अध्यायः 063

पाञ्चालादिषु स्वस्वशिबिराण्युपगतेषु पाण्डवैर्दुर्योधनशिबिरमेत्य स्वस्वरथेभ्योऽवतरणम् ॥ 1 ॥ कृष्णे रथात्प्रथमं पार्थमवतार्य पश्चात्स्वयमप्यवतीर्णे अग्निना तद्रथस्य भस्मीकरणम् ॥ 2 ॥ कृष्णेनार्जुनम्प्रति रथदाहस्य कारणकथनम् ॥ 3 ॥ कृष्णचोदनया पाण्डवैरोघवतीतीरे रात्रौ निवसनम् ॥ 4 ॥ कृष्णेन युधिष्ठिरचोदनया गान्धार्याश्वासनाय हास्तिनपुरागमनम् ॥ 5 ॥

सञ्जय उवाच । 001
ततस्ते प्रययुः सर्वे निवासाय महीक्षितः । 001a
शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः ॥ 001c
पाण्डवान्गच्छतश्चापि शिबिरं नो विशाम्पते । 002a
महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा ॥ 002c
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः । 003a
सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत ॥ 003c
ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् । 004a
दुर्योधनस्य शिबिरं रङ्गवन्निःसृते जने ॥ 004c
गतोत्सवं पुरमिव हृतनागमिव ह्रदम् । 005a
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम् ॥ 005c
तत्रैतान्पर्युपातिष्ठन्दुर्योधन पुरःसराः । 006a
कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः ॥ 006c
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः । 007a
अवतेरुर्महाराज रथेभ्यो रथसत्तमाः ॥ 007c
ततो गाण्डीवधन्वानमभ्यभाषत केशवः । 008a
स्थितः प्रियहिते नित्यमतीव भरतर्षभ ॥ 008c
अवरोपय गाण्डीवमक्षयौ च महेषुधी । 009a
अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम । 009c
स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ ॥ 010a
तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जयः ॥ 010c
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् । 011a
अवारोहत मेधावी रथाद्गाण्डीवधन्वनः ॥ 011c
अथावतीर्णे भूतानामीश्वरे सुमहात्मनि । 012a
कपिरप्याश्वपाक्रामत्सहदेवैर्ध्वजालयैः ॥ 012c
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः । 013a
अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते ॥ 013c
सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धनः । 014a
भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः ॥ 014c
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो । 015a
अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत् ॥ 015c
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य ह । 016a
गोवन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना ॥ 016c
किमेतन्महदाश्चर्यमभवद्यदुनन्दन । 017a
तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे ॥ 017c
वासुदेव उवाच । 018
द्रोणकर्णास्त्रनिर्दग्धः पूर्वमेवायमर्जुन । 018a
मदास्थितत्वात्समरे न विशीर्णः परन्तप ॥ 018c
इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा । 019a
मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि ॥ 019c
सञ्जय उवाच । 020
ईषदुत्स्मयमानस्तु भगवान्केशवोऽरिहा । 020a
परिष्वज्य च राजानं युधिष्ठिरमभाषत ॥ 020c
दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः । 021a
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ॥ 021c
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ । 022a
मुक्ता वीरक्षयादिस्मात्सङ्ग्रामान्निहतद्विषः । 022c
क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत ॥ 022e
उपयातमुपप्लाव्यं सह गाण्डीवधन्वना । 023a
आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः ॥ 023c
एष भ्राता सखा चैव तव कृष्ण धनञ्जयः । 024a
रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो ॥ 024c
तव चैव ब्रुवाणस्य तथेत्येवाहमब्रुवम् ॥ 025a
स सव्यसाची गुप्तस्ते विजयी च जनेश्वर । 025c
भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः । 026a
