अध्यायः 061

भीमे अपनयबुद्ध्या क्रुद्धेन बलरामेण लाङ्गलमुद्यम्य तम्प्रत्यभिगमनम् ॥ 1 ॥ कृष्णेन तत्सान्त्वनं ततो बलस्य द्वारकागमनम् ॥ 2 ॥ युधिष्ठिरस्य कृष्णेन भीमेन च संलापः ॥ 3 ॥

धृतराष्ट्र उवाच । 001
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः । 001a
किमब्रवीत्तदा सूत बलदेवो महाबलः ॥ 001c
गदायुद्धविशेषज्ञो गदायुद्धविशारदः । 002a
कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व सञ्जय ॥ 002c
सञ्जय उवाच । 003
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम् । 003a
रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली ॥ 003c
ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः । 004a
कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह ॥ 004c
अहो धिग्यदधो नाभेः प्रहृतं धर्मविग्रहे । 005a
नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः ॥ 005c
अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः । 006a
अयं तु शास्त्रमुत्सृज्य स्वच्छन्दात्सम्प्रवर्तते ॥ 006c
तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान् । 007a
[ततो राजानमालोक्य रोषसंरक्तलोचनः । 007c
बलदेवो महाराज ततो वचनमब्रवीत् ॥ 007e
न चैष पतितः कृष्ण केवलं मत्समोऽसमः । 008a
आश्रितस्य तु दौर्बल्यादाश्रयः परिभर्त्स्यते ॥] 008c
ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली ॥ 009ac
तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः । 010a
बहुधातुविचित्रस्य श्वेतस्येव महागिरेः ॥ 010c
'भ्रातृभिः सहितो वीरैः सार्जुनैरस्त्रकोविदैः । 011a
न विव्यथे महाराज दृष्ट्वा हलधरं बली' ॥ 011c
अथ रामं निजग्राह केशवो विनयान्वितः । 012a
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली ॥ 012c
सितासितौ यदुवरौ शुशुभातेऽधिकं तदा । 013a
'सङ्गताविव राजेन्द्र कैलासाञ्जनपर्वतौ । 013c
नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये ॥ 013e
उवाच चैनं संरब्धं शमयन्निव केशवः ॥ 014ac
आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा । 015a
विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः ॥ 015c
आत्मन्यपि च मित्रे च विपरीतं यदा भवेत् । 016a
तदा विद्यान्मनोग्लानिमाशु शान्तिकरो भवेत् ॥ 016c
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः । 017a
स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् ॥ 017c
प्रतिज्ञापालनं धर्मः क्षत्रियस्येति वेत्थ तत् ॥ 018ac
सुयोधनस्य गदया भक्ताऽस्म्यूरू महाहवे । 019a
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले ॥ 019c
मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणा । 020a
ऊरू ते भेत्स्यते भीमो गदयेति परन्तप । 020c
अतो दोषं न पश्यामि मा क्रुध्यस्व प्रलम्बहन् ॥ 021a
यौनः स्वैः सुखहार्दैश्च सम्बन्धः सह पाण्डवैः । 021c
तेषां वृद्ध्या हि वृद्धिर्नो मा क्रुधः पुरुषर्षभ ॥ 022a
वासुदेववचः श्रुत्वा सीरभृत्प्राह धर्मवित् ॥ 022c
धर्मश्च धारितः सद्भिः स च द्वाभ्यां नियच्छति । 023a
अर्थश्चाप्यतिलुब्धस्य कामश्चातिप्रसङ्गिणः ॥ 023c
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन् । 024a
धर्मार्थकामान्योऽभ्येति सोत्यन्तं सुखमश्नुते ॥ 024c
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात् । 025a
भीमसेनेन गोविन्द कामं त्वं तु यथाऽऽत्थ माम् ॥ 025c
कृष्ण उवाच । 026
अरोषणो हि धर्मात्मा सततं धर्मवत्सलः । 026a
भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः ॥ 026c
प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च । 027a
आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः । 027c
'ततः पुरुषशार्दूलो हत्वा नैकृतिकं रणे ॥ 027e
निकृत्या निकृतिप्रज्ञं यो हन्याद्वैरिणं रणे । 028a
अधर्मो विद्यते नात्र यद्भीमो हतवान्रिपुम् ॥ 028c
युध्यमानं रणे वीरं कुरुवृष्णियशस्करम् । 029a
अनेन कर्णः सन्दिष्टः पृष्ठतो धनुरच्छिनत् ॥ 029c
ततः सञ्छिन्नधन्वानं विरथं पौरुषे स्थितम् । 030a
व्यायुधीकृत्य बहवः सौभद्रमपलायिनम् ॥ 030c
जन्मप्रभृति लुब्धश्च पापात्मा चैष दुर्मतिः । 031a
निहतो भीमसेनेन दुर्बुद्धिः कुलपांसनः ॥ 031c
प्रतिज्ञां भीमसेनेन त्रयोदशसमार्जिताम् । 032a
किमर्थं नाभिजानाति युध्यमानो हि शत्रुभिः ॥ 032c
ऊर्ध्वमाक्रम्य वेगेन जिघांसन्तं वृकोदरः । 033a
बिभेद गदया चोरू न स्थाने न च मण्डले' ॥ 033c
सञ्जय उवाच । 034
धर्मच्छलमिमं श्रुत्वा केशवात्स विशाम्पते । 034a
नैव प्रीतमाना रामो वचनं प्राह संसदि ॥ 034c
हत्वाऽधर्मेण राजानं धर्मात्मानं सुयोधनम् । 035a
जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः ॥ 035c
दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम् । 036a
ऋजुयोधी हतो राजा धर्मराष्ट्रो नराधिपः ॥ 036c
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च । 037a
हुत्वाऽऽत्मानममित्राग्नौ प्राप चावभृथं यशः । 037c
'स्वर्गं गन्ता महाराजः ससुहृज्ज्ञातिबान्धवः' ॥ 037e
इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान् । 038a
श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति ॥ 038c
पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशाम्पते । 039a
रामे द्वारवतीं याते नातिप्रमनसोऽभवन् ॥ 039c
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम् । 040a
शोकोपहतसङ्कल्पं वासुदेवोऽब्रवीदिदम् ॥ 040c
वासुदेव उवाच । 041
धर्मराज किमर्थं त्वमधर्ममनुमन्यसे । 041a
हतबन्धोर्यदेतस्य पतितस्य विचेतसः ॥ 041c
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा । 042a
उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप ॥ 042c
युधिष्ठिर उवाच । 043
न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः । 043a
पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये ॥ 043c
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम् । 044a
बहूनि परुषाण्युक्त्वा वनं प्रस्थापिता वयम् ॥ 044c
भीमसेनस्य तद्दुःखमतीव हृदि वर्तते । 045a
इति सञ्चिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम् ॥ 045c
तस्माद्धत्वाऽकृतप्रज्ञं लुब्धं कामवशानुगम् । 046a
लभतां पाण्डवः कामं धर्मोऽधर्मोऽथवा कृतः ॥ 046c
सञ्जय उवाच । 047
इत्युक्तवति कौन्तेये धर्मराजे युधिष्ठिरे । 047a
वासुदेवो महाबाहुर्युधिष्ठिरमभाषत । 047c
काममस्त्वेतदिति वै कृच्छ्राद्यदुकुलोद्वहः ॥ 047e
इत्युक्त्वा वासुदेवोऽपि वायुपुत्रप्रियेप्सया । 048a
अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि ॥ 048c
'अर्जुनोऽपि महाबाहुरप्रीतेनान्तरात्मना । 049a
नोवाच किञ्चिद्वचनं भ्रातरं साध्वसाधु वा' ॥ 049c
भीमसेनोऽपि हत्वाऽऽजौ तव पुत्रममर्षणः । 050a
अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः ॥ 050c
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम् । 051a
हर्षादुत्फुल्लनयनो जितकाशी विशाम्पते ॥ 051c
तवाद्य पृथिवी सर्वा क्षेमा निहतकण्टका । 052a
तां प्रशाधि महाराज स्वधर्ममनुपालय ॥ 052c
यस्तु कर्ताऽस्य वैरस्य निकृत्या निकृतिप्रियः । 053a
सोऽयं विनिहतः शेते पृथिव्यं पृथिवीपते ॥ 053c
दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः । 054a
राधेयः शकुनिश्चैव हताश्च तव शत्रवः ॥ 054c
सेयं रत्नसमाकीर्णा मही सवनपर्वता । 055a
उपावृत्ता महाराज त्वामद्य निहतद्विषम् ॥ 055c
युधिष्ठिर उवाच । 056
गतो वैरस्य निधनं हतो राजा सुयोधनः । 056a
कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा ॥ 056c
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः । 057a
दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः ॥ ॥ 057c

