अध्यायः 064

जनमेजयेन गान्धार्याश्वासनकारणप्रश्ने वैशम्पायनेन तत्कथनम् ॥ 1 ॥ कृष्णेन गान्धारीधृतराष्ट्रौ समाश्वास्य पुनः पाण्डवसमीपागमनम् ॥ 2 ॥

जनमेजय उवाच । 001
किमर्थं द्विजशार्दूल धर्मराजो युधिष्ठिरः । 001a
गान्धार्याः प्रेषयामास वासुदेवं परन्तपम् ॥ 001c
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति । 002a
न च तं लब्धवान्कामं ततो युद्धमभूदिदम् ॥ 002c
निहतेषु तु योधेषु हते दुर्योधने तदा । 003a
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि ॥ 003c
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे । 004a
किं तु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः ॥ 004c
न चैतत्कारणं ब्रह्मन्नल्पं विप्रतिभाति मे । 005a
यत्रागमदमेयात्मा स्वयमेव जनार्दनः ॥ 005c
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम । 006a
यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये ॥ 006c
वैशम्पायन उवाच । 007
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव । 007a
तत्तेऽहं सम्प्रवक्ष्यामि यथावद्भरतर्षभ ॥ 007c
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे । 008a
व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम् ॥ 008c
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत । 009a
युधिष्ठिरं महाराज महद्भयमथाविशत् ॥ 009c
सोऽचिन्तयन्महाभागां गान्धारीं तपसान्विताम् । 010a
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् ॥ 010c
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा । 011a
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् ॥ 011c
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम् । 012a
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति ॥ 012c
कथं दुःखमिदं तीव्रं गान्धारी सम्प्रशक्ष्यति । 013a
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् ॥ 013c
एवं विचिन्त्य बहुधा भयशोकसमन्वितः । 014a
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत ॥ 014c
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम् । 015a
अप्राप्यं मनसाऽपीदं प्राप्तमस्माभिरच्युत ॥ 015c
प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे । 016a
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन ॥ 016c
त्वया देवासुरे युद्धे वधार्थममरद्विषाम् । 017a
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः ॥ 017c
साह्यं तथा महाबाहो दत्तमस्माकमच्युत । 018a
सारथ्येन च वार्ष्णेय भवता हि धृता वयम् ॥ 018c
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे । 019a
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः ॥ 019c
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम् । 020a
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वथैः ॥ 020c
अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः । 021a
शस्त्राणां च निपाता वै वज्रस्पर्शोपमा रणे ॥ 021c
ते च ते सफला जाता हते दुर्योधनेऽच्युत । 022a
तत्सर्वं न यथा नश्येत्पुनः कृष्ण तथा कुरु ॥ 022c
सन्देहडोलां प्राप्तं नश्चेतः कृष्ण जये सति । 023a
गान्धार्या हि महाबाहो क्रोधं शमय माधव ॥ 023c
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता । 024a
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति । 024c
तस्याः प्रसादनं वीर प्राप्तकालं मतं मम ॥ 024e
कश्च तां क्रोधसन्दीप्तां पुत्रव्यसनकर्शिताम् । 025a
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम ॥ 025c
तत्र मे गमनं प्राप्तं रोचते तव माधव । 026a
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम ॥ 026c
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाव्ययः । 027a
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः ॥ 027c
क्षिप्रमेव महाबाहो गान्धारीं शमयिष्यसि । 028a
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति ॥ 028c
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम् । 029a
कर्तव्यं सात्वतां श्रेष्ठ पाण्डवानां हितार्थिना ॥ 029c
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः । 030a
आमन्त्र्य दारुकं प्राह रथः सञ्जो विधीयताम् ॥ 030c
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः । 031a
न्यवेदयद्रथं सज्जं केशवाय महात्मने ॥ 031c
तं रथं यादवश्रेष्ठः समारुह्य परन्तपः । 032a
जगाम हास्तिनपुरं त्वरितः केशवो विभुः ॥ 032c
ततः प्रायान्महाराज माधवो भगवान्रथी । 033a
नागसाह्वयमासाद्य प्रविवेश च वीर्यवान् ॥ 033c
प्रविश्य नगरं वीरो रथघोषेण नादयन् । 034a
विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् । 034c
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम् ॥ 034e
पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् ॥ 035ac
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः । 036a
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः ॥ 036c
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः । 037a
पाणिमालम्ब्य राजेन्द्र सुस्वरं प्ररुरोद ह ॥ 037c
स मुहूर्तादिवोत्सृज्य बाष्पं शोकसमुद्भवम् । 038a
प्रक्षाल्य वारिणा नेत्रे ह्याचम्य च यथाविधि । 038c
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिन्दमः ॥ 038e
न तेऽस्त्यविदितं किञ्चिद्भूतं भव्यं च भारत । 039a
कालस्य च यथावृत्तं तत्ते सुविदितं प्रभो ॥ 039c
