श्रीः अध्यायः 002 कृपेण द्रौणिम् प्रति कर्तव्योपदेशः ॥ 1 ॥ कृप उवाच 001
श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो । 001a
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज ॥ 001c
आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः । 002a
दैवे पुरुषकारे च परं ताभ्यां न विद्यते ॥ 002c
न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम । 003a
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः ॥ 003c
ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः । 004a
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः ॥ 004c
पर्जन्यः पर्वते वर्षन्किन्नु साधयते फलम् । 005a
कृष्टे क्षेत्रे तथा वर्षन्किं न साधयते फलम् ॥ 005c
उत्थानं चापि दैवस्य ह्यनुत्थानं च दैवतम् । 006a
व्यर्थं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः ॥ 006c
सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते । 007a
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी ॥ 007c
तयोर्दैवं तु दुश्चिन्त्यं स्ववशेनैव वर्तते । 008a
प्राज्ञाः पुरुषकारे तु वर्तन्ते दैवमास्थिताः ॥ 008c
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ । 009a
विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च ॥ 009c
कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति । 010a
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् ॥ 010c
उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम् । 011a
अभलं दृश्यते लोके सम्यगप्युपपादितम् ॥ 011c
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः । 012a
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते ॥ 012c
प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि । 013a
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम् ॥ 013c
चेष्टामकुर्वंल्लभते यदि किञ्चिद्यदृच्छया । 014a
यो वा न लभते कृत्वा दुर्दर्शौ तावुभावपि ॥ 014c
शक्नोति जीवितुं दक्षो नालसः सुखमेधते । 015a
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः ॥ 015c
यदि दक्षः समारम्भात्कर्मणो नाश्नुते फलम् । 016a
नास्य वाच्यं भवेत्किञ्चिल्लब्धव्यं वाऽधिगच्छति ॥ 016c
नाकृत्वा कर्म लोके हि फलं विन्दति कर्हिचित् । 017a
स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः ॥ 017c
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा । 018a
स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः ॥ 018c
हीनं पुरुषकारेण यदि दैवेन वा पुनः । 019a
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत् ॥ 019c
हीनं पुरुषकारेण कर्म त्विह न सिध्यति ॥ 020ac
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते । 021a
दक्षो दाक्षिण्यसम्पन्नो न स मोघैर्विहन्यते ॥ 021c
सम्यगीहा पुनरियं या वृद्धानुपसेवते । 022a
आपृच्छति च यच्छ्रेयः करोति च हितं वचः ॥ 022c
उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः । 023a
ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते ॥ 023c
वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत् । 024a
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् ॥ 024c
रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः । 025a
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः ॥ 025c
सोयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना । 026a
असमर्थः समारब्धो मूढत्वादविचिन्तितः ॥ 026c
हितबुद्धीननादृत्य सम्मन्त्र्यासाधुभिः सह । 027a
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः ॥ 027c
पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति । 028a
तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः ॥ 028c
अनुवर्तामहे यत्तु तं वयं पापपूरुषम् । 029a
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान् ॥ 029c
अनेन तु ममाद्यापि व्यसनेनोपतापिता । 030a
बुद्धिश्चिन्तयते किञ्चित्स्वं श्रेयो नावबुध्यते ॥ 030c
मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः । 031a
तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति ॥ 031c
ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः । 032a
तेऽत्र पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत् ॥ 032c
ते वयं धृतराष्ट्रं च गान्धारीं च यशस्विनीम् । 033a
उपपृच्छामहे गत्वा विदुरं च महामतिम् ॥ 033c
ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम् । 034a
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः ॥ 034c
अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित् ॥ 035ac
कृते पुरुषकारे तु येषां कार्यं न सिध्यति । 036a
दैवेनोपहतास्ते तु नात्र कार्या विचारणा ॥॥ 036c

इति श्रीमन्महाभारते सौप्तिकपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥

10-2-2 दैवे आसमन्तात् बद्धाः पुरुषकारे निहीनतया बद्धाः । तेन दैवं प्रधानं पुरुषकार उपसर्जनमित्युक्तं भवति । आरम्भा मानुषाः सर्वे इति क. पाठः ॥ 10-2-6 उत्थानमिति । दैवस्य प्रधानस्योत्थानं पुरुषकारो व्यर्थं भवति तथाऽनुत्थानमुत्थानहीनं दैवमपि व्यर्थमिति पक्षद्वयं सर्वत्र व्यवस्यति तत्र पूर्वएव पक्षः श्रेयानित्यर्थः ॥ 10-2-9 विचेष्टन्तः प्रवृत्ता दृश्यन्ते लोकदृष्ठ्येत्यर्थः ॥ 10-2-13 कर्माकृत्वा दुःखं पश्येदित्यपि प्रायशोऽस्ति ॥ 10-2-14 दुर्दर्शौ दुर्लभौ ॥ 10-2-16 स्पर्शं चास्याधिगच्छतीति छ. पाठः । तत्र अस्य कर्मणः स्पर्शं लोकस्य सम्बन्धं चाधिगच्छति लोकप्रियः स्यादित्यर्थः ॥ 10-2-17 अकृत्वा कर्म यो लोके फलं विन्दति धिष्ठित इति झ. पाठः । तत्र अदक्षस्तु परप्रयत्नार्जितेन जीवन्नपि भोक्तुमेवायं समर्थो नार्जयितुमिति निन्द्यत इति भावः ॥ 10-2-18 एतत् दैवदाक्ष्ययोः साहित्यम् । अन्यथा तयोरन्यतरालम्बनेन ॥ 10-2-23 योगे अलब्धलाभे ॥ 10-2-25 अनीशः अजितचित्तः । अवमानी परमवजानन् ॥ 10-2-2 द्वितीयोऽध्यायः ॥