सौप्तिकपर्व श्रीः अध्यायः 001 सञ्जयधृतराष्ट्रयोः संलापः ॥ 1 ॥ द्रौणिकृपकृतवर्मभिर्वनमध्यमेत्य न्यग्रोधस्याधस्तादुपवेशनम् ॥ 2 ॥ तत्र रात्रौ घूकेन बहुकाकवधदर्शिना द्रौणिना तद्वत्स्वेनापि पाण्डववधनिर्धारणम् ॥ 3 ॥ ततः कृपकृतवर्माणौ समुद्बोध्य स्वकर्तव्यकथनप्रार्थना ॥ 4 ॥ श्रीवेदव्यासाय नमः नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 001
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 001
सञ्जय उवाच 001
ततस्ते सहिताः सर्वे प्रयाता दक्षिणामुखाः । 001a
उपास्तमयवेलायां शिबिराभ्याशमागताः ॥ 001c
विमुच्य वाहांस्त्वरिता भीताः समनुबोधनात् । 002a
गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ॥ 002c
सेनानिवेशमभितो नातिदूरमवस्थिताः । 003a
[निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः ।] 003c
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् ॥ 003e
श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् । 004a
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः ॥ 004c
ते मुहूर्तात्ततो गत्वा श्रान्तवाहा पिपासिताः । 005a
नामृष्यन्त महेष्वासाः क्रोधामर्षवशङ्गताः ॥ 005c
राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः ॥ 006ac
धृतराष्ट्र उवाच 007
अश्रद्धेयमिदं कर्म कृतं भीमेन सञ्जय । 007a
यत्स नागायुतप्राणः पुत्रो मम निपातितः ॥ 007c
अवध्यः सर्वभूतानां वज्रसंहननो युवा । 008a
पाण्डवैः समरे पुत्रो निहतो मम सञ्जय ॥ 008c
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः । 009a
यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः ॥ 009c
अद्रिसारमयं नूनं हृदयं मम सञ्जय । 010a
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा ॥ 010c
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति । 011a
न ह्यहं पाण्डुपुत्रस्य विषये वस्तुमुत्सहे ॥ 011c
कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय । 012a
प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् ॥ 012c
प्रभुज्य पृथिवीं सर्वां स्थिता मूर्धनि सञ्जय । 013a
कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत् || 013c
कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि सञ्जय | 014a
येन पुत्रशतं पूर्णमेकेन निहतं मम ॥ 014c
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः । 015a
अकुर्वता वचस्तस्य मम पुत्रेण सञ्जय ॥ 015c
अधर्मेण हते तात पुत्रे दुर्योधने मम । 016a
कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय ॥ 016c
सञ्जय उवाच 017
गत्वा तु तावका राजन्नातिदूरं मनस्विनः । 017a
अपश्यन्त वनं घोरं नानाद्रुमलतावृतम् ॥ 017c
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः । 018a
सूर्यास्तमयवेलायां कौरवेयस्य शासनात् ॥ 018c
नानामृगगणैर्जुष्टं नानापक्षिभिराकुलम् । 019a
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् ॥ 019c
नानातोयसमाकीर्णैस्तटाकैरुपशोभितम् । 020a
पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम् ॥ 020c
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः । 021a
शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः ॥ 021c
उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः । 022a
ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ॥ 022c
तेऽवतीर्य रथेभ्यश्च विप्रमुच्य च वाजिनः । 023a
उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो ॥ 023c
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे । 024a
सर्वस्य जगतो धात्री शर्वरी प्रत्यपद्यत ॥ 024c
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम् । 025a
नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः ॥ 025c
इच्छया ते प्रवल्गन्ति ये सत्वा रात्रिचारिणः । 026a
दिवाचराश्च ये सत्वास्ते निद्रावशमागताः ॥ 026c
रात्रिञ्चराणां सत्वानां निनादोऽभूत्सुदारुणः । 027a
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ॥ 027c
तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः । 028a
कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् ॥ 028c
उपोपविष्टाः शोचन्तो न्यग्रोधस्य समीपतः । 029a
तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् ॥ 029c
निद्रया च परीताङ्गा निषेदुर्धरणीतले । 030a
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ॥ 030c
ततो निद्रावशं प्राप्तौ कृपभोजौ महाबालौ । 031a
सुखोचितावदुःखार्हौ निषण्णौ धरणीतले ॥ 031c
तौ तु सुप्तौ महाराज तस्मिन्देशे महारथौ । 032a
[महार्हशयनोपेतौ भूमावेव ह्यनाथवत् ॥] 032c
क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत । 033a
न वै स्म स जगामाथ निद्रां सर्प इव श्वसन् ॥ 033c
न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना । 034a
वीक्षाञ्चक्रे महाबाहुस्तद्वनं घोरदर्शनम् ॥ 034c
वीक्षमाणो वनोद्देशं नानासत्वैर्निषेवितम् । 035a
अपश्यत महाबाहुर्न्यग्रोधं वायसावृतम् ॥ 035c
तत्र काकसहस्राणि तां निशां पर्यणामयन् । 036a