मुक्तो वीरक्षयादस्मात्सङ्ग्रामाद्रोमहर्षणात् ॥ 026c
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः । 027a
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् ॥ 027c
युधिष्ठिर उवाच । 028
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन । 028a
कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरन्दरः ॥ 028c
भवतस्तु प्रसादेन सङ्ग्रामे बहवो हताः । 029a
महारणगतः पार्थो यच्च नासीत्पराङ्मुखः ॥ 029c
तथा तव महाबाहो पर्यायैर्बहुभिर्मया । 030a
कर्मणामनुसन्धानात्तेजस्वी जगति श्रुता ॥ 030c
उपप्लाव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत् । 031a
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥ 031c
'एवमुक्तस्ततः कृष्णः प्रत्युवाच युधिष्ठिरम् । 032a
अक्षौहिण्यो दशाष्टौ च तव तेषां च भारत । 032c
न तुल्याश्चार्जुनस्येह बलेन कुरुनन्दन ॥ 032e
स एष सर्वाण्यस्त्राणि दिव्यानि प्राप्य शङ्करात् । 033a
मत्समो वा विशिष्टो वा रणे त्वमिति पाण्डवः । 033c
अनुज्ञातः पाण्डुसुतः पुनः प्रत्यागमन्महीम् ॥ 033e
भूतं भव्यं भविष्यच्च अनुज्ञातस्त्वया विभो । 034a
निमेषार्धान्नरव्याघ्रो नयेदिति मतिर्मम ॥ 034c
द्रोणं भीष्मं कृपं कर्णं द्रोणपुत्रं जयद्रथम् । 035a
निहन्तुं शक्नुयात्क्रुद्धो निमेषार्धाद्धनञ्जयः ॥ 035c
सदेवासुरगन्धर्वान्सयक्षोरगराक्षसान् । 036a
त्रीन्वा लोकान्विजेतुं स शक्तः किमिह मानुषान् ॥ 036c
विधिना विहितं चासौ मया सञ्चोदितोऽपि सन् । 037a
न चकार मतिं हन्तुं ततस्ते बलवत्तराः ॥ 037c
अत्र गीता मया सुष्ठु गिरः सत्या महीपते । 038a
दर्शितं मयि सर्वं च तेनासौ जितवान्रिपून् ॥ 038c
अर्जुनोऽपि महाबाहुर्मया तुल्यो महीपते । 039a
स महेश्वरलब्धास्त्रः किं न कुर्याद्विभुः प्रभो ॥' 039c
इत्येवमुक्ते ते वीराः शिबिरं तव भारत । 040a
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्धिसञ्चयान् ॥ 040c
रजतं जातरूपं च मणीनथ च मौक्तिकान् । 041a
भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च ॥ 041c
'गजानश्वान्रथांश्चैव महान्ति शयनानि च' । 042a
दासीदासमसङ्ख्येयं राज्योपकरणानि च ॥ 042c
ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ । 043a
उदक्रोशन्महाभागा नरेन्द्र विजितारयः ॥ 043c
ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च । 044a
अतिष्ठन्त मुहुः सर्वे पाण्डवा विगतज्वराः ॥ 044c
अथाब्रवीन्महाराज वासुदेवो महायशाः । 045a
अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः ॥ 045c
तथेत्युक्त्वा हि ते सर्वे पाण्डवाः सात्यकिस्तथा । 046a
वासुदेवेन सहिता मङ्गलार्थं बहिर्ययुः ॥ 046c
ते समासाद्य सरितं पुण्यामोघवतीं नृप । 047a
न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः ॥ 047c
युधिष्ठिरस्ततो राजा प्राप्तकालमचिन्तयत् ॥ 048ac
तत्र ते गमनं प्राप्तं रोचते तव माधव । 049a
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम ॥ 049c
हेतुकारणयुक्तैश्च वाक्यैः कालसमीरितैः । 050a
क्षिप्रमेव महाभाग गान्धारीं प्रशमिष्यसि । 050c
पितामहश्च भगवान्व्यासस्तत्र भविष्यति ॥ 050e
ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम् ॥ 051ac
स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् । 052a
दारुकं रथमारोप्य येन राजाऽम्बिकासुतः ॥ 052c
तमूचुः सम्प्रयास्यन्तं शैब्यसुग्रीववाहनम् । 053a
प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम् ॥ 053c
स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः । 054a
आससाद ततः क्षिप्रं गान्धारीं निहतात्मजाम् ॥ ॥ 054c

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥

9-63-5 वर्षवरः षण्ढः ॥ 9-63-6 दुर्योधनस्य पुरसराः दुर्योधनपुरः सराः ॥ 9-63-30 तेजस्वीति गतिः श्रुता इति छ.पाठः । तथैव च महाबाहो मनुसन्तानं तेजसश्च गतीः शुभाः इति झ.पाठः ॥