श्रीः अध्यायः 007 द्रौणिना शिवस्तुतिः ॥ 1 ॥ द्रौणेः पुरतः काञ्चनवेद्यामग्न्युद्भवः ॥ 2 ॥ द्रौणेः समीपे नानाविधभीषणभूतगणानामागमनम् ॥ 3 ॥ शिवेन आत्मनो हविष्ट्वकल्पनपूर्वकमग्नौ प्रविष्टाय द्रौणये खड्गदानपूर्वकं तच्छरीरप्रवेशः ॥ 4 ॥ पुनरश्वत्थाम्नः शिबिरगमनम् ॥ 5 ॥ सञ्जय उवाच 001
एवं सञ्चिन्तयित्वा तु द्रोणपुत्रो विशाम्पते । 001a
अवतीर्य रथोपस्थाद्दध्यौ स प्रयतः स्थितः ॥ 001c
द्रौणिरुवाच 002
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम् । 002a
गिरिशं वरदं देवं भवभावनमव्ययम् ॥ 002c
शितिकण्ठमजं रुद्रं दक्षक्रतुहरं हरम् । 003a
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥ 003c
श्मशानवासिनं दृप्तं महागणपतिं विभुम् । 004a
खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् ॥ 004c
मनसा ह्यनुचिन्त्यैनं दुष्करेणाल्पचेतसा । 005a
अद्य भूतोपहारेण यक्ष्ये त्रिपुरघातिनम् ॥ 005c
स्तुतं स्तुत्यं स्तूयमानममोघं कृत्तिवाससम् । 006a
विलोहितं नीलकण्ठमसह्यं दुर्निवारणम् ॥ 006c
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च । 007a
व्रतवन्तं तपोनिष्ठमनन्तं तपतां गतिम् ॥ 007c
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् । 008a
धनाध्यक्षप्रियसखं गौरीहृदयवल्लभम् ॥ 008c
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् । 009a
कुत्तिवाससमत्युग्रमातोषणतत्परम् ॥ 009c
परं परेभ्यः परमं परं यस्मान्न विद्यते । 010a
इष्वस्त्रोत्तमभर्तारं दिगन्तं देशरक्षिणम् ॥ 010c
हिरण्यकवचं देवं चन्द्रमौलिविभूषणम् । 011a
प्रपद्ये शरणं देवं परमेण समाधिना ॥ 011c
इमां चेदापदं घोरां तराम्यद्य सुदुस्तराम् । 012a
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम् ॥ 012c
इति तस्य व्यवसितं ज्ञात्वा योगात्सुकर्मणः । 013a
पुरस्तात्काञ्चनी वेदी प्रादुरासीन्महात्मनः ॥ 013c
तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत । 014a
स दिशो विदिशः खं च ज्वालाभिरिव पूरयन् ॥ 014c
दीप्तास्यनयनाश्चात्र नैकपादशिरोधराः । 015a
[रत्नचित्राङ्गदधराः समुद्यतकरास्तथाः ॥] 015c
द्विपाः शैलप्रतीकाशाः प्रादुरासन्महागणाः । 016a
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः ॥ 016c
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा । 017a
काकवक्त्राः प्लुवमुखाः शुकवक्त्रास्तथैव च ॥ 017c
महाजगरवक्त्राश्च हंसवक्त्राः शितप्रभाः । 018a
दार्वाघाटमुखाश्चापि चाषवक्त्राश्च भारत ॥ 018c
कूर्मनक्रमुखाश्चैव शिंशुमारमुखास्तथा । 019a
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च ॥ 019c
हरिवक्त्राः क्रौञ्चमुखाः कपोताभमुखास्तथा । 020a
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च ॥ 020c
पाणिकर्णाः सहस्राक्षास्तथैव च महोदराः । 021a
निर्मांसाः काकवक्त्राश्च श्येनवक्त्राश्च भारत ॥ 021c
तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः । 022a
प्रदीप्तनेत्रजिह्वाश्च ज्वालावर्णास्तथैव च ॥ 022c
ज्वालाकेशाश्च राजेन्द्र ज्वलद्रोमचतुर्भुजाः । 023a
मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप ॥ 023c
