श्रीः अध्यायः 008 शिबिरद्वारे कृपकृतवर्माणौ संस्थाप्यान्तः प्रविष्टेन द्रौणिना धृष्टद्युम्नादिपाञ्चालानां द्रौपदेयादीनां च वधः ॥ 1 ॥ भयाद्बहिर्निष्क्रान्तानां कृपकृतवर्मभ्यां वधः ॥ 2 ॥ धृतराष्ट्र उवाच 001
तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे । 001a
कच्चित्कृपश्च भोजश्च भयार्तौ न व्यवर्तताम् ॥ 001c
कच्चिन्न वारितौ क्षुद्रौ रक्षिभिर्नोपलक्षितौ । 002a
असह्यमिति मन्वानौ न निवृत्तौ महारथौ ॥ 002c
कच्चिदुन्मथ्य शिबिरं हत्वा सोमकपाण्डवान् । 003a
'कृता प्रतिज्ञा सफला कच्चित्सञ्जय सा निशि ॥' 003c
दुर्योधनस्य पदवीं कच्चित्परमिकां रणे । 004a
'गत्वातिष्ठदसौ द्रौणिः कृत्वा कर्म सुदुष्करम् ॥ 004c
धृष्टद्युम्नशिखण्डिभ्यां द्रौपद्याश्च सुतैः किल । 005a
सञ्छन्ना मेदिनी सुप्तैर्निहतैः पाण्डुसैनिकैः ॥ 005c
पाञ्चालैर्वा विनिहतैः शयानै रुधिरोक्षितैः । 006a
कच्चिन्महीतलं छन्नं तन्ममाचक्ष्व सञ्जय ॥' 006c
[पाञ्चालैर्निहतौ वीरौ कच्चित्तु स्वपतां क्षितौ । 007a
कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय ॥] 007c
सञ्जय उवाच 008
तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि । 008a
कृपश्च कृतवर्मा च द्रौणिमेवाभ्यवर्तताम् ॥ 008c
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ । 009a
प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् ॥ 009c
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने । 010a
किम्पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः ॥ 010c
अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत् । 011a
यथा न कश्चिदपि वां जीवन्मुच्येत मानवः । 011c
तथा भवद्भ्यां कार्यं स्यादिति मे निश्चिता मतिः ॥ 011e
इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत् । 012a
अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः ॥ 012c
स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह । 013a
'द्रौणिः परमसङ्क्रुद्धस्तेजसा प्रज्वलन्निव । 013c
ततः पर्यचरत्सर्वं सम्प्रसुप्तं जनं निशि ॥' 013e
धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ॥ 014ac
ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे । 015a
प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः ॥ 015c
अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत । 016a
पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् ॥ 016c
क्षौमावदाते महति स्पर्द्ध्यास्तरणसंवृते । 017a
माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते ॥ 017c
तं शयानं महात्मानं विस्रब्धमकुतोभयम् । 018a
अपोथयत पादेन शयनस्थं महीपते ॥ 018c
सम्बुध्य चरणस्पर्शादुत्थाय रणदुर्मदः । 019a
अभ्यजानादमेयात्मा द्रोणपुत्रं महारथम् ॥ 019c
तमुत्पतन्तं शयनादश्वत्थामा महाबलः । 020a
केशेष्वालभ्य पाणिभ्यां निष्पिपेष महीतले ॥ 020c
स बलात्तेन निष्पिष्टः साध्वसेन च भारत । 021a
अभ्याक्रान्तश्च निद्रान्धो नाशकच्चेष्टितुं तदा ॥ 021c
'निष्पिष्य तु ततो भूमौ पाञ्चाल्यं द्रौणिरञ्जसा । 022a
धनुषो ज्यां विमुच्याशु क्रूरबुद्धिरमर्षणः ॥ 022c
तस्य कण्ठेऽथ बद्ध्वा तां त्वरितः क्रोधमूर्च्छितः ।' 023a
द्रौणिः क्रूरं मनः कृत्वा पाञ्चाल्यमवधीत्तदा ॥ 023c
तमाक्रम्य पदा राजन्कण्ठे चोरसि पादयोः । 024a
नदन्तं विस्फुरन्तं च पशुमारममारयत् ॥ 024c
'स वार्यमाणस्तरसा बलाद्बलवता बली ।' 025a
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत् ॥ 025c
आचार्यपुत्र शस्त्रेण जहि मां मा चिरं कृथाः । 026a
त्वत्कृते सुकृतां लोकान्गच्छेयं द्विपदांवर ॥ 026c
एवमुक्त्वा तु वचनं विरराम परन्तपः । 027a
सुतः पाञ्चालराजस्य आक्रान्तो बलिना भृशम् ॥ 027c
तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत् । 028a
आचार्यघातिनां लोका न सन्ति कुलपांसन । 028c
तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते ॥ 028e
'नृशंसेनातिवृत्तेन त्वया मे निहतः पिता । 029a
तस्मात्त्वमपि वध्यश्च नृशंसेन नृशंसकृत् ॥' 029c
एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम् । 030a
मर्मस्वभ्यवधीत्क्रुद्धः पादघातैः सुदारुणैः ॥ 030c
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि । 031a
अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः ॥ 031c
ते दृष्ट्वा धर्षयन्तं तमतिमानुषविक्रमम् । 032a
भूतमित्यध्यवस्यन्तो न स्म प्रव्याहरन्भयात् ॥ 032c
तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम् । 033a
अध्यतिष्ठत तेजस्वी रथं प्राप्य सुदर्शनम् ॥ 033c
स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः । 034a
रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली ॥ 034c
अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे । 035a
सहितैः रक्षिभिः सर्वैः प्राणेदुर्योषितस्तदा ॥ 035c
राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः । 036a
व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत ॥ 036c
तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः । 037a
सम्भ्रान्ताः समनह्यन्त किमेतदिति चाब्रुवन् ॥ 037c
स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य ताः । 038a
अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै ॥ 038c
राक्षसो वा मनुष्यो वा नैनं जानीम कोन्वयम् । 039a
हत्वा पाञ्चालराजानं रथमारुह्य तिष्ठति ॥ 039c
ततस्ते योधमुख्यास्तं सहसा पर्यवारयन् । 040a
स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् ॥ 040c
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान् । 041a
अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके ॥ 041c
तमप्याक्रम्य पादेन कण्ठे चोरसि तेजसा । 042a
तथैव मारयामास विनर्दन्तमरिन्दमम् ॥ 042c
युधामन्युश्च विक्रान्तो मत्वा तं राक्षसं स्म सः । 043a
गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत् ॥ 043c
'गदाप्रहाराभिहतो नाचलद्द्रौणिराहवे ।' 044a
तमभिद्रुत्य वेगेन क्षितौ चैनमपातयत् ॥ 044c
विस्फुरन्तं च पशुवत्तथैवैनममारयत् । 045a
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत् ॥ 045c
संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् । 046a
पाञ्चालवीरानाक्रम्य क्रुद्धो न्यहनदन्तिके । 046c
स्फुरतो वेपमानांश्च शमितेव पशून्मखे ॥ 046e
ततो निस्त्रिंशमादाय जघानान्यान्पृथक्पृथक् । 047a
भागशो विचरन्मार्गानसियुद्धविशारदः ॥ 047c
तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान् । 048a
श्रान्तान्व्यस्तायुधान्सर्वानसिनैव व्यपोथयत् ॥ 048c
योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना । 049a
रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः ॥ 049c
विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च । 050a
अवक्षेपेण चैवासेस्त्रिधा रक्तोक्षितोऽभवत् ॥ 050c
तस्य लोहितरक्तस्य दीप्तखड्गस्य युध्यतः । 051a
अमानुष इवाकारो बभौ परमभीषणः ॥ 051c
ये त्वजाग्रन्त कौरव्य तेऽपि शब्देन मोहिताः । 052a
वीक्षमाणास्तु ते तत्र द्रौणिं दृष्ट्वा प्रविव्यथुः ॥ 052c
तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनम् । 053a
राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् ॥ 053c
स घोररूपो व्यचरत्कालवच्छिबिरे तदा । 054a
अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ॥ 054c
तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः । 055a
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशाम्पते । 055c
अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् ॥ 055e
ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः । 056a
शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन् ॥ 056c
