श्रीः अध्यायः 010 दैवादुर्वरितेन दृष्टद्युम्नसारथिना युधिष्ठिराय रात्रौ वृत्तशिबिरवृत्तान्तविनेदनम् ॥ 1 ॥ तच्छ्रवणेन द्रौपद्यानयनाय नकुलमादिश्य शिबिरभुवमुपागतवता युधिष्ठिरेण मृतनिजजनावलोकनेन परिदेवनम् ॥ 2 ॥ वैशम्पायन उवाच 001
तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः । 001a
गत्वा शशंस पाण्डुभ्यः सौप्तिके कदनं कृतम् ॥ 001c
सूत उवाच 002
द्रौपदेया हता राजन्द्रुपदस्यात्मजैः सह । 002a
प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके ॥ 002c
गौतमेन नृशंसेन भोजेन कृतवर्मणा । 003a
अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि ॥ 003c
एतैर्नरगजाश्वानां प्रासशक्तिपरश्वथैः । 004a
सहस्राणि निकृन्तद्भिर्निःशेषं शिबिरं कृतम् ॥ 004c
'विक्रुष्टनानाविहगफलभारनतस्य ह ।' 005a
छिद्यमानस्य महतो वनस्येव परश्वथैः । 005c
शुश्रुवे सुमहाञ्शब्दो बलस्य तव भारत ॥ 005e
अहमेकोऽवशिष्टस्तु तस्मात्सैन्यान्महीपते । 006a
मुक्तः कथञ्चिद्धर्मात्मन्व्यग्राच्च कृतवर्मणः ॥ 006c
तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः । 007a
पपात मह्यां धर्मात्मा पुत्रशोकसमन्वितः ॥ 007c
पतन्तं तमतिक्रम्य परिजग्राह सात्यकिः । 008a
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ 008c
लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा । 009a
जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदार्तवत् ॥ 009c
'अगम्या गतिरर्थानां कर्मणामीश्वरस्य च ।' 010a
दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः । 010c
जीयमाना जयन्त्यन्ये जयमाना वयं जिताः ॥ 010e
हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान् । 011a
बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम् ॥ 011c
अनर्थो ह्यर्थसङ्काशस्तथाऽनर्थोऽर्थदर्शनः । 012a
जयोऽयमजयाकारो जयस्तस्मात्पराजयः ॥ 012c
यज्जित्वा तप्यते पश्चादापन्न इव दुर्मतिः । 013a
कथं मन्येत विजयं ततो जिततरः परैः ॥ 013c
येषामर्थाय पापं स्याद्विजयस्य सुहृद्वधैः । 014a
निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः ॥ 014c
कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे । 015a
चापव्यात्तास्यरौद्रस्य ज्यातलस्वननादिनः ॥ 015c
क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः । 016a
ये व्यमुञ्चन्त कर्णस्य प्रमादात्त इमे हताः ॥ 016c
रथह्रदं शरवर्षोर्मिमन्तं रत्नाचितं वाहनयोधवृन्दम् । 017a
शक्त्यृष्टिमीनध्वजनागनक्रं शरासनावर्तमहेषुफेनम् ॥ 017c
सङ्ग्रामचन्द्रोदयवेगवेलं द्रोणार्णवं ज्यातलनेमिघोषम् । 018a
ये तेरुरुच्चावचशस्त्रनौभिस्ते राजपुत्रा निहताः प्रमादात् ॥ 018c
