अध्यायः 060

भीमसेनेन दुर्योधनापनयानुस्मारणपूर्वकं वामपादेन तच्छिरस्ताडनम् ॥ 1 ॥ युधिष्ठिरेण दुर्योधनसमाश्वासनम् ॥ 2 ॥

सञ्जय उवाच । 001
तं पातितं ततो दृष्ट्वा महासालमिवोद्गतम् । 001a
प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः ॥ 001c
उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम् । 002a
ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः ॥ 002c
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान् । 003a
पातितं कौरवेन्द्रं तमुपगम्येदमब्रवीत् ॥ 003c
गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम् । 004a
यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते । 004c
तस्यावहासस्य फलमद्य त्वं समवाप्नुहि ॥ 004e
एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् । 005a
शिरश्च राजसिंहस्य पादेन समलोडयत् ॥ 005c
तथैव क्रोधसंरक्तो भीमः परबलार्दनः । 006a
पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप ॥ 006c
येऽस्मान्पुरा प्रनृत्यन्ति मूढा गौरिति गौरिति । 007a
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति ॥ 007c
नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना । 008a
स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून् ॥ 008c
सोऽवाप्य वैरस्य चिरस्य पारं वृकोदरः प्राह शनैः प्रहस्य । 009a
युधिष्ठिरं केशवसृञ्जयांश्च धनञ्जयं माद्रवतीसुतौ च ॥ 009c
रजस्वलां द्रौपदीमानयन्ये ये चाप्यकुर्वन्त सदस्यवस्त्राम् । 010a
तान्पश्यध्वं पाण्डवैर्धार्तराष्ट्रान्रणे हतांस्तपसा याज्ञसेन्याः ॥ 010c
ये नः पुरा षण्ढतिलानवोचन्क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः । 011a
ते नो हताः सगणाः सानुबन्धाः कामं स्वर्गं नरकं वा व्रजामः ॥ 011c
पुनश्च राज्ञः पतितस्य भूमौ स तां गदां स्कन्धगतां प्रगृह्य । 012a
वामेन पादेन शिरः प्रमृद्य दुर्योधनं नैकृतिकेत्यवोचत् ॥ 012c
हृष्टेन राजन्कुरुपार्थिवस्य क्षुद्रात्मना भीमसेनेन पादम् । 013a
दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन्धर्मात्मानः सोमकानां प्रबर्हाः ॥ 013c
तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम् । 014a
नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम् ॥ 014c
गतोऽसि वैरस्यानृण्यं प्रतिज्ञा पूरिता त्वया । 015a
शुभेनाथाशुभेनैव कर्मणा विरमाधुना ॥ 015c
मा शिरोऽस्य पदाऽमर्दीर्मा धर्मस्तेऽतिगो भवेत् । 016a
राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ ॥ 016c
एकादशचमूनाथं कुरूणामधिपं तथा । 017a
मास्प्राक्षीर्भीम पादेन राजानं ज्ञातिमेव च ॥ 017c
हतबन्धुर्हतामात्यो भ्रष्टसैन्यो हतो मृधे । 018a
सर्वाकारेण शोच्योऽयं नावहास्योऽयमीश्वरः ॥ 018c
विध्वस्तोऽयं हतामात्यो हतबन्धुर्हतात्मजः । 019a
उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया ॥ 019c
धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः । 020a
स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि ॥ 020c
इत्युक्त्वा भीमसेनं तु साश्रुकण्ठो युधिष्ठिरः । 021a
उपसृत्याब्रवीद्दीनो दुर्योधनमरिन्दमम् ॥ 021c
तात मन्युर्न ते कार्यो नात्मा शोच्यस्त्वया तथा । 022a
नूनं पूर्वकृतं कर्म सुघोरमनुभूयते ॥ 022c
धात्रोपदिष्टं विषमं नूनं फलमसंस्कृतम् । 023a
यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम ॥ 023c
आत्मनो ह्यपराधेन महद्व्यसनमीदृशम् । 024a
प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत ॥ 024c
घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा । 025a
पुत्रान्पौत्रांस्तथा चान्यांस्ततोसि निधनं गतः ॥ 025c
तवापराधादस्माभिर्भ्रातरस्ते निपातिताः । 026a
निहता ज्ञातयश्चापि दिष्टं मन्ये दुरत्ययम् ॥ 026c
[आत्मा न शोचनीयस्ते श्लाघ्यो मृत्युस्तवानघ । 027a
वयमेवाधुना शोच्याः सर्वावस्थासु कौरव ॥ 027c
कृपणं वर्तयिष्यामस्तैर्हीना बन्धुभिः प्रियैः । 028a
भ्रातॄणां चैव पुत्राणां तथा वै शोकविह्वलाः ॥ 028c
कथं द्रक्ष्यामि विधवा वधूः शोकपरिप्लुताः । 029a
त्वमेकः सुस्थितो राजन्स्वर्गे ते निलयो ध्रुवः । 029c
वयं नरकसञ्ज्ञं वै दुःखं प्राप्स्याम दारुणम् ॥] 029e
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः । 030a
गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः ॥ 030c
सञ्जय उवाच । 031
एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः । 031a
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः ॥ ॥ 031c

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