श्रीः
अध्यायः 012
द्रौणिजिघांसया भीमे प्रतिगते कृष्णेन युधिष्ठिरम् प्रति द्रौणिदौश्शील्यादिकथनपूर्वकं भीमस्य ततो रक्षणीयत्वकथनम् ॥ 1 ॥
वैशम्पायन उवाच 001
तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः । 001a
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥ 001c
एष पाण्डव ते भ्राता पुत्रशोकपरायणः । 002a
जिघांसुर्द्रौणिमाक्रन्दे एक एवाभिधावति ॥ 002c
भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ । 003a
तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्युपपद्यसे ॥ 003c
यत्तदाचष्ट पुत्राय द्रोणः परपुरञ्जयः । 004a
अस्त्रं ब्रह्मशिरो नाम दहेत पृथिवीमपि ॥ 004c
तन्महात्मा महाभागः केतुः सर्वधनुष्मताम् । 005a
प्रत्यपायदाचार्यः प्रीयमाणो धनञ्जयम् ॥ 005c
तं पुत्रोऽप्येक एवैनमन्वयाचदमर्षणः । 006a
ततः प्रोवाच पुत्राय नातिहृष्टमना इव ॥ 006c
विदितं चापलं ह्यासीदात्मजस्य दुरात्मनः । 007a
सर्वधर्मविदाचार्यः सोऽन्वशासत्सुतं ततः ॥ 007c
परमापद्गतेनापि न स्म तात त्वया रणे । 008a
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः ॥ 008c
इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान् । 009a
न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ ॥ 009c
स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम् । 010a
निराशः सर्वकल्याणैः शोकात्पर्यचरन्महीम् ॥ 010c
ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत । 011a
अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः ॥ 011c
स कदाचित्समुद्रान्ते वसन्द्वारवतीमनु । 012a
एक एकं समागम्य मामुवाच हसन्निव ॥ 012c
यत्तदुग्रं तपः कृष्ण चरन्नमितविक्रमः । 013a
अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता ॥ 013c
अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् । 014a
तदद्य मयि दाशार्ह यथा पितरि मे तथा ॥ 014c
अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम । 015a
ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहणं रणे ॥ 015c
स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः । 016a
याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ ॥ 016c
देवदानवगन्धर्वमनुष्यपतगोरगाः । 017a
न समा मम वीर्यस्य शतांशेनापि पिण्डिताः ॥ 017c
इदं धनुरियं शक्तिरिदं चक्रमियं गदा । 018a
यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददामि ते ॥ 018c
यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे । 019a
तद्गृहाण विनाऽस्त्रेण यन्मे दातुमभीप्ससि ॥ 019c
स सुनाभं सहस्रारं वज्रनाभमयस्मयम् । 020a
वव्रे चक्रं महाभागो मत्तः स्पर्धन्मया सह ॥ 020c
गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् । 021a
जग्राहोत्पत्य सहसा चक्रं सव्येन पाणिना ॥ 021c
न चैनमशकत्स्थानात्सञ्चालयितुमप्युत । 022a
अथैनं दक्षिणेनापि ग्रहीतुमुपचक्रमे ॥ 022c
सर्वयत्नेन तेनापि गृह्य नैनमकम्पयत् ॥ 023ac
ततः सर्वबलेनापि यदैनं न शशाक ह । 024a
उद्यन्तुं वा चालयितुं द्रौणिः परमदुर्मनाः । 024c
कृत्वा यत्नं परिश्रान्तः स न्यवर्तत भारत ॥ 024e
निवृत्तमनसं तस्मादभिप्रायाद्विचेतसम् । 025a
अहमामन्त्र्य संविग्नमश्वत्थामानमब्रुवम् ॥ 025c
यः स दैवमनुष्येषु प्रमाणं परमं गतः । 026a
गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः ॥ 026c
यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम् । 027a
द्वन्द्वयुद्धे पुरा जिष्णुस्तोषयामास शङ्करम् ॥ 027c
यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि । 028a
नादेयं यस्य मे किञ्चिदपि प्राणान्महात्मनः ॥ 028c
तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा । 029a
नोक्तपूर्वमिदं वाक्यं यस्त्वं मामभिभाषसे ॥ 029c
ब्रह्मचर्यं महद्घोरं तीर्त्वा द्वादशवार्षिकम् । 030a
हिमवत्पार्श्वमास्थाय यो मया तपसाऽऽर्जितः ॥ 030c
समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत । 031a
सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः ॥ 031c
तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं रणे । 032a
न प्रार्थितमभून्मूढ तदितं प्रार्थितं त्वया ॥ 032c
रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन । 033a
न गदेन न साम्बेन यदिदं प्रार्थितं त्वया ॥ 033c
द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः । 034a
नोक्तपूर्वमिदं क्षुद्रं तदिदं प्रार्थितं त्वया ॥ 034c
भारताचार्यपुत्रस्त्वं मानितः सर्वयादवैः । 035a
चक्रेण रथिनां श्रेष्ठ कं नु तात युयुत्ससे ॥ 035c
एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह । 036a
प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वया सह ॥ 036c
प्रार्थितं ते मया चक्रं देवदानवपूजितम् । 037a
अजेयः स्यामिति विभो सत्यमेद्ब्रवीमि ते ॥ 037c
सोऽहं तद्दुर्लभं चक्रमनवाप्यैव केशव । 038a
प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम् ॥ 038c
एतत्सुनाभं भोजानामृषभेण त्वया धृतम् । 039a
चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते ॥ 039c
एतावदुक्त्वा द्रौणिर्मां युग्यानश्वान्धनानि च । 040a
आदायोपययौ काले रत्नानि विविधानि च ॥ 040c
स संरम्भी दुरात्मा च चपलः क्रूर एव च । 041a
वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः ॥ 041c
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि द्वादशोऽध्यायः ॥ 12 ॥
10-12-2 अाक्रन्दे सङ्ग्रामे || 10-12-09 स्थाता स्थास्यसि || 10-12-11 मे मह्यं दातुमिच्छसि तेन विनापि गृहाण । त्वदीयेऽस्त्रे ममेच्छा नास्तीति भावः ॥ द्वादशोऽध्यायः ॥