श्रीः
अध्यायः 014
अर्जुनेन कृष्णाज्ञया द्रौण्यस्त्रप्रत्यस्त्रप्रयोगः ॥ 1 ॥
वैशम्पायन उवाच 001
इङ्गितेनैव दाशार्हस्तस्याभिप्रायमादितः । 001a
द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत ॥ 001c
अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते । 002a
द्रोणोपदिष्टं तस्यायं कालः सम्प्रति पाण्डव ॥ 002c
भ्रातॄणामात्मनश्चैव परित्राणाय भारत । 003a
विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम् ॥ 003c
केशवेनैवमुक्तोऽथ पाण्डवः परवीरहा । 004a
अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः ॥ 004c
पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने । 005a
भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परन्तपः ॥ 005c
देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः । 006a
उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम् ॥ 006c
ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना । 007a
प्रजज्वाल महार्चिष्मद्युगान्तानलसन्निभम् ॥ 007c
तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः । 008a
प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम् ॥ 008c
निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः । 009a
महद्भयं च भूतानां सर्वेषां समजायत ॥ 009c
सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम् । 010a
चचाल च मही कृत्स्ना सपर्वतवनद्रुमा ॥ 010c
तावस्त्रतेजसा लोकांस्त्रासयन्तौ ततः स्थितौ । 011a
महर्षी सहितौ तत्र दर्शयामासतुस्तदा ॥ 011c
नारदः सर्वधर्मात्मा भरतानां पितामहः । 012a
उभौ शमयितुं वीरौ भारद्वाजधनञ्जयौ ॥ 012c
तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ । 013a
दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ ॥ 013c
तदन्तरमनाधृष्यावुपगम्य यशस्विनौ । 014a
आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ ॥ 014c
प्राणभृद्भिरनाधृष्यौ देवदानवसम्मतौ । 015a
अस्त्रतेजः शमयितुं लोकानां हितकाम्यया ॥ 015c
ऋषी ऊचतुः 016
महास्त्रविदुषः पूर्वे येऽप्यतीता महारथाः । 016a
नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन । 016c
किमिदं साहसं वीरौ कृतवन्तौ महात्ययम् ॥ ॥ 016e
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