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥

9-61-15 आत्मवृद्धिः शत्रुक्षयः स्वमित्रस्य वृद्धिः शत्रुमित्रस्य क्षयः स्वमित्रमित्रस्य वृद्धिः शत्रुमित्रमित्रस्य क्षयः एवं षड्विधा आत्मनो वृद्धिः ॥ 9-61-16 यदि चोदात्मनो ग्लानिस्तदा शान्तिकर इति क.पाठः ॥ 9-61-19 भक्ता भङ्क्ष्ये ॥ 9-61-21 यौनः योनिनिमित्तः सम्बन्धः । अस्माकं पितामहः पाण्डवानां मातामहश्चैक इति यौनसम्बन्धः ॥ 9-61-22 सीरभृत् रामः ॥ 9-61-23 धर्मइति । नियच्छति नियममेति अर्थकामाभ्यां धर्मः सङ्कोचमेतीत्सर्थः ॥ 9-61-24 धर्मार्थौ कामे नापीडयन् धर्मकावर्थेनापीडयन् कामार्थौ धर्मेण चापीडयन्नित्यर्थः ॥ 9-61-25 कामं यथेष्टं त्वं मां प्रति उक्तवानसि नतु धर्म्यं ॥ 9-61-27 कलियुगारम्भे एतावत्पापं नातीव खेदावहमिति भावः ॥ 9-61-41 अधर्ममनुपश्यसीति क.छ.पाठः ॥ 9-61-46 धर्मोऽधर्मे च वा कृते इति झ.पाठः ॥