सुखं स्वपन्तः कौरव्य पृथक्पृथगुपाश्रयाः ॥ 036c
सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः । 037a
सोऽपश्यत्सहसा यान्तमुलूकं घोरदर्शनम् ॥ 037c
महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् । 038a
सुतीक्ष्णघोणानखरं सुपर्णमिव वेगितम् ॥ 038c
सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः । 039a
न्यग्रोधस्य ततः शाखां पातयामास भारत ॥ 039c
सन्निपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः । 040a
सुप्ताञ्जघान विस्रब्धान्वायसान्वायसान्तकः ॥ 040c
केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह । 041a
चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः ॥ 041c
क्षणेनाघ्नत्स बलवान्येऽस्य दृष्टिपथे स्थिताः || 042ac
तेषां शरीरावयवैः शरीरैश्च विशाम्पते । 043a
न्यग्रोधमण्डलं सर्वं सञ्छन्नं पर्वतोपमम् ॥ 043c
तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् । 044a
प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ॥ 044c
तद्दृष्ट्वा तादृशं कर्म कौशिकेन कृतं निशि । 045a
तद्भावे कृतसङ्कल्पो द्रौणिरेकोऽन्वचिन्तयत् ॥ 045c
उपदेशः कृतोऽनेन पक्षिणा मम संयुगे । 046a
शत्रूणां क्षपणं युक्तं प्राप्तः कालश्च मे मतः ॥ 046c
नाद्य शक्यं मया हन्तुं पाण्डवा जितकाशिनः । 047a
बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः ॥ 047c
राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया । 048a
पतङ्गाग्निसमां वृत्तिमास्थायात्मविनाशिनीम् ॥ 048c
न्यायतो युध्यमानस्य प्राणत्यागो न संशयः । 049a
छद्मना तु भवेत्सिद्धिः शत्रूणां च क्षयो महान् ॥ 049c
तत्र संशयितादर्थाद्योऽर्थो निःसंशयो भवेत् । 050a
तं जना बहुमन्यन्ते येऽर्थशास्त्रविशारदाः ॥ 050c
यच्चाप्यत्र भवेत्कार्यं गर्हितं लोकनिन्दितम् । 051a
कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता ॥ 051c
निन्दितानि च कर्माणि कुत्सितानि पदेपदे । 052a
सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः ॥ 052c
अस्मिन्नर्थे पुरा गीताः श्रूयन्ते धर्मवित्तमैः । 053a
श्लोका न्यायमवेक्षद्भिस्तत्त्वार्थास्तत्त्वदर्शिभिः ॥ 053c
परिश्रान्ते विदीर्णे वा भुञ्जाने वाऽपि शत्रुभिः । 054a
प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम् ॥ 054c
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम् । 055a
भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् ॥ 055c
इत्येवं निश्चयं चक्रे सुप्तानां निशि मारणे । 056a
पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् ॥ 056c
स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः । 057a
सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च ॥ 057c
तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबालौ । 058a
058c नोत्तरं प्रतिपद्येतां तत्र युक्तं ह्रिया वृतौ ॥
स मुहूर्तमिव ध्यात्वा तावुभौ वाक्यमब्रवीत् ॥ 059ac
हतो दुर्योधनो राजा एकवीरो मबाहलः । 060a
यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह ॥ 060c
एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः । 061a
पातितो भीमसेनेन एकादशचमूपतिः ॥ 061c
वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् । 062a
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता ॥ 062c
विनर्दन्ति च पाञ्चालाः क्ष्वेलन्ति च हसन्ति च । 063a
धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् ॥ 063c
वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिःस्वनैः । 064a
अनिलेनेरितो घोरो दिशः पूरयतीव ह ॥ 064c
अश्वानां हेषमाणानां गजानां चैव बृंहताम् । 065a
सिंहनादश्च शूराणां श्रूयते सुमहानयम् ॥ 065c
दिशं प्राचीं समाश्रित्य हृष्टानां गच्छतां भृशम् । 066a
रथनेमिस्वनाश्चैव श्रूयन्ते रोमहर्षणाः ॥ 066c
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् । 067a
वयमेव त्रयः शिष्टा अस्मिन्महति वैशसे ॥ 067c
केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः । 068a
निहताः पाण्डवैर्यस्मिन्मन्ये कालस्य पर्ययम् ॥ 068c
एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः । 069a
यथा ह्यस्येदृशी निष्ठा कृते यत्नेऽपि दुष्करे ॥ 069c
भवतोस्तु यदि प्रज्ञा न मोहादपचीयते । 070a
व्यसनेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम् ॥॥ 070c

इति श्रीमन्महाभारते सौप्तिकपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

10-1-1 ततः दुर्योधनेन सैनापत्येऽश्वत्थाम्नोऽभिषेकानन्तरं ते अश्वत्थामकृपाचार्यकृतवर्माणः ॥ 10-1-2 शिबिरनिकटस्थं देशम् आसाद्य वाहान्विमुच्य न्यविशन्तेति योजना ॥ 10-1-4 अनुसारः पृष्ठगमनम् । प्राद्रवन्निति पुनर्वाहान्योजयित्वेति गम्यते ॥ 10-1-6 राज्ञो दुर्योधनस्य ॥ 10-1-20 नानापुष्पोपशोभितमिति झ. पाठः ॥ 10-1-23 अन्वासत उपासितवन्तः ॥ 10-1-25 अंशुकं वस्त्रम् ॥ 10-1-32 शयनोपेतौ प्रागिति शेषः ॥ 10-1-36 पर्यणामयन् परिणीतवन्त आसन् ॥ 10-1-38 हर्यक्षं हरिन्मणिनिभलोचनम् । घोणा नासा ॥ प्रथमोऽध्यायः ॥