श्रीः अध्यायः 004 द्रौणिकृपयोः संवादः ॥ 1 ॥ कृप उवाच 001
दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत । 001a
न त्वां वारयितुं शक्तो वज्रपाणिरपि स्वयम् ॥ 001c
अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ । 002a
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः ॥ 002c
अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः । 003a
परानभिमुखं यान्तं रथावास्थाय दंशितौ ॥ 003c
आवाभ्यां सहितः शत्रूञ्श्वो निहन्ता समागमे । 004a
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान् ॥ 004c
शक्तस्त्वमसि विक्रम्य विश्रमस्व निशामिमाम् । 005a
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम् ॥ 005c
विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद । 006a
समेत्य समरे शत्रून्वधिष्यसि न संशयः ॥ 006c
न हि त्वां रथिनां श्रेष्ठं प्रगृहीतवरायुधम् । 007a
जेतुमुत्सहते कश्चिदपि देवेषु पावकिः ॥ 007c
कृपेण सहितं यान्तं गुप्तं च कृतवर्मणा । 008a
को द्रौणिं युधि संरब्धं योधयेदपि देवराट् ॥ 008c
ते वयं निशि विश्रान्ता विनिद्रा विगतज्वराः । 009a
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान् ॥ 009c
तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः । 010a
सात्वतोपि महेष्वासो नित्यं युद्धेषु कोविदः ॥ 010c
ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान् । 011a
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् ॥ 011c
विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम् । 012a
अहं च कृतवर्मा च प्रभाते त्वां नरोत्तमम् ॥ 012c
अनुयास्याव सहितौ धन्विनौ परतापनौ । 013a
रथिनं त्वरया यान्तं रथमास्थाय दंशितौ ॥ 013c
स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे । 014a
ततः कर्ताऽसि शत्रूणां युध्यतां कदनं महत् ॥ 014c
कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि । 015a
विहरस्व यथा शक्रः सूदयित्वा महासुरान् ॥ 015c
त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम् । 016a
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः ॥ 016c
मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा । 017a
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम् ॥ 017c
न चाहं समरे तात कृतवर्मा न चैव हि । 018a
अनिर्जित्य रणे पाण्डूनपयास्यामि कर्हिचित् ॥ 018c
हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह । 019a
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम् ॥ 019c
सर्वोपायैः सहायास्ते प्रभाते वयमाहवे । 020a
सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ ॥ 020c
एवमुक्तस्ततो द्रौणिक्रमातुलेन हितं वचः । 021a
अब्रवीन्मातुलं राजन्क्रोधादुद्धृत्य लोचने ॥ 021c
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च । 022a
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः ॥ 022c
तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम् । 023a
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत् ॥ 023c
किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन् । 024a
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति ॥ 024c
यथा च निहतः पापैः पिता मम विशेषतः । 025a
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति ॥ 025c
कथं हि मादृशो लोके मुहूर्तमपि जीवति । 026a
द्रोणहन्तेति यद्वाचः पाञ्चालानां शृणोम्यहम् ॥ 026c
धृष्टद्युम्नमहत्वा तु नाहं जीवितुमुत्सहे । 027a
स मे पितुर्वधाद्वध्यः पाञ्चाला ये च सङ्गताः ॥ 027c
विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः । 028a
स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत् ॥ 028c
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत् । 029a
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः ॥ 029c
यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः । 030a
शोकं मे वर्धयत्येष वारिवेग इवार्णवम् ॥ 030c
एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम् ॥ 031ac
वासुदेवार्जुनाभ्यां च तानहं परिरक्षितान् । 032a
अविषह्यतमान्मन्ये महेन्द्रेणापि सत्तम ॥ 032c
न चापि शक्तः संयन्तुमस्मात्कार्यात्कथञ्चन । 033a
तं न पश्यामि लोकेऽस्मिन्यो मां कोपान्निवर्तयेत् ॥ 033c
इति मे निश्चिता बुद्धिरेषा साधुमता मम ॥ 034ac
वादिकैः कथ्यमानस्तु मित्राणां मे पराभवः । 035a
पाण्डवानां च विजयो हृदयं दहतीव मे ॥ 035c
अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके । 036a
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः ॥॥ 036c

इति श्रीमन्महाभारते सौप्तिकपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥

10-4-4 निहन्ता निहनिष्यसि ॥ 10-4-23 चतुर्थ आतुरादीनां चतुर्णां मध्ये एको भागः अमर्षः । मे मम स्वप्नम् अह्नाय झटिति नाशयेत् । तस्मात् स्वपेत्युक्तं तन्न युज्यते ॥ 10-4-24 अनुस्मरन् अनुस्मरतः । न शाम्यति अमर्ष इत्यर्थः ॥ 10-4-36 स्वप्ता स्वप्स्यामि ॥ चतुर्थोऽध्यायः ॥