श्रीः अध्यायः 011 नकुलेन युधिष्ठिरसमीपं प्रति द्रौपद्यानयनम् ॥ 1 ॥ द्रौपद्या द्रौणिमस्तकमणिहरणचोदितेन भीमेन नकुलसारथिना रथेन द्रौणिवधाय प्रस्थानम् ॥ 2 ॥ वैशम्पायन उवाच 001
स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्पौत्रान्सखींस्तथा । 001a
महादुःखपरीतात्मा बभूव जनमेजय ॥ 001c
ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः । 002a
स्मरतः पुत्रपौत्रांस्तान्भ्रातॄन्सुहृद एव च ॥ 002c
तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम् । 003a
सुहृदो भृशसंविग्नाः सान्त्वयाञ्चक्रिरे तदा ॥ 003c
'कृत्वा तु विधिवत्तेषां पुत्राणाममितौजसाम् । 004a
प्रेतकार्याणि सर्वेषां बभूव भृशदुःखितः ॥' 004c
तस्मिन्मुहूर्ते जवनैर्वाजिभिर्हेममालिभिः । 005a
नकुलः कृष्णया सार्धमुपायात्परमार्तया ॥ 005c
उपप्लाव्यं गता सा तु श्रुत्वा सुमहदप्रियम् । 006a
तदा विनाशं सर्वेषां पुत्राणां व्यथितेन्द्रिया ॥ 006c
कम्पमानेव कदली वातेनाभिसमीरिता । 007a
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि ॥ 007c
न बभौ वदनं तस्या रुदन्त्याः शोककर्शितम् । 008a
फुल्लपद्मपलाशाक्ष्या मेघावृत इवोडुराट् ॥ 008c
ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः । 009a
बाहुभ्यां परिजग्राह समुत्पत्य वृकोदरः ॥ 009c
सा समाश्वासिता तेन भीमसेनेन भामिनी । 010a
रुदती पाण्डवज्येष्ठमिदं वचनमब्रवीत् ॥ 010c
दिष्ट्या राजन्नवाप्येमामखिलां भोक्ष्यसे महीम् । 011a
आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै ॥ 011c
दिष्ट्या सर्वास्त्रकुशलं मत्तमातङ्गगामिनम् । 012a
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि ॥ 012c
आत्मजान्क्षत्रधर्मेण श्रुत्वा शूरान्निपातितान् । 013a
स्थितो राज्ये मया सार्धं विहरन्न स्मरिष्यसि ॥ 013c
प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा । 014a
शोको मां दहते गाढो हुताशन इवाश्रयम् ॥ 014c
तस्य पापकृतो द्रौणेर्न चेदद्य दुरात्मनः । 015a
हियते सानुबन्धस्य युधि विक्रम्य जीवितम् ॥ 015c
इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः । 016a
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः ॥ 016c
एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत् । 017a
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी ॥ 017c
दृष्ट्वोपविष्टां राजा तु पाण्डवो महिषीं प्रियाम् । 018a
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम् ॥ 018c
क्षत्रधर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे । 019a
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि ॥ 019c
स कल्याणि वनं दुर्गं दूरं द्रौणिरितो गतः । 020a
तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने ॥ 020c
द्रौपद्युवाच 021
द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः । 021a
निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम् । 021c
द्रौणेः शिरस उत्कृत्य जीवेयमिति मे मतिः ॥ 021e
इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना । 022a
भीमसेनकरे स्पृष्ट्वा कुपिता वाक्यमब्रवीत् ॥ 022c
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन् । 023a
जहि तं पापकर्माणं शम्बरं मघवानिव ॥ 023c
न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन । 024a
श्रुतं तत्सर्वलोकेषु परमव्यसने तथा ॥ 024c
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते । 025a
हिडिम्बदर्शने चैव तथा त्वमभवो गतिः ॥ 025c
तथा विराटनगरे कीचकेन भृशार्दिताम् । 026a
मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव ॥ 026c
यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा । 027a
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव ॥ 027c
वैशम्पायन उवाच 028
तस्या बहुविधं दुःखं निशम्य परिदेवितम् । 028a
न चामर्षत कौन्तेयो भीमसेनो महाबलः ॥ 028c
स काञ्चनविचित्राङ्गमारुरोह महारथम् । 029a
आदाय रुचिरं चित्रं समार्गणगुणं धनुः ॥ 029c
नकुलं सारथिं कृत्वा द्रोणपुत्रवधे धृतः । 030a
विस्फार्य सशरं चापं तूर्णमश्वानचोदयत् ॥ 030c
ते हयाः पुरुषव्याघ्र दीप्यमानाः स्वतेजसा । 031a
वहन्तः सहसा जग्मुर्हरयः शीघ्रगामिनः ॥ 031c
शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः । 032a
'द्रोणपुत्रगतेनाशु ययौ मार्गेण भारत ॥' 032c

इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि एकादशोऽध्यायः ॥ 11 ॥

10-11-11 दिष्ट्येति । पुत्रनाशापेक्षया राज्यप्राप्तिसुखं तव महदित्यधिक्षेपः ॥10-11-31 चोदिता वातरंहस इति झ. पाठः || 10-011-32 पदं गमनमार्गचिह्नं गृहीत्वालक्ष्य || एकादशोऽध्यायः ॥