श्रीः
अध्यायः 016
कृष्णेन स्ववचनोल्लङ्घनेनास्त्रप्रयोक्तुरश्वत्थाम्नः शापदानं व्यासेन तदनुमोदनं च ॥ 1 ॥ भीमेन द्रौणिमस्तकमणिदानेन द्रौपदीसमाश्वासनम् ॥ 2 ॥ युधिष्ठिरेण द्रौपदीवचनात्स्वमस्तके तन्मणिधारणम् ॥ 3 ॥
वैशम्पायन उवाच 001
तदाज्ञाय हृषीकेशो विकृष्टं पापकर्मणा । 001a
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा ॥ 001c
विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः । 002a
उपप्लाव्यगतां दृष्ट्वा ऋतवाग्ब्राह्मणोऽब्रवीत् ॥ 002c
परिक्षीणेषु कुरुषु पुत्रस्तव भविष्यति । 003a
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति ॥ 003c
तस्य तद्वचनं साधोः सत्यमेद्भविष्यति । 004a
परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः ॥ 004c
त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः । 005a
असकृत्पापकर्माणं बालजीवितघातकम् ॥ 005c
तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि । 006a
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम् ॥ 006c
अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित् । 007a
निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि ॥ 007c
भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः । 008a
पूयशोणिगन्धी च दुर्गकान्तारसंश्रयः । 008c
विचरिष्यसि पापात्मंश्चिरमेको वसुन्धराम् ॥ 008e
वयः प्राप्य परिक्षित्तु देवव्रतमवाप्य च । 009a
कृपाच्छारद्वताच्छूरः सर्वास्त्राण्युपपत्स्यते ॥ 009c
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः । 010a
षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति ॥ 010c
इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति । 011a
परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते ॥ 011c
[अहं तं जीवयिष्यामि दग्धं शस्त्राग्नितेजसा] । 012a
पश्य मे तपसो वीर्यं सत्यस्य च नराधम ॥ 012c
व्यास उवाच 013
यस्मादनादृत्य कृतं त्वयाऽस्मान्कर्म दारुणम् । 013a
ब्राह्मणस्य सतश्चेदं वृत्तमन्यायवर्तिनः ॥ 013c
तस्माद्यद्देवकीपुत्र उक्तवानुत्तमं वचः । 014a
आलोकात्तव तद्भावि क्षुद्रकर्मन्व्रजेति ह ॥ 014c
अश्वत्थामोवाच 015
सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्विह । 015a
सत्यवागस्तु भगवानयं च पुरुषोत्तमः ॥ 015c
वैशम्पायन उवाच 016
प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् । 016a
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम् ॥ 016c
पाण्डवाश्च सदाशार्हास्तानृषीनभिवाद्य च । 017a
कृष्णद्वैपायनं चैव नारदं चैव पर्वतम् ॥ 017c
द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः । 018a
द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम् ॥ 018c
वैशम्पायन उवाच 019
ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः । 019a
अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव हि ॥ 019c
अवतीर्य रथेभ्यस्तु त्वरमाणा महारथाः । 020a
ददृशुर्द्रौपदीं हृष्टामार्तामार्ततराः स्वयम् ॥ 020c
तामुपेत्य निरानन्दां दुःखशोकसमन्विताम् । 021a
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः ॥ 021c
ततो राज्ञाऽभ्यनुज्ञातो भीमसेनो महाबलः । 022a
प्रददौ तं मणिं दिव्यं वचनं चेदमब्रवीत् ॥ 022c
अयं भद्रे तव मणिः पुत्रहन्ता जितश्च ते । 023a
उत्तिष्ठ शोकमुत्सृज्य क्षात्रधर्ममनुस्मर ॥ 023c
प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे । 024a
यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनि ॥ 024c
नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च । 025a
न वै त्वमिति गोविन्द शममिच्छति राजनि ॥ 025c
उक्तवत्यसि तीव्राणि वाक्यानि पुरुषोत्तमम् । 026a
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि ॥ 026c
हतो दुर्योधनः पापो राज्यस्य परिपन्थिकः । 027a
दुःशासनस्य रुधिरं पीतं विस्फुरतो मया ॥ 027c
वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम् । 028a
जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च ॥ 028c
यशोऽस्य पतितं देवि शरीरं त्ववशेषितम् । 029a
वियोजितश्च मणिना भ्रंशितश्चायुधं भुवि ॥ 029c
द्रौपद्युवाच 030
केवलानृण्यमाप्ताऽस्मि गुरुपुत्रो गुरुर्मम । 030a
शिरस्येतं मणिं राजा ग्रहीतुमनघोऽर्हति ॥ 030c
तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा । 031a
गुरोरुच्छेषमित्येव द्रौपद्या वचनादपि ॥ 031c
ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः । 032a
शुशुभे स तदा राजा सचन्द्र इव पर्वतः ॥ 032c
उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी । 033a
कृष्णं चापि महाबाहुः परिपप्रच्छ धर्मराट् ॥ ॥ 033c
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि षोडशोऽध्यायः ॥ 16 ॥
10-16-7 संविदं संलापम् ॥ 10-16-18 प्रायोपेतां मरणार्थं यो नियमस्तेनोपेताम् ॥ 10-16-20 हृष्टामश्वत्थाम्नः पराभवेन । आर्तां पुत्रादेः शोकेन ॥ 10-16-24 मधुघातिनि मधुदैत्यहन्तरि ॥ 10-16-28 विवक्षतां वक्तुमिच्छतां वाच्याः निन्द्याः नैव स्म ॥ षोडशोऽध्यायः ॥