श्रीः अध्यायः 018 कृष्णेन युधिष्ठिरं प्रति रुद्रस्य कोपप्रसादाभ्यां देवानां यज्ञनाशतत्प्रवृत्तिकथनपूर्वकं तत एवाश्वत्थामद्वारा पुत्रादिवधसम्भवकथनम् ॥ 1 ॥ श्रीभगवानुवाच 001
ततो देवयुगेऽतीते देवा वै समकल्पयन् । 001a
यज्ञवेदप्रमाणेन विधिवद्यष्टुमीप्सवः ॥ 001c
कल्पयामासुरथ ते साधनानि हवींषि च । 002a
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च ॥ 002c
ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः । 003a
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप ॥ 003c
सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः । 004a
तपसा यज्ञमन्विच्छन्धनुरादौ ससर्ज ह ॥ 004c
लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः । 005a
पञ्चभूतनृयज्ञश्च जज्ञे सर्वमिदं जगत् ॥ 005c
लोकयज्ञैर्नृयज्ञैश्च कपर्दी विदधे धनुः । 006a
धनुः सृष्टमभूत्तस्य षष्टिकिष्कुप्रमाणतः ॥ 006c
वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत । 007a
यज्ञाङ्गानि च चत्वारि तस्य सन्नहनेऽभवन् ॥ 007c
ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम् । 008a
आजगामाथ तत्रैव यत्र देवाः समीजिरे ॥ 008c
तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् । 009a
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे ॥ 009c
न ववौ पवनश्चैव नाग्निर्जज्वाल वैधितः । 010a
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम् ॥ 010c
न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः । 011a
तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम् ॥ 011c
अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे । 012a
न प्रत्यभाच्च यज्ञः स देवतास्त्रेसिरे तथा ॥ 012c
ततः स यज्ञं विव्याध रौद्रेण हृदि पत्रिणा । 013a
अपक्रान्स्ततो यज्ञो मृगो भूत्वा सपावकः ॥ 013c
स तु तेनैव रूपेण दिविस्थो वै व्यराजत । 014a
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले ॥ 014c
अपक्रान्ते ततो यज्ञे सञ्ज्ञा न प्रत्यभात्सुरान् । 015a
नष्टसञ्ज्ञेषु देवेषु न प्राज्ञायत किञ्चन ॥ 015c
त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा । 016a
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत् ॥ 016c
प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः । 017a
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन् ॥ 017c
स तु विद्राव्य तत्सर्वं शितिकम्ठोऽवहस्य च । 018a
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः ॥ 018c
ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् । 019a
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः ॥ 019c
ततो विधनुषं देवा देवश्रेष्ठमुपागमन् । 020a
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः ॥ 020c
ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये । 021a
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो ॥ 021c
भगस्य नयने चैव बाहू च सवितुस्तथा । 022a
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञांश्च पाण्डव ॥ 022c
ततः सुस्थमिदं सर्वं बभूव पुनरेव हि । 023a
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन् ॥ 023c
तस्मिन्क्रुद्धेऽभवत्सर्वमसुस्थं भुवनं प्रभो । 024a
प्रसन्ने च पुनः सुस्थं जगद्भवति भारत ॥ 024c
ततस्ते निहताः सर्वे तव पुत्रा महारथाः । 025a
अन्ये च बहवः शूराः पाञ्चालस्य पदानुगाः ॥ 025c
न तन्मनसि कर्तव्यं न च तद्द्रौणिना कृतम् । 026a
महादेवप्रसादः स कुरु कार्यमनन्तरम् ॥ 026c

इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां सौप्तिकपर्वणि ऐषीकपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥

10-18-5 लोकयज्ञो लोकेषणा सर्वो मां साधुमेव जानात्विति वासनारूपः । क्रियायज्ञः गर्भाधानादिसंस्काररूपः । गृहयज्ञः पत्नीसाध्याग्निहोत्रादिः । पञ्चभूतनृयज्ञः पञ्चभूतानां गुणैः शब्दादिभिर्या नृणां प्रीतिस्तद्रूपः । विषयजं सुखमित्यर्थः । एतैरेव चतुर्भिर्यज्ञैः सर्वं जगत्सृष्टम् ॥ 10-18-6 तत्र मध्यमयोः शास्त्रोक्तयोर्यज्ञयोर्नाशार्थं प्रथमचरमयज्ञाभ्यामीश्वरो धनुः कृतवान् किष्कुर्हस्तः ॥ अष्टादशोऽध्यायः ॥

समाप्तं ऐषीकपर्व ॥ 2 ॥ सौप्तिकपर्व च समाप्तम् ॥ 10 ॥