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः । 040a
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत ॥ 040c
भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः । 041a
द्यूतच्छलजितैः शुद्धैर्वनवासो ह्युपागतः ॥ 041c
अज्ञातवासचर्या च नानावेषसमावृतैः । 042a
अन्ये च बहवः क्लेशास्त्वशक्तैरिव सर्वदा ॥ 042c
मया च स्वयमागम्य युद्धकाल उपस्थिते । 043a
सर्वलोकस्य सान्निध्येग्रामांस्त्वं पञ्चयाचितः ॥ 043c
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः । 044a
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् ॥ 044c
भीष्मेण सोमदत्तेन बाह्लीकेन कृपेण च । 045a
द्रोणेन च सपुत्रेण विदुरेण च धीमता । 045c
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि ॥ 045e
कालोपहतचित्ता हि सर्वे मुह्यन्ति भारत । 046a
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते ॥ 046c
किमन्यत्कालयोगाद्धि द्विष्टमेव परायणम् । 047a
मा च दोषान्महाप्राज्ञ पाण्डवेषु निवेशय ॥ 047c
अल्पोप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम् । 048a
धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप ॥ 048c
एतत्सर्वं तु विज्ञाय ह्यात्मदोषकृतं फलम् । 049a
तन्मन्युं पाण्डुपुत्रेषु न भवान्कर्तुमर्हति ॥ 049c
कुलं वंशश्च पिण्डाश्च यच्च पुत्रकृत फलम् । 050a
गान्धार्यास्तव वै नाथ पाण्डवेषु प्रतिष्ठितम् ॥ 050c
त्वं चैव कुरुशार्दूल गान्धारी च यशस्विनी । 051a
मा शुचो नरशार्दूल पाण्डवान्प्रतिकिल्बिम् ॥ 051c
एतत्सर्वमनुध्याय आत्मनश्च व्यतिक्रमम् । 052a
शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ ॥ 052c
जानासि च महाबाहो धर्मराजस्य या त्वयि । 053a
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः ॥ 053c
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम् । 054a
दह्यते स दिवारात्रौ न च शर्माधिगच्छति ॥ 054c
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम् । 055a
स शोचन्नरशार्दूलः शान्तिं नैवाधिगच्छति ॥ 055c
ह्रिया च परयाऽविष्टो भवन्तं नाधिगच्छति । 056a
पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलितेन्द्रियम् ॥ 056c
एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः । 057a
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम् ॥ 057c
सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते । 058a
त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे ॥ 058c
जानासि च यथा राज्ञि सभायां मम सन्निधौ । 059a
धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् ॥ 059c
उक्तवत्यसि कल्याणि न च ते तनयैः कृतम् । 060a
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः ॥ 060c
शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः । 061a
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे ॥ 061c
एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः । 062a
पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन ॥ 062c
शक्ता चासि महाभागे पृथिवीं सचराचराम् । 063a
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् ॥ 063c
वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत् । 064a
एवमेतन्महाबाहो यथा वदसि केशव ॥ 064c
आधिभिर्दह्यमानाया मतिः सञ्चलिता मम । 065a
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन ॥ 065c
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव । 066a
त्वं गतिः सहितैर्वीरैः पाण्डवैर्दिपदां वर ॥ 066c
एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा । 067a
पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह ॥ 067c
तत एनां महाबाहुः केशवः शोककर्शिताम् । 068a
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः ॥ 068c
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः । 069a
द्रौणिसङ्कल्पितं भावमन्वबुध्यत केशवः ॥ 069c
ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च । 070a
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् ॥ 070c
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः । 071a
द्रौणेः पापोस्त्यभिप्रायस्तेनास्मि सहसोत्थितः ॥ 071c
पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता ॥ 072ac
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत् । 073a
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् ॥ 073c
शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय । 074a
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन ॥ 074c
प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः ॥ 075ac
वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम् । 076a
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः ॥ 076c
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह । 077a
शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप ॥ 077c
आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान् । 078a
तच्च तेभ्यः समाख्याय सहितस्तैः समाहितः ॥ ॥ 078c

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥

9-64-27 हेतुकारणसंयुक्तैः हेतवो दृष्टा अपराधाः । कारणानि अदृष्टान्यवश्यम्भावीनि तैर्युक्तानि तैः ॥ 9-64-33 प्रायादगच्छत् ॥ 9-64-34 विदितं धृताराष्ट्रस्येति झ.पाठः ॥ 9-64-36 कृष्णस्य व्यासस्य ॥ 9-64-49 असूयां पाण्डुपुत्रोष्विति झ.पाठः ॥