श्रीः अध्यायः 017 युधिष्ठिरेण द्रौणेरेकस्य बहुमारणशक्तिप्रश्ने कृष्णेन रुद्रप्रसादादित्युक्त्वा रुद्रमहिमकथनम् ॥ 1 ॥ वैशम्पायन उवाच 001
हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः । 001a
शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत् ॥ 001c
कथं नु कृष्ण पापेन क्षुद्रेण शठबुद्धिना । 002a
द्रौणिना निहताः सर्वे मम पुत्रा महारथाः ॥ 002c
तथा कृतास्त्रविक्रान्ताः सङ्ग्रामेष्वपलायिनः । 003a
द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः ॥ 003c
यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम् । 004a
निजघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः ॥ 004c
किन्नु तेन कृतं कर्म तथायुक्तं नरर्षभ । 005a
यदेकः समरे सर्वानवधीन्नो गुरोः सुतः ॥ 005c
श्रीभगवानुवाच 006
नूनं स देवदेवानामीश्वरेश्वरमव्ययम् । 006a
जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून् ॥ 006c
प्रसन्नो हि महादेवो दद्यादमरतामपि । 007a
वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत् ॥ 007c
वेदाहं हि महादेवं तत्त्वेन भरतर्षभ । 008a
यानि चास्य पुराणानि कर्माणि विविधानि च ॥ 008c
आदिरेष हि भूतानां मध्यमन्तश्च भारत । 009a
विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा ॥ 009c
एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः । 010a
पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम् ॥ 010c
हरिकेशस्तथेत्युक्त्वा दीर्घदर्शी तदा प्रभुः । 011a
दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः ॥ 011c
सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः । 012a
स्रष्टारं सर्वभूतानां ससर्ज मनसाऽपरम् ॥ 012c
सोऽब्रवीद्भ्रातरं दृष्ट्वा गिरिशं सुप्तमम्भसि । 013a
यदि मे नाग्रजोऽस्त्यन्यस्ततः स्रक्ष्याम्यहं प्रजाः ॥ 013c
तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः । 014a
स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै प्रजाः ॥ 014c
भूतान्यन्वसृजत्सप्त दक्षः क्षिप्रं प्रजापतिः । 015a
यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम् ॥ 015c
ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् । 016a
बिभक्षयिषवो राजन्सहसा प्राद्रवंस्तदा ॥ 016c
स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् । 017a
आभ्यो मां भगवांस्त्रातु वृत्तिरासां विधीयताम् ॥ 017c
ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च । 018a
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम् ॥ 018c
विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम् । 019a
ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु ॥ 019c
भूतग्रामे विवृद्धे तु सृष्टे देवासुरे तदा । 020a
उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः ॥ 020c
बहुरूपाः प्रजाः सृष्टा विवृद्धाश्च स्वतेजसा । 021a
चुक्रोध बलवद्दृष्ट्वा लिङ्गं स्वं चाप्यविध्यत ॥ 021c
तत्प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत । 022a
तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव ॥ 022c
किं कृतं सलिले शर्व चिरकालस्थितेन ते । 023a
किमर्थं चेदमुत्पाद्य लिङ्गं भूमौ प्रवेशितम् ॥ 023c
सोऽब्रवीज्जातसंरम्भस्तथा लोकगुरुर्गुरुम् । 024a
प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै ॥ 024c
तपसाऽधिगतं चान्नं प्रजार्थं मे पितामह । 025a
ओषध्यः परिवर्तेरन्यथैवं सततं प्रजाः ॥ 025c
एवमुक्त्वा स सक्रोधो जगाम विमना भवः । 026a
गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः ॥ 026c

इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