भारद्वाजः स तान्दृष्ट्वा शरवर्षाणि वर्षतः । 057a
ननाद बलवन्नादं जिघांसुस्तान्महारथान् ॥ 057c
ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन् । 058a
अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे ॥ 058c
सहस्रचन्द्रविमलं गृहीत्वा चर्म संयुगे । 059a
खड्गं च विमलं दिव्यं जातरूपपरिष्कृतम् । 059c
द्रौपदेयानभिद्रुत्य खड्गेन व्यधमद्बली ॥ 059e
ततः स नरशार्दूलः प्रतिविन्ध्यं महाहवे । 060a
कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि ॥ 060c
प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान् । 061a
पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत् ॥ 061c
सुतसोमस्य सासिं तं बाहुं छित्त्वा नरर्षभ । 062a
पुनरप्याहनत्पार्श्वे स भिन्नहृदयोऽपतत् ॥ 062c
नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान् । 063a
दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत् ॥ 063c
अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः । 064a
स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः ॥ 064c
श्रुतकर्मा तु परिघं घोरं गृह्य दुरासदम् । 065a
अताडयत्समुद्यम्य वेगेन द्रौणिमुत्स्मयन् ॥ 065c
स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना । 066a
स हतो न्यपतद्भूमौ विमूर्धा विकृताननः ॥ 066c
तेन शब्देन वीरस्तु श्रुतकीर्तिरबुध्यत । 067a
अश्वत्थामानमासाद्य शरवर्षैरवाकिरत् ॥ 067c
'शरैराच्छादितस्तेन द्रोणपुत्रो महारथः । 068a
अदृश्यत महाराज श्वाविच्छललतो यथा ॥' 068c
तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः । 069a
सकुण्डलं शिरः कायाद्भ्राजमानमपाहरत् ॥ 069c
ततो भीष्मनिहन्तारं सह सर्वैः प्रभद्रकैः । 070a
आहनत्सर्वतो वीरं नानाप्रहरणैर्बलात् ॥ 070c
शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्पयत् ॥ 071a
स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः । 072c
शिखण्डिनं समासाद्य द्विधा चिच्छेद सोसिना ॥ 072ac
शिखण्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः । 073a
प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् ॥ 073c
यच्च शिष्टं विराटस्य बलं तु भृशमाद्रवत् । 074a
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि । 074c
चकार कदनं घोरं दृष्ट्वा तत्र महाबलः ॥ 074e
अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च । 075a
न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः ॥ 075c
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम् । 076a
रक्ताम्बरधरां घोरां पाशहस्तां कुटुम्बिनीम् ॥ 076c
ददृशुः कालरात्रिं ते स्मयमानामिव स्थिताम् । 077a
नराश्वकुञ्जरान्पाशैर्बद्ध्वा घोरैः प्रतस्थुषीम् ॥ 077c
वहन्तीं विविधान्प्रेतान्पाशबद्धान्विमूर्धजान् । 078a
तथैव च सदा राजन्न्यस्तशस्त्रान्महारथान् ॥ 078c
स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष । 079a
ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा ॥ 079c
यतः प्रभृति सङ्ग्रामः कुरुपाण्डवसेनयोः । 080a
ततः प्रभृति तां कन्यामपश्यन्द्रौणिमेव च ॥ 080c
तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्व्यपातयत् । 081a
त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान् ॥ 081c
तदनुस्मृत्य ते वीरा दर्शनं पूर्वकालिकम् । 082a
इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः ॥ 082c
ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः । 083a
शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः ॥ 083c
सोऽच्छिनत्कस्यचित्पदौ जघनं चैव कस्यचित् । 084a
कांश्चिद्बिभेदपार्श्वेषु कालसृष्ट इवान्तकः ॥ 084c
अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशोत्कटैः । 085a
गजाश्वमथितैश्चान्यैर्मही कीर्णाऽभवत्प्रभो ॥ 085c
