श्रीः अध्यायः 005 कृपेण प्रसुप्तमारणस्याधार्मिकत्वकथनेन प्रतिषेधनेऽपि पितृवधामर्षिणा द्रौणिना जिघांसया रिपुशिबिरद्वारगमनम् ॥ 1 ॥ कृपकृतवर्मभ्यामपि सौहार्दात्तदनुगमनम् ॥ 2 ॥ कृप उवाच 001
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः । 001a
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः ॥ 001c
तथैव तावन्मेधावी विनयं यो न शिक्षते । 002a
न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चयम् ॥ 002c
[चिरं ह्यपि जडः शूरः पण्डितं पर्युपास्य ह । 003a
न स धर्मान्विजानाति दर्वी सूपरसानिव ॥ 003c
मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य हि । 004a
क्षिप्रं धर्मान्विजानाति जिह्वा सूपरसानिव ॥ 004c
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः । 005a
जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत् ॥ 005c
अनयस्त्ववमानी यो दुरात्मा पापपूरुषः । 006a
दिष्टमुत्सृज्य कल्याणं करोति बहुपातकम् ॥ 006c
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात् । 007a
निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते ॥ 007c
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते । 008a
तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति ॥ 008c
तथैव सुहृदोऽप्राज्ञान्कुर्वाणान्कर्म पापकम् । 009a
प्राज्ञाः सम्प्रतिषेधन्ति यथाशक्ति पुनःपुनः ॥ 009c
स कल्याणे मनः कृत्वा नियम्यात्मानमात्मना । 010a
कुरु मे वचनं तात येन पश्चान्न तप्स्यसे ॥ 010c
न वधः पूज्यते लोके सुप्तानामिह धर्मतः । 011a
तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् ॥ 011c
ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताः । 012a
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः ॥ 012c
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो । 013a
विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः ॥ 013c
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः । 014a
व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे ॥ 014c
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः । 015a
न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम् ॥ 015c
त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ । 016a
प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् ॥ 016c
असम्भावितरूपं हि त्वयि कर्म विगर्हितम् । 017a
शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम ॥ 017c
अश्वत्थामोवाच 018
एवमेव यथाऽऽत्थ त्वमनुशाससि मातुल । 018a
तैस्तु पूर्वमयं सेतुः समन्ताद्विह्वलीकृतः ॥ 018c
प्रत्यक्षं भूमिपालानां भवतां चापि सन्निधौ । 019a
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥ 019c
कर्णश्च पतिते चक्रे उत्थास्यन्रथिनां वरः । 020a
उत्तमे व्यसने मग्नो हतो गाण्डीवधन्वना ॥ 020c
तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः । 021a
शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना ॥ 021c
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे । 022a
क्रोशतां भूमिपालानां युयुधानेन पातितः ॥ 022c
दुर्योधनश्च भीमेन समेत्य गदया मृधे । 023a
पश्यतां भूमिपालानामधर्मेण निपातितः ॥ 023c
एकाकी बहुभिस्तत्र परिवार्य महारथैः । 024a
अधर्मेण नरव्याघ्रो भीमसेनेन पातितः ॥ 024c
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः । 025a
वादिकानां कथयतां स मे मर्माणि कृन्तति ॥ 025c
एवं चाधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः । 026a
तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति ॥ 026c
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके । 027a
कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै ॥ 027c
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम् । 028a
तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् ॥ 028c
न स जातः पुमाल्ँलोके कश्चिन्न स भविष्यति । 029a
यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम् ॥ 029c
सञ्जय उवाच 030
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान् । 030a
एकान्ते योजयित्वाऽश्वान्प्रायादभिमुखः परान् ॥ 030c
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ । 031a
किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् ॥ 031c
एकसार्थप्रयातौ स्वस्त्वया सह नरर्षभ । 032a
समदुःखसुखौ चापि तस्माच्छंसितुमर्हसि ॥ 032c
अश्वत्थामा तुं सङ्क्रुद्धः पितुर्वधमनुस्मरन् । 033a
ताभ्यां तथ्यं तथाऽऽचख्यौ यदस्यात्मचिकीर्षितम् ॥ 033c
हत्वा शतसहस्राणि योधानां निशितैः शरैः । 034a
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥ 034c
तं तथैव वधिष्यामि न्यस्तवर्माणमद्य वै । 035a
पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा ॥ 035c
तथा विनिहतः पापः पाञ्चाल्यः पशुवन्मया । 036a
शस्त्रेण विजिताल्ँलोकान्नाप्नुयादिति मे मतिः ॥ 036c
क्षिप्रं सन्नद्धकवचौ सखड्गावात्तकार्मुकौ । 037a
मामेवाद्य प्रतीक्षेतां रथवर्यौ परन्तपौ ॥ 037c
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान् । 038a
तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः ॥ 038c
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः । 039a
हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः ॥ 039c
ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो । 040a
द्वारदेशमनुप्राप्य द्रौणिस्तस्थौ महारथः ॥॥ 040c

इति श्रीमन्महाभारते सौप्तिकपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

10-5-1 अशुश्रूषुः सुदुर्मेधा इति ङ. पाठः । दुर्मेधाः मूढः । अनियतेतिच्छेदः ॥ 10-5-6 अनेय इति झ. पाठः । तत्र अनेयः सन्मार्गं नेतुमशक्यः । दिष्टमुपदिष्टम् ॥ 10-5-8 उच्चावचैः सर्गैरिति क. छ. पाठः ॥ 10-5-14 अप्लवे इति च्छेदः ॥ 10-5-23 अधर्मेण नाभेरधस्तात्प्रहारेण ॥ 10-5-32 नावां शङ्कितुमर्हसीति झ. पाठः ॥ 10-5-36 शस्त्राग्निवर्जिताल्ँलोकान्प्राप्नुयादिति मे मतिः इति ङ. पाठः ॥ पञ्चमोऽध्यायः ॥