श्रीः अध्यायः 003 द्रौणिना कृपवचनमनादृत्य कृपकृतवर्मणोः पुरतः निशि प्रसुप्तपाण्डुपाञ्चालहननप्रतिज्ञानम् ॥ 1 ॥ सञ्जय उवाच 001
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम् । 001a
अश्वत्थामा महाराज दुःखशोकसमन्वितः ॥ 001c
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा । 002a
क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत ॥ 002c
पुरुषेपुरुषे बुद्धिर्याया भवति शोभना । 003a
तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वयास्वया ॥ 003c
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम् । 004a
सर्वस्यात्मा बहुमतः सर्वोत्मानं प्रशंसति ॥ 004c
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता । 005a
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् ॥ 005c
कारणान्तरयोगेन येषां संवदते मतिः । 006a
तेऽन्योन्येन च तुष्यन्ति बहुमन्यन्ति चासकृत् ॥ 006c
तस्यैव तु मनुष्यस्य सासा बुद्धिस्तदातदा । 007a
कालयोगे विपर्यासं प्राप्यान्योन्यं विपद्यते ॥ 007c
अनित्यत्वात्तु चित्तानां मनुष्याणां विशेषतः । 008a
चित्तवैक्लव्यमासाद्य सासा बुद्धिः प्रजायते ॥ 008c
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि । 009a
भैषज्यं कुरुते योगात्प्रशमार्थमिति प्रभो ॥ 009c
एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः | 010a
प्रज्ञया च स्वया युक्त्या तां च गृह्णन्ति वै बुधाः ॥ 010c
अन्यया यौवने बाल्ये बुद्ध्या भवति मोहितः । 011a
मध्येऽन्यया जरायां तु सोन्यां रोचयते मतिम् ॥ 011c
व्यसन वा महाघोरं समृद्धिं चापि तादृशीम् । 012a
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम् ॥ 012c
एकस्मिन्नेव पुरुषे सासा बुद्धिस्तदातदा । 013a
भवत्यनित्या प्रज्ञा हि सा तस्यैव न रोचते ॥ 013c
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति । 014a
तया प्रकुरुते भावं सा तस्योद्योगकारिका ॥ 014c
सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः । 015a
कर्तुमारभते प्रीतिं मरणादिषु कर्मसु ॥ 015c
सर्वे हि युक्तां विज्ञाय प्रज्ञां वापि स्वकां नराः । 016a
चेष्टन्ते विविधां चेष्टां हितमित्येव जानते ॥ 016c
उपजाता व्यसनजा येयमद्य मतिर्मम । 017a
युवयोस्तां प्रवक्ष्यामि सर्वेषां शोकनाशिनीम् ॥ 017c
प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च । 018a
वर्णेवर्णे समाधत्त ह्येकैकं गुणवत्तरम् ॥ 018c
ब्राह्मणे वेदमग्र्यं तु क्षत्रिये तेज उत्तमम् । 019a
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् ॥ 019c
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियो मृतः । 020a
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥ 020c
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणैरभिपूजिते । 021a
मन्दभाग्यतयाऽस्म्येतं क्षत्रधर्ममनुष्ठितः ॥ 021c
क्षत्रधर्मं विदित्वाऽहं यदि ब्राह्मण्यमाश्रितः । 022a
प्रकरिष्ये महत्कर्म न मे तत्साधुसम्मतम् ॥ 022c
धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे । 023a
पितरं निहतं दृष्ट्वा किन्नु वक्ष्यामि संसदि ॥ 023c
सोऽहमद्य यथाकामं क्षत्रधर्ममवाप्य च । 024a
गन्ताऽस्मि पदवीं राज्ञः पितुश्चापि महात्मनः ॥ 024c
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः । 025a
विमुक्तयुग्यकवचा हर्षेण च समन्विताः । 025c
वयं जिता मताश्चैषां श्रान्ता व्यायामकर्शिताः ॥ 025e
तेषां निशि प्रसुप्तानां सुस्थानां शिबिरे स्वके । 026a
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् ॥ 026c
तानवस्कन्द्य शिबिरे प्रेतभूतानचेतसः । 027a
सूदयिष्यामि विक्रम्य मघवानिव दानवान् ॥ 027c
अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान् । 028a
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः ॥ 028c
निहत्य चैव पाञ्चालाञ्शान्तिं लब्धाऽस्मि सत्तम ॥ 029ac
पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे । 030a
पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव ॥ 030c
अद्याहं सर्वपाञ्चालान्निकृत्या च निकृष्य च । 031a
अर्दयिष्यामि संहृष्टो रणे पाण्डुसुतांस्तथा । 031c
'सूदयिष्यामि सङ्क्रुद्धः पशूनिव पिनाकधृत् ॥' 031e
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम् । 032a
प्रहृत्यैकेन शस्त्रेण भविष्याम्यनृणः पितुः ॥ 032c
दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि । 033a
गमिष्यामि निशावेलां पदवीमद्य दुर्गमाम् ॥ 033c
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि । 034a
विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात् ॥ 034c
अद्य पाञ्चालपाण्डूनां शयितानां शिरो निशि । 035a
खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम ॥ 035c
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके । 036a
कृतकृत्यः सुखी चैव भविष्यामि महामते ॥॥ 036c

इति श्रीमन्महाभारते सौप्तिकपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

10-3-4 सर्वोत्मानमित्यत्र सर्वः आत्मानमिति च्छेदः । सन्धिरार्षः ॥ 10-3-6 योगे येषां समा गतिरिति झ. पाठः । तत्र योगे समुदाये इत्यर्थः ॥ 10-3-10 तां च निन्दन्ति मानवा इति झ. पाठः ॥ 10-3-12 हे भोज हे कृतवर्मन् । एकमेव सम्बोधयन् कृपस्य वचसि अनादरं सूचयति ॥ 10-3-13 भवत्यकृतबुद्धित्वादिति झ. पाठः । तत्र अकृतधर्मत्वात् अवसरानुरोधात् । इदानीं मम शान्तिबुद्धिर्न रोचते इत्यर्थः ॥ 10-3-20 क्षत्रियोऽधम इति झ. पाठः ॥ 10-3-22 विदित्वा आश्रित्य ॥ 10-3-24 गन्तास्मि गमिष्यामि । पदवीम् आनृण्यम् ॥ 10-3-33 गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमामिति झ. पाठः ॥ तृतीयोऽध्यायः ॥