न हि प्रमादात्परमस्ति कश्चद्वधो नराणामिह जीवलोके । 019a
प्रमत्तमर्था हि नरं समन्तात्त्यजन्त्यनर्थाश्च समाविशन्ति ॥ 019c
ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं शरार्चिषं दीप्तमहापताकम् । 020a
महाधनुर्ज्यातलनेमिघोषं तनुत्रनानाविधशस्त्रहोमम् ॥ 020c
महाचमूकक्षदवाभिपन्नं महाहवे भीष्ममहादवाग्निम् । 021a
ये तेरुरुच्चावचशस्त्रवेगैस्ते राजपुत्रा निहताः प्रमादात् ॥ 021c
न हि प्रमत्तेन नरेण शक्यमाप्तुं वसु श्रीर्विपुलं यशो वा । 022a
पश्याप्रमादेन निहत्य शत्रून्सर्वान्महेन्द्रं सुखमेधमानम् ॥ 022c
इन्द्रोपमान्पार्थिवपुत्रपौत्रान्पश्याविशेषेण हतान्प्रमादात् । 023a
तीर्त्वा समुद्रं वणिजः समृद्धा मग्नाः कुनद्यामिव सीदमानाः ॥ 023c
अमर्षितैर्ये निहता नरेन्द्रा निःसंशयं ते त्रिदिवं प्रपन्नाः । 024a
कृष्णां तु शोचामि कथं नु साध्वी शोकार्णवं सा विषहिष्यतीति ॥ 024c
भातॄंश्च पुत्रांश्च हतान्निशम्य पाञ्चालराजं पितरं च वृद्धम् । 025a
ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां सा शोष्यते शोककृशाङ्गयष्टिः ॥ 025c
तच्छोकजं दुःखमपारयन्ती कथं भविष्यत्युचिता सुखानाम् । 026a
रोरूयते ज्ञातिवधाभितप्ता प्रदह्यमानेव हुताशनेन ॥ 026c
इत्येवमार्तः परिदेवयन्स राजा कुरूणां नकुलं बभाषे । 027a
गच्छानयैनामिह मन्दभाग्यां समातृपक्षामिति राजपुत्रीम् ॥ 027c
माद्रीसुतस्तत्परिगृह्य वाक्यं धर्मेण धर्मप्रथमस्य राज्ञः । 028a
ययौ रथेनालयमाशु देव्याः पाञ्चालराजस्य च यत्र दाराः ॥ 028c
प्रस्थाप्य माद्रीसुतमाजमीढः शोकार्दितस्तैः सहितः सुहृद्भिः । 029a
रोरूयमाणः प्रययौ सुतानामायोधनं भूतगणानुकीर्णम् ॥ 029c
स तत्प्रविश्याशिवमुग्ररूपं ददर्श पुत्रान्सुहृदः सखींश्च । 030a
भूमौ शयानान्रुधिरार्द्रगात्रान्विभिन्नदेहान्प्रहृतोत्तमाङ्गान् ॥ 030c
स तांस्तु दृष्ट्वा भृशमार्तरूपो युधिष्ठिरो धर्मभृतां वरिष्ठः । 031a
उच्चैः प्रचुक्रोश च कौरवाग्र्यः पपात चोर्व्यां सगणो विसञ्ज्ञः ॥ 031c

इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि दशमोऽध्यायः ॥ 10 ॥

10-10-8 अतिक्रम्य धैर्यमर्यादां त्यक्त्वा पतन्तम् ॥ 10-10-10 अन्ये शत्रवः । जयमानाः जयन्तः । जितानां जयो जयतां पराजयः फलतोऽभूदिति महदाश्चर्यमित्यर्थः ॥ 10-10-13 पश्चात्स पाप इव दुर्मतिरिति क. पाठः ॥ 10-10-16 व्यमुञ्चन्त मुक्ताः । कर्णस्य कर्णात् । प्रमादादस्मत्कृतादसान्निध्यात् ॥ 10-10-17 वाहनवाजियुक्तमिति झ. पाठः ॥ 10-10-20 तनुत्राणि नानाविधानि शस्त्राणि च तेषां होमः प्रक्षेपो यत्र तं तनुत्रनानाविधशस्त्रहोमम् ॥ 10-10-21 भीष्ममयं भीष्मप्रधानम् अग्निदाहम् । भीष्मरूपेण अग्निना दाहमित्यर्थः ॥ 10-10-24 निहताः शयाना इति झ. पाठः ॥ दशमोऽध्यायः ॥