शङ्खाभाः शङ्खवक्त्राश्च शङ्खवर्णास्तथैव च । 024a
शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः ॥ 024c
जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः । 025a
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः ॥ 025c
मौञ्जीधराश्च राजेन्द्र तथा कुञ्चितमूर्धजाः । 026a
उष्णीषिणः कुण्डलिनश्चारुवक्त्राः स्वलङ्कृताः ॥ 026c
पद्मोत्पलापीडधरास्तथा मुकुटधारिणः । 027a
माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः ॥ 027c
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः । 028a
भुशुण्डीपाशहस्ताश्च दण्डहस्ताश्च भारत ॥ 028c
पृष्ठेषु बद्धेषुधयश्चित्रबाणोत्कटास्तथा । 029a
सध्वजाः सपताकाश्च सघण्टाः सपरश्वथाः ॥ 029c
महापाशोद्यतकरास्तथा लगुडपाणयः । 030a
स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः ॥ 030c
महासर्पाङ्गदधराश्चित्राभरणधारिणः । 031a
रजोध्वजाः पङ्कदिग्धाः सर्वे चित्राम्बरस्रजः । 031c
नीलाङ्गाः पिङ्गलाङ्गाश्च मुण्डवक्त्रास्तथैव च ॥ 031e
भेरीशङ्खमृदङ्गांश्च झर्झरानकगोमुखान् । 032a
अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः ॥ 032c
गायमानास्तथैवान्ये संहृष्टाः पुरुषर्षभाः । 033a
लङ्घयन्तः प्लवन्तश्च वल्गन्तश्च महारथाः ॥ 033c
धावन्तो जवनाश्चण्डाः पावकोद्धूतमूर्धजाः । 034a
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः ॥ 034c
सुभीमा घोररूपाश्च शूलपट्टसपाणयः । 035a
नानाविरागवसनाश्चित्रमाल्यानुलेपनाः ॥ 035c
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा । 036a
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः ॥ 036c
पातारोऽसृग्वसाज्यानां मांसान्त्रकृतभोजनाः । 037a
चूडालाः कर्णिकाराश्च प्रहृष्टाः पिठरोदराः ॥ 037c
अतिह्रास्वातिदीर्घाश्च प्रलम्बाश्चातिभैरवाः । 038a
विकटाः काललम्बोष्ठा बृहच्छेफाण्डपिण्डिकाः ॥ 038c
महार्हनानाविकटा मुण्डाश्च जटिलाः परे । 039a
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युस्ते महीतले ॥ 039c
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् । 040a
ये च वीतभया नित्यं हरस्य भ्रुकुटीसहाः ॥ 040c
कामकारकरा नित्यं त्रैलोक्यस्येश्वरेश्वराः । 041a
नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः ॥ 041c
प्राप्याष्टगुणमैश्वर्यं ये न यास्यन्ति वै स्मयम् । 042a
येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः ॥ 042c
मनोवाक्कर्मभिर्युक्तैर्नित्यमाराधितश्च यैः । 043a
मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान् ॥ 043c
पिबन्तोऽसृग्वसाश्चान्ये क्रुद्धा ब्रह्मद्विषां सदा । 044a
चतुर्विधात्मकं सोमं ये पिबन्ति च सर्वदा ॥ 044c
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च । 045a
ये समाराध्य शूलाङ्कं भवसायुज्यमागताः ॥ 045c
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः । 046a
महाभूतगणैर्भुङ्क्ते भूतभव्यभवत्प्रभुः ॥ 046c
नानावादित्रहसितक्ष्वेडितोत्कृष्टगर्जितैः । 047a
सन्त्रासयन्तस्ते विश्वमश्वत्थामानमभ्ययुः ॥ 047c
