते भवन्ति भरतर्षभ ॥ 015c
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया । 016a
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः ॥ 016c
शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः । 017a
हूयमानाञ्शरांश्चैव सेहुस्तेजस्विनो मिथः ॥ 017c
एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम् । 018a
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते ॥ 018c
क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः । 019a
आशिषः परमाः प्राप्ता न शोच्याः सर्व एव हि ॥ 019c
आत्मानमात्मनाऽऽश्वास्य मा शुचः पुरुषर्षभ । 020a
नाद्य शोकाभिभूतस्त्वं कायमुत्स्रष्टुमर्हसि ॥ 020c
मातापितृसहस्राणि पुत्रदारशतानि च । 021a
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥ 021c
शोकस्थानसहसाणि भयस्थानशतानि च । 022a
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ 022c
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम । 023a
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति ॥ 023c
कालः पचति भूतानि कालः संहरते प्रजाः । 024a
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ 024c
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः । 025a
आरोग्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः ॥ 025c
न जानपदिकं दुःखमेकः शोचितुमर्हसि । 026a
अप्यभावेन युज्येत तच्चास्य न निवर्तते ॥ 026c
अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम् । 027a
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ॥ 027c
चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते ॥ 028ac
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च । 029a
मानुषा मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ॥ 029c
नार्थो न धर्मो न सुखं यदेतदनुशोचति । 030a
तच्च नाप्नोति कार्यार्थं त्रिवर्गाच्चैव भ्रश्यते ॥ 030c
अन्योन्यबाधनावस्थां प्राप्य वैषयिकीं नराः । 031a
असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः ॥ 031c
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः । 032a
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ॥ 032c
शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति । 033a
अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ॥ 033c
यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम् । 034a
तस्यान्तस्यामवस्थायां तत्तत्फलमवाप्नुते ॥ 034c
[येनयेन शरीरेण यद्यत्कर्म करोति यः । 035a
तेनतेन शरीरेण तत्फलं समुपाश्नुते ॥ 035c
आत्मैव ह्यात्मनः साक्षी कृतस्यापकृतस्य च ॥ 036ac
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा । 037a
कृतं भवति सर्वत्र नाकृतं विद्यते क्वचित् ॥ 037c
न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु । 038a
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥] 038c

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥

11-2-2 एषा मरणान्ता । अत उत्तिष्ठ शोकं त्यज ॥ 11-2-6 अभावादीनि दुःखानि दुःखमध्यानि भारतेति छ. पाठः ॥ 11-2-8 सांसिद्धिके स्वभावसिद्धे ॥ 11-2-9 संवर्तयति स्ववशं नयति ॥ 11-2-10 तत्र गामिनां परत्र गमनशीलानां यस्य काल उपस्थितः सोऽग्रे प्रयाति ॥ 11-2-13 अदर्शनादज्ञानात् ॥ 11-2-14 नोऽस्माकं क्षत्रियाणाम् ॥ 11-2-18 आचक्षे कथयामि ॥ 11-2-26 जानपदिकं सर्वसाधारणम् । अभावेन मरणेन । तच्च दुःखं च ॥ 11-2-30 नच नापैति कार्यार्थात्त्रिवर्गाच्चैव हीयते इति झ. पाठः । तत्र कार्यार्थान्नापैतीतिनापित्वपैत्येवेत्यर्थः ॥ 11-2-31 अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः । इति झ. पाठः ॥ 11-2-34 अवस्थायां यौवनादिरूपायाम् ॥ 11-2-35 येनेति । स्थूलेन देहेन कृते तत्तेनैव भुज्यते । मनःकृतं चेत्तेनैव भुज्यते स्वप्नादौ ॥ द्वितीयोऽध्यायः ॥