श्रीः
अध्यायः 006
अश्वत्थाम्नः शिबिरद्वारस्थमहाभूतदर्शनम् ॥ 1 ॥ भूतजिगीषया द्रौणिविसृष्टानामस्त्रशस्त्राणां भूतेन ग्रसनम् ॥ 2 ॥ ततश्चिन्तातान्तस्य द्रौणेर्महादेवोपासनाध्यवसायः ॥ 3 ॥
धृतराष्ट्र उवाच 001
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ । 001a
अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे ॥ 001c
सञ्जय उवाच 002
कृतवर्माणमामन्त्र्य कृपं च स महारथः । 002a
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् ॥ 002c
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् । 003a
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं रोमहर्षणम् ॥ 003c
वसानं चर्म वैयाघ्रं वसारुधिरविस्रवम् । 004a
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् ॥ 004c
बाहुभिः स्वायतैर्भीमैर्नानाप्रहरणोद्यतैः । 005a
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् ॥ 005c
दंष्ट्राकरालवदनं व्यादितास्यं भयानकम् । 006a
नयनानां सहस्रैश्च विचित्रैरभिभूषितम् ॥ 006c
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव च । 007a
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः ॥ 007c
तस्यास्यनासिकाभ्यां च श्रवणाभ्यां च सर्वशः । 008a
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः ॥ 008c
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः । 009a
प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः ॥ 009c
तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम् । 010a
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् ॥ 010c
द्रौणिमुक्ताञ्छरांस्तांस्तु तद्भूतं महदग्रसत् । 011a
उदधेरिव वार्योघान्पावको बडबामुखः ॥ 011c
अश्वत्थामा तु सम्प्रेक्ष्य शरौघांस्तान्निरर्थकान् । 012a
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव ॥ 012c
सा तमाहत्य दीप्ताग्रा रथशक्तिरदीर्यत । 013a
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता ॥ 013c
अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम् | 014a
कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम् ॥ 014c
ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदा । 015a
स तदासाद्य भूतं वै विलयं तूलवद्ययौ ॥ 015c
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् । 016a
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् ॥ 016c
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः । 017a
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः ॥ 017c
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः । 018a
अचिन्तयत्सुसन्त्रस्तः कृपभोजवचः स्मरन् ॥ 018c
ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः । 019a
स शोचत्यापदं प्राप्य यथाऽहमवमत्य तौ ॥ 019c
शास्त्रदृष्टानविद्वान्यः समतीत्य जिघांसति । 020a
स पथः प्रच्युतो धर्म्यात्कुपथे प्रतिहन्यते ॥ 020c
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा । 021a
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च ॥ 021c
मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च पातयेत् । 022a
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ॥ 022c
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् । 023a
अमार्गेणैवमारभ्य घोरामापदमागतः ॥ 023c
तां चापदं घोरतरां प्रवदन्ति मनीषिणः । 024a
यदुद्यम्य महत्कृत्यं भयादपि निवर्तते ॥ 024c
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह । 025a
न हि दैवाद्गरीयो वै मानुष्यं किञ्चिदिष्यते ॥ 025c
मानुष्यं कुर्वतः कर्म यदि दैवान्न सिध्यति । 026a
स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते ॥ 026c
प्रतिज्ञानं ह्यविज्ञानं प्रवदन्ति मनीषिणः । 027a
यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते ॥ 027c
तदिदं दुष्प्रणीतेन भयं मा समुपस्थितम् । 028a
न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन ॥ 028c
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् । 029a
न चैतदभिजानामि चिन्तयन्नपि सर्वथा ॥ 029c
ध्रुवं येयमधर्मेण प्रहिता कलुषा मतिः । 030a
तस्याः फलमिदं घोरं प्रतिघाताय कल्पते ॥ 030c
तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम् । 031a
नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन ॥ 031c
सोऽहमद्य महादेवं प्रपद्ये शरणं विभुम् । 032a
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति ॥ 032c
कपर्दिनं प्रपद्येऽहं देवदेवमुमापतिम् । 033a
कपालमालिनं रुद्रं भगनेत्रहरं हरम् ॥ 033c
स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च । 034a
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् ॥॥ 034c
इति श्रीमन्महाभारते सौप्तिकपर्वणि षष्ठोऽध्यायः ॥ 6 ॥
10-6-12 रथशक्तिं चक्रम् ॥ 10-6-13 युग्मान्ते सूर्यमिति झ. पाठः तत्र युग्मान्ते मिथुनराशेरन्ते अतिदीप्तं इत्यर्थः ॥ 10-6-15 विलं नकुलवद्ययौ इति झ. पाठः ॥ 10-6-17 अनाकाशं निरवकाशम् ॥ षष्ठोऽध्यायः ॥