क्रोशतां किमिदं कोऽयं कः शब्दः किन्नु किं कृतम् । 086a
पाञ्चालानां तथा द्रौणिरन्तकः समपद्यत ॥ 086c
अपेतशस्त्रसन्नाहान्सन्नद्धान्पाण्डुसृञ्जयान् । 087a
प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः ॥ 087c
ततस्तच्छस्त्रवित्रस्ता भयादभ्यपतन्नराः । 088a
निद्रान्धा नष्टसञ्ज्ञाश्च तत्रतत्र निपेतिरे ॥ 088c
ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः । 089a
विनदन्तो भृशं त्रस्ता निरैक्षन्त परस्परम् ॥ 089c
ततो रथं पुनर्द्रौणिरास्थितो भीमदर्शनः । 090a
धनुष्पाणिः शरैरन्यान्प्रैषयद्वै यमक्षयम् ॥ 090c
पुनरुत्पततश्चापि दूरादपि नरोत्तमान् । 091a
शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत् ॥ 091c
तथैव स्यन्दनाग्रेण प्रमथन्स व्यरोचत । 092a
शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः ॥ 092c
पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा । 093a
तेन चाकाशवर्णेन तथाचरत सोऽसिना ॥ 093c
तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः । 094a
व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः ॥ 094c
उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः । 095a
निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः ॥ 095c
विस्वरं चुक्रुशुश्चान्ये बह्वबद्वं तथाऽवदन् । 096a
न च स्म प्रत्यपद्यन्त शस्त्राणि वसनानि च ॥ 096c
विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम् । 097a
उत्पतन्तोऽपतञ्श्रान्ताः केचित्तत्राभ्रमंस्तदा । 097c
पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः ॥ 097e
बन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः । 098a
समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम् ॥ 098c
तत्र केचिन्नरा भीता व्यलीयन्त महीतले । 099a
तथैव तान्निपतितानपिंषन्गजवाजिनः ॥ 099c
तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ । 100a
हृष्टानि व्यनदन्नुच्चैर्मुदा युक्तानि सत्तम ॥ 100c
स शब्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः । 101a
अपूरयद्दिशः सर्वा दिवं चातिमहान्स्वनः ॥ 101c
तेषामार्तरवं श्रुत्वा वित्रस्ता गजवाजिनः । 102a
मुक्ताः पर्यपतन्राजन्मृद्नन्तः शिबिरे जनम् ॥ 102c
तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः । 103a
अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः ॥ 103c
तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः । 104a
नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च ॥ 104c
गजो गजानतिक्रम्य निर्मनुष्या हया हयान् । 105a
अताडयंस्तथाऽभञ्जंस्तथाऽमृद्नंश्च भारत ॥ 105c
ते भग्नाः प्रपतन्ति स्म मृद्नन्तश्च परस्परम् । 106a
न्यपातयंस्तथा चान्यान्पातयित्वा तदाऽपिषन् ॥ 106c
विचेतसः सनिद्राश्च तमसा चावृता नराः । 107a
जघ्नुः स्वानेव तत्राथ कालेनैव प्रचोदिताः ॥ 107c
त्यक्त्वा द्वाराणि च द्वास्थास्तथागुल्मानिगौल्मिकाः । 108a
प्राद्रवन्त यथाशक्ति कान्दिशीका विचेतसः ॥ 108c
विप्रनष्टाश्च तेऽन्योन्यं नाजानन्तस्तथा विभो । 109a
क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः ॥ 109c
पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान् । 110a
गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः ॥ 110c
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे । 111a
तान्बुद्ध्वा रणमध्येऽसौ द्रोणपुत्रो व्यपोथयत् ॥ 111c
तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः । 112a
शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः ॥ 112c
तांस्तु निष्पतितांस्त्रस्ताञ्शिबिराज्जीवितैषिणः । 113a
कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः ॥ 113c
विस्रस्तयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन् । 114a
वेपमानान्क्षितौ भीतान्नैव कांश्चिदमुच्यताम् ॥ 114c
नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः ॥ 115ac
कृपश्चैव महाराज हार्दिक्यश्चैव दुर्मतिः । 116a
भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम् । 116c
त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम् ॥ 116e
ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः । 117a
अश्वत्थामा महाराज व्यचरत्कृतहस्तवत् ॥ 117c
कांश्चिदापततो वीरानपरांश्चैव धावतः । 118a
व्ययोजयत खड्गेन प्राणैर्द्विजवरोत्तमः ॥ 118c
कांश्चिद्योधान्स खड्गेन मध्ये सञ्छिद्य वीर्यवान् । 119a
अशातयद्द्रोणपुत्रः संरब्धस्तिलकाण्डवत् ॥ 119c
निनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः । 120a
पतितैरभवत्कीर्णा मेदिनी भरतर्षभ ॥ 120c
मानुषाणां सहस्रेषु हतेषु पतितेषु च । 121a
उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन् ॥ 121c
सायुधान्साङ्गदान्बाहून्विचकर्त शिरांसि च । 122a
हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत ॥ 122c
पृष्ठच्छिन्नान्पार्श्वच्छिन्नाञ्शिरश्छिन्नांस्तथापरान् । 123a
स महात्माकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान् ॥ 123c
मध्यदेशे नरानन्यांश्चिच्छेदान्यांश्च कर्णतः । 124a
अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः ॥ 124c
एवं हि बहुभिः शस्त्रैर्घ्नतोऽपि बलवत्तरान् । 125a
तमसा रजनी घोरा बभौ दारुणदर्शना ॥ 125c
किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः । 126a
बहुना च गजाश्वेन भूरभूद्भीमदर्शना ॥ 126c
यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे । 127a
क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि । 127c
भ्रातॄनन्ये पितॄनन्ये पुत्रानन्ये विचुक्रुशुः ॥ 127e
केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे । 128a
यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः । 128c
असान्निध्याद्धि पार्थानामिदं वः कदनं कृतम् ॥ 128e
न चासुरैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः । 129a
शक्यो विजेतुं कौन्तेयो नेता यस्य जनार्दनः । 129c
ब्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः ॥ 129e
न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् । 130a
धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः ॥ 130c
तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः । 131a
इति लालप्यमानाः स्म शेरते बहवो जनाः ॥ 131c
स्तनतां च मनुष्याणामपरेषां च कूजताम् । 132a
ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान् ॥ 132c
शोणितव्यतिषिक्तायां वसुधायां च भूमिप । 133a
तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत ॥ 133c
स चेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः । 134a
न्यपातयन्नरान्क्रुद्धः पशून्पशुपतिर्यथा ॥ 134c
अन्योन्यं सम्परिष्वज्य शयानाञ्जीवतोऽपरान् । 135a
संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत् ॥ 135c
दह्यमाना हुताशेन वध्यमानाश्च तेन ते । 136a
परस्परं तदा योधाननयद्यमसादनम् ॥ 136c
तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम् । 137a
गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम् ॥ 137c
निशाचराणां सत्वानां रात्रिः सा हर्षवर्धिनी । 138a
आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम् ॥ 138c
तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः । 139a
खादन्तो नरमांसानि पिबन्तः शोणितानि च ॥ 139c
करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः । 140a
जटिला भीमवक्त्राश्च पञ्चपादा महोदराः ॥ 140c
पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः । 141a
गजाननाश्च ह्रस्वाश्च नीलवर्णा विभीषणाः ॥ 141c
सपुत्रदाराः सुक्रूराः सुदुर्दर्शाः सुनिर्घृणाः । 142a
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम् ॥ 142c
पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे । 143a
इदं परमिदं मेध्यमिदं स्वाद्विति चाब्रुवन् ॥ 143c
मेदोमज्जास्थिरक्तानां मांसानां च भृशाशिताः । 144a
परे मांसानि खादन्तः क्रव्यादा मांसजीविनः ॥ 144c
वसाश्चैवापरे पीत्वा पर्यधावन्विकुक्षिकाः । 145a
नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशनाः ॥ 145c
अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च । 146a
रक्षसां घोररूपाणां महतां क्रूरकर्मणाम् ॥ 146c
मुदितानां वितृप्तानां तस्मिन्महति वैशसे । 147a
समेतानि बहून्यासन्भूतानि च जनाधिप || 147c
एवंविधा हि सा रात्रिः सोमकानां जनक्षये । 148a
प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा ॥ 148c
असंशयं हि कालस्य पर्यायो दुरतिक्रमः । 149a
तादृशा निहता यत्र कृत्वाऽस्माकं जनक्षयम् ॥ 149c
धृतराष्ट्र उवाच 150
प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः । 150a
नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः ॥ 150c
अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ । 151a
द्रोणपुत्रो महात्मा स तन्मे शंसितुमर्हसि ॥ 151c
सञ्जय उवाच 152
तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन । 152a
असान्निध्याद्धि पार्थानां केशवस्य च धीमतः । 152c
सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम् ॥ 152e
को हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः । 153a
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो ॥ 153c
ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् । 154a
प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः ॥ 154c
नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः । 155a
पाणिना सह संश्लिष्ट एकीभूत इव प्रभो ॥ 155c
स निःशेषानरीन्कृत्वा विरराम निशाक्षये । 156a
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥ 156c
यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो । 157a
दुर्गमां पदवीं गच्छन्पितुरासीद्गतज्वरः ॥ 157c
यथैव संसुप्तजने शिबिरे प्राविशन्निशि । 158a
तथैव हत्वा निःशब्दो निश्चक्राम नरर्षभः ॥ 158c
निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान् । 159a
आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो ॥ 159c
तावथाचख्यतुस्तस्मै प्रियं प्रियकरौ तदा । 160a
पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः ॥ 160c
प्रीत्या चोच्चैरुद्रक्रोशंस्तथैवास्फोटयंस्तलान् । 161a
दिष्ट्यादिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः ॥ 161c
पर्यष्वजत्ततो द्रौणिस्ताभ्यां सम्प्रतिनन्दितः । 162a
इदं हर्षात्तु सुमहदाददे वाक्यमुत्तमम् ॥ 162c
पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः । 163a
सोमका मत्स्यशेषाश्च सर्वे विनिहता मया ॥ 163c
इदानीं कृतकृत्याः स्म याम तत्रैव मा चिरम् । 164a
यदि जीवति नो राजा तस्मै शंसामहे प्रियम् ॥ 164c

इति श्रीमन्महाभारते सौप्तिकपर्वणि अष्टमोऽध्यायः ॥ 8 ॥

10-8-7 पाञ्चालैः पूर्वं निहतौ सन्तौ स्वपतां कच्चित् कोपात् स्वपतां पाञ्चालानां कर्म वधाख्यं ताभ्यां कच्चित्कृतमिति सम्बन्धः ॥ 10-8-8 शिबिरद्वार्यतिष्ठतामिति झ. पाठः ॥ 10-8-11 वां युवां प्राप्येति शेषः ॥ 10-8-13 उद्देशज्ञः धृष्टद्युम्नस्थलज्ञः ॥ 10-8-30 पादाष्ठीलैरिति झ. पाठः । तत्र पादाष्ठीलैः पादग्रन्थिभिः । पार्ष्णिघातैरित्यर्थः ॥ 10-8-50 तैश्छिन्नगात्रैर्विस्फुरद्भिस्तेषां शरीरादुच्चलद्भी रक्तबिन्दुभिरित्यर्थः ॥ 10-8-87 पाण्डुसृञ्जयान् पाण्डवसम्बन्धिनः सृञ्जयान् । पाण्डोर्गोत्रापत्यानि सृञ्जयाश्च तान्वा ॥ 10-8-105 अभञ्जन् गात्राण्यनमयन् । अमृद्नन् परस्परं मर्दितवन्तः ॥ 10-8-106 अपिषन् अपिंषन् ॥ 10-8-144 भृशाशिताः भृशं सन्तर्पिताः ॥ 10-8-145 विकुक्षिकाः विपुलकुक्षयः ॥ अष्टमोऽध्यायः ॥