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः । 048a
विवर्धयिषवो द्रौणेर्महिमानं महात्मनः ॥ 048c
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः । 049a
भीमोग्रपरिघालातशूलपट्टसपाणयः । 049c
घोररूपाः समाजग्मुर्भूतसङ्घाः सहस्रशः ॥ 049e
जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात् । 050a
न च तान्प्रेक्षमाणोऽपि व्यथामुपजगाम ह ॥ 050c
अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान् । 051a
स्वयमेवात्मनात्मानमुपहारमुपाहरत् ॥ 051c
धनूंषि समिधस्तत्र पवित्राणि सिताः शराः । 052a
हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि ॥ 052c
ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान् । 053a
उपहारं महामन्युरथात्मानमुपाहरत् ॥ 053c
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम् । 054a
अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः ॥ 054c
द्रौणिरुवाच 055
इममात्मानमद्याहं जातमाङ्गिरसे कुले । 055a
स्वग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम् ॥ 055c
भवद्भक्त्या महादेव परमेण समाधिना । 056a
अस्यामापदि विश्वात्मन्नुपाकुर्मि तवाग्रतः ॥ 056c
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै । 057a
गुणानां हि प्रधानानां कैवल्यं त्वयि तिष्ठति ॥ 057c
सर्वभूताश्रय विभो हविर्भूतमवस्थितम् । 058a
प्रतिगृहाण मां देव यद्यशक्याः परे मया ॥ 058c
इत्युक्त्वा द्रौणिरास्थाय तां वेदीं दीप्तपावकाम् । 059a
सन्त्यज्यात्मानमारुह्य कृष्णवर्त्मन्युपाविशत् ॥ 059c
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम् । 060a
अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव ॥ 060c
सत्यशौचार्जवत्यागैस्तपसा नियमेन च । 061a
क्षान्त्या भक्त्या च धृत्या च कर्मणा मनसा गिरा ॥ 061c
यथावदहमाराद्धः कृष्णेनाक्लिष्टकर्मणा । 062a
तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते ॥ 062c
कुर्वता तात सम्मानं त्वां च जिज्ञासता मया । 063a
पाञ्चालाः सर्वदा गुप्ता मायाश्च बहुशः कृताः ॥ 063c
कृतस्तस्यैव सम्मानं पाञ्चालान्रक्षता मया । 064a
अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम् ॥ 064c
एवमुक्त्वा महात्मानं भगवानात्मनस्तनुम् । 065a
आविवेश ददौ चास्मै विमलं खड्गमुत्तमम् ॥ 065c
अथाविष्टो भगवता भूयो जज्वाल तेजसा । 066a
वेगवांश्चाभवद्युद्धे देवसृष्टेन तेजसा ॥ 066c
तं दृष्ट्वा तानि भूतानि रक्षांसि च समाद्रवन् । 067a
अभितः शिबिरं यान्तं द्रोणपुत्रं महारथम् । 067c
देवदेवं हरं स्थाणुं यान्तं साक्षादिवेश्वरम् ॥ 067e

इति श्रीमन्महाभारते सौप्तिकपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

10-7-1 रथोपस्थाद्दध्यौ स प्रयतः स्थितः इति क. पाठः ॥ 10-7-5 सोऽहमात्मोपहारेणेति झ. पाठः ॥ 10-7-9 उमाभूषणतत्परमिति झ. पाठः ॥ 10-7-11 हिरण्यदण्डकवचं चारुमौलिविभूषणमिति क. पाठः ॥ 10-7-17 प्लवमुखाः मण्डूकवक्त्राः ॥ 10-7-18 दार्वाघाटः पक्षिविशेषः । महागजसवक्त्राश्चेति क. पाठः ॥ 10-7-38 पिण्डिका जानुनोरधःपश्चाद्भागः ॥ 10-7-53 सौम्येन सोमदैवत्येन मन्त्रेण ॥ सप्तमोऽध्यायः ॥