श्रीः अध्यायः 001 सञ्जयेन पुत्रादीन्प्रति शोचतो धृतराष्ट्रस्य समाश्वासनम् ॥ 1 ॥ श्रीवेदव्यासाय नमः । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 001
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 001
जनमेजय उवाच 001
हते दुर्योधने चैव हते सैन्ये च सर्वशः । 001a
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने ॥ 001c
तथैव कौरवो राजा धर्मपुत्रो महामनाः । 002a
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ॥ 002c
अश्वत्थाम्नः कृतं कर्म शापश्चान्योन्यकारितः । 003a
वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः ॥ 003c
वैशम्पायन उवाच 004
हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् । 004a
पुत्रशोकाभिसन्तप्तं धृतराष्ट्रं महीपतिम् ॥ 004c
ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम् । 005a
सञ्जयो जयतां श्रेष्ठ राजानं वाक्यमब्रवीत् ॥ 005c
किं शोचसि महाराज नास्ति शोके सहायता । 006a
अक्षौहिण्यो हताश्चाष्टौ दश चैव विशाम्पते । 006c
निर्जितेयं वसुमती शून्या स्थास्यति केवलम् ॥ 006e
नानादिग्भ्यः समागम्य नानाजात्या नराधिपाः । 007a
सहितास्व पुत्रेण सर्वे वै निधनं गताः ॥ 007c
पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा । 008a
गुरूणां चानुपूर्व्येण ये चान्येऽनुचरा हताः । 008c
प्रेतकार्याणि सर्वाणि कारयस्व नराधिप ॥ 008e
वैशम्पायन उवाच 009
तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः । 009a
पपात भुवि दुर्धर्षो वाताहत इव द्रुमः ॥ 009c
धृतराष्ट्र उवाच 010
हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः । 010a
दुःखं नूनं गमिष्यामि विचरन्पृथिवीमिमाम् ॥ 010c
किन्नु बन्धुविहीनस्य जीवितेन ममाद्य वै । 011a
लूनपक्षस्य इव मे वैनतेयस्य सञ्जय ॥ 011c
हृतराज्यो हतसुहृद्धतपुत्रश्च वै तथा । 012a
न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान् ॥ 012c
न कृतं सुहृदां वाक्यं जामदग्न्यस्य च ॥ 013ac
सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम । 014a
अलं वैरेण ते राजन्पुत्रः सङ्गृह्यतामिति । 014c
तच्च वाक्यमकृत्वाऽहं भृशं तप्यामि दुर्मतिः ॥ 014e
न हि श्रोताऽस्मि भीष्मस्य शर्मयुक्तं प्रभाषितम् ॥ 015ac
दुर्योधनस्य च तथा वृषभस्येव नर्दतः । 016a
दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम् । 016c
द्रोणसूर्योपरागं च हृदयं मे विदीर्यते ॥ 016e
न स्मराम्यात्मनः किञ्चित्पुरा सञ्जय दुष्कृतम् । 017a
यस्येदं फलमद्येह मया मूढेन भुज्यते ॥ 017c
नूनं व्यपकृतं किञ्चिन्मया पूर्वेषु जन्मसु । 018a
येन मां दुःखभागेषु धाता कर्मसु युक्तवान् ॥ 018c
परिणामश्च वयसः सर्वबन्धुक्षयश्च मे । 019a
सुहृन्मित्रविनाशश्च दैवयोगादुपागतः ॥ 019c
कोन्वस्ति दुःखिततरो मत्तोऽन्यो हि पुमान्भुवि ॥ 020ac
तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रताः । 021a
विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम् ॥ 021c
वैशम्पायन उवाच 022
तस्य लालप्यमानस्य बहु शोकं विचिन्वतः । 022a
शोकापहं नरेन्द्रस्य सञ्जयो वाक्यमब्रवीत् ॥ 022c
शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः । 023a
शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम ॥ 023c
सृञ्जये पुत्रशोकार्ते यदूर्चुर्मुनयः पुरा । 024a
यथा यौवनजं दर्पमास्थिते ते सुते नृप ॥ 024c
न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम् । 025a
स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना ॥ 025c
असिनैवैकधारेण स्वबुद्ध्या तु विचेष्टितम् । 026a
प्रायशोऽवृत्तसम्पन्नाः सततं पर्युपासिताः ॥ 026c
यस्य दुःशासनो मन्त्री राधेयश्च दुरात्मवान् । 027a
शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः ॥ 027c
अनल्पं येन वै सर्वं शल्यभूतं कृतं जगत् । 028a
कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च ॥ 028c
द्रोणस्य च महाराज कृपस्य च शरद्वतः । 029a
कृष्णस्य च महाबाहो नारदस्य च धीमतः ॥ 029c
ऋषीणां च तथाऽन्येषां व्यासस्यामिततेजसः । 030a
न कृतं तेन वचनं तव पुत्रेण भारत । 030c
क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः ॥ 030e
अधर्मसंयुतं किञ्चिन्नित्यं युद्धमिति ब्रुवन् । 031a
मध्यस्थो हि त्वमप्यासीर्न क्षमं किञ्चिदुक्तवान् ॥ 031c
धूर्धरेण त्वया भारस्तुलया न समं धृतः ॥ 032ac
आदावेव मनुष्येण वर्तितव्यं यथाक्रमम् । 033a
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ॥ 033c
पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षितम् । 034a
पश्चात्तापमिमं प्राप्तो न त्वं शोचितुमर्हसि ॥ 034c
मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति । 035a
स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान् ॥ 035c
अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम् । 036a
न शोचञ्श्रियमाप्नोति न शोचन्विन्दते जयम् ॥ 036c
स्वयमुत्पादयित्वाऽग्निं परीतस्तेन योऽग्निना । 037a
दह्यमानः पुनस्तापं भजते न स पण्डितः ॥ 037c
त्वयैव ससुतेनायं वाक्यवायुसमीरितः । 038a
लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः ॥ 038c
तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः । 039a
तान्केशवाग्निनिर्दग्धान्न त्वं शोचितुमर्हसि ॥ 039c
यच्चाश्रुपातकलिलं वदनं वहसे नृप । 040a
अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः ॥ 040c
विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान् । 041a
जहीहि मन्युं बुद्ध्या वै धास्यात्मानमात्मना ॥ 041c
वैशम्पायन उवाच 042
एवमाश्वासितं तेन सञ्जयेन महात्मना । 042a
विदुरो भूय एवाह बुद्धिपूर्वं परन्तप ॥ 042c

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

11-1-3 अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारित इति क. पाठः । अश्वत्थान्नः श्रुतं कर्म शापादन्योन्यकरितादिति झ. पाठः । तत्र अन्योन्यं कारितात्पाण्डवानां गर्भे ब्रह्मशिरोस्त्रं पतत्वित्यश्वत्थान्ना शापो दत्तः । सहस्रवर्षाणि गलत्कुष्ठो भविष्यसीत्यश्वत्थाम्नः कृष्णेन शापो दत्त इत्यर्थः ॥ 11-1-6 शून्या राजभिर्हीना ॥ 11-1-8 गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारयेति झ. पाठः । तत्र आनुपूर्व्येणेति । आदौ हतानामादावेव पश्चाद्धतानां पश्चादेवेति पौर्वापर्येण प्रेतानां परेतानां कार्याणि पारलौकिकानि कर्माणीत्यर्थः ॥ 11-1-15 श्रोतास्मि श्रुतवानस्मि ॥ 11-1-16 विपर्ययं विनाशम् ॥ 11-1-21 तन्मामिति । अद्यैव प्राणत्यागं करिष्यामीत्यर्थः ॥ 11-1-22 शोकं वितन्वत इति झ. पाठः । तत्र वितन्वतः विरचयत इत्यर्थः ॥ 11-1-23 अवृत्तेति च्छेदः ॥ 11-1-28 शल्यश्च येन वै सर्वम् इति झ. पाठः । तत्र शल्यश्च मन्त्रीति पूर्वेणान्वयः ॥ 11-1-31 न धर्मः स कृतः कश्चिन्नित्यं युद्धमभीप्सता । अल्पबुद्धिरहङ्कारी नित्यं युद्धमिति ब्रुवन् । क्रूरो दुर्मर्षणो नित्यमसन्तुष्टश्च वीर्यवान् । श्रुतवानसि मेधावी सत्यवांश्चैव नित्यदा । न मुह्यान्तीदृशाः सन्तो बुद्धिमन्तो भवादृशाः । न धर्मः सत्कृतः कश्चित्तव पुत्रेण मारिष । इति झ. पाठः । अत्र ब्रुवन् दुर्योधनः आसीदिति शेषः ॥ 11-1-32 दुर्धरेणेति झ. ट. पाठः ॥ 11-1-35 प्रपातं पर्वताग्राद्भ्रंशम् ॥ 11-1-41 जहि मन्युं स्वबुद्ध्या वै इति क. छ. ट. पाठः । दहन्ति शोका इत्यर्थात् । मन्युं दैन्यम् । मन्युर्दैन्ये क्रतौ क्रुधि इत्यमरः । आत्मानं चित्तम् आत्मना धैर्येण धारय । प्राणान्मात्याक्षीरित्यर्थः ॥ प्रथमोऽध्यायः ॥