श्रीः
अध्यायः 015
अर्जुनेन व्यासनारदभावानुरोधेन स्वप्रयुक्तब्रह्मशिरोस्त्रप्रतिसंहारः ॥ 1 ॥ कृष्णेनाश्वत्थामानं प्रति उत्तरागर्भे ऐषीकास्त्रपातेऽपि मृतशिशोः स्वेन समुज्जीवनप्रतिज्ञा ॥ 2 ॥ ब्रह्मचर्याभावादस्त्रप्रतिसंहारासमर्थेन द्रौणिना व्यासकृष्णावनादृस्य पाण्वगर्भेष्वैषीकास्त्रोत्सर्जनम् ॥ 3 ॥
वैशम्पायन उवाच 001
दृष्टैव मुनिशार्दूलौ तावग्निसमतेजसौ । 001a
'गाण्डीवधन्वा सञ्चिन्त्य प्राप्तकालं महारथः ।' 001c
सञ्जहार शरं दिव्यं त्वरमाणो धनञ्जयः ॥ 001e
उवाच वचनं श्रेष्ठस्तावृषी प्राञ्जलिस्तदा । 002a
प्रमुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया ॥ 002c
संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः । 003a
पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा ॥ 003c
यदत्र हितमस्माकं लोकानां चैव सर्वथा । 004a
भवन्तौ देवसङ्काशौ तथा सम्मन्तुमर्हतः ॥ 004c
इत्युक्त्वा सञ्जहारास्त्रं पुनरेव धनञ्जयः । 005a
संहारो दुष्करस्तस्य देवैरपि हि संयुगे ॥ 005c
विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे । 006a
अशक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः ॥ 006c
ब्रह्मतेजोद्भवं तद्धि विसृष्टमकृतात्मना । 007a
न शक्यमावर्तयितुं ब्रह्मचर्यव्रतादृते ॥ 007c
अचीर्णब्रह्मचर्यो यः सृष्ट्वाऽऽवर्तयते पुनः । 008a
तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति ॥ 008c
ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत् । 009a
परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत ॥ 009c
सत्यव्रतधरः शूरो ब्रह्मचारी च पाण्डवः । 010a
गुरुवर्ती च तेनास्त्रं सञ्जहारार्जुनः पुनः ॥ 010c
द्रौणिरप्यथ सम्प्रेक्ष्य सोऽन्तरा तावृषी स्थितौ । 011a
न शशाक पुनर्घोरमस्त्रं संहर्तुमोजसा ॥ 011c
अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे । 012a
द्रौणिर्दीनमना राजन्द्वैपायनमभाषत ॥ 012c
उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना । 013a
मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने ॥ 013c
अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता । 014a
मिथ्याचारेण भगवन्भीमसेनेन संयुगे ॥ 014c
अतः सृष्टमिदं ब्रह्मन्मयाऽस्त्रमकृतात्मना । 015a
तस्य भूयोऽपि संहारं कर्तुं नाहमिहोत्सहे ॥ 015c
निसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम् । 016a
अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै ॥ 016c
तदिदं पाण्डवेयानामन्तायैवाभिसंहितम् । 017a
अद्य पाण्डुसुतान्सर्वाञ्जीविताद्भ्रंशयिष्यति ॥ 017c
कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा । 018a
वधमाशास्य पार्थानां मयास्त्रं सृजता रणे ॥ 018c
व्यास उवाच 019
अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनञ्जयः । 019a
उत्सृष्टवानहिंसार्थं न रोषेण तवाहवे ॥ 019c
अस्त्रमस्त्रेण तु रणे तव संशमयिष्यता । 020a
विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम् ॥ 020c
ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव । 021a
क्षत्रधर्मान्महाबाहुर्नाकम्पत धनञ्जयः ॥ 021c
एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः । 022a
सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि ॥ 022c
अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते । 023a
समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति ॥ 023c
एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः । 024a
न विहन्यात्तदस्त्रं तु प्रजाहितचिकीर्षया ॥ 024c
पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः । 025a
तस्मात्संहर दिव्यं त्वमस्त्रमेतन्महाभुज ॥ 025c
अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः । 026a
न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति || 026c
मणिं चैव प्रयच्छाद्य यस्ते शिरसि तिष्ठति । 027a
एतदादाय ते प्राणान्प्रतिदास्यन्ति पाण्डवाः ॥ 027c
द्रौणिरुवाच 028
पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम् । 028a
अवाप्तमिह तेभ्योऽयं मणिर्मम विशिष्यते ॥ 028c
यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम् । 029a
देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथञ्चन ॥ 029c
न च रक्षोगणभयं न तस्करभयं तथा । 030a
एवंवीर्यो मणिरयं न मे त्याज्यः कथञ्चन ॥ 030c
यत्तु मे भगवानाह तन्मे कार्यमनन्तरम् । 031a
अयं मणिरयं चाहमिषीका तु पतिष्यति । 031c
गर्भेषु पाण्डुपुत्राणामुत्रायास्तथोदरे ॥ 031e
वैशम्पायन उवाच 032
प्राह द्रोणसुतं तत्र व्यासः परमदुर्मनाः ॥ 032ac
एवं कुरु न चान्यत्र बुद्धिः कार्या कथञ्चन । 033a
गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम ॥ 033c
'तमुवाच हृषीकेशः पाण्डवानां हिते मतः । 034a
भविष्यमेकमुत्सृज्य गर्भेष्वस्त्रं निपात्यताम् ॥ 034c
अहमेनं ददाम्येषां पिण्डदं कीर्तिवर्धनम् । 035a
राजर्षिं पुण्यकर्माणमनेकक्रतुयाजिनम् ॥ 035c
एवं कुरु न चान्या ते बुद्धिः कार्या कथञ्चन । 036a
आगर्भात्पाण्डवेयानां कृत्वा पातं विनङ्क्ष्यति ॥' 036c
एवं ब्रुवाणं गोविन्दं वृषभं सर्वसात्वताम् । 037a
द्रौणिः परमसङ्क्रुद्धः प्रत्युवाचेदमुत्तरम् ॥ 037c
नैतदेवं यदात्थ त्वं पक्षपातेन केशव । 038a
वचनात्पुण्डरीकाक्ष तव मद्वाक्यमन्यथा ॥ 038c
पतिष्यत्येतदस्त्रं वै गर्भे तस्या मयोद्यतम् । 039a
विराटदुहितुः कृष्ण यं त्वं रक्षितुमर्हसि ॥ 039c
वासुदेव उवाच 040
अमोघः परमास्त्रस्य पातस्त्वद्य भविष्यति । 040a
'अभिमन्योः सृजैषीकां गर्भस्थः शाम्यतां शिशुः ॥ 040c
अहमेनं मृतं जातं जीवयिष्यामि बालकम् ।' 041a
स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति ॥ 041c
'इत्युक्तः प्रत्युवाचैनं द्रोणपुत्रः स्मयन्निव । 042a
यद्यस्त्रदग्धं गोविन्द जीवयस्येवमस्त्विति ॥' 042c
ततः परममस्त्रं तु द्रौणिरुद्यतमाहवे । 043a
द्वैपायनमनादृत्य गर्भेषु प्रमुमोच ह ॥ 043c
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥
10-15-8 आवर्तयते उपसंहरति ॥ 10-15-27 एवं जीवितमादाय तव यास्यन्ति पाण्डवाः । इति क. पाठः ॥ 10-15-29 मम वध्यभयं नास्तीति क. पाठः ॥ पञ्चदशोऽध्यायः ॥