अध्यायः 059
भीमसेनेन दुर्योधनस्योरुभेदनम् ॥ 1 ॥
सञ्जय उवाच । 001
समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः । 001a
अब्रवीदर्जुनस्तत्र वासुदेवं यशस्विनम् ॥ 001c
अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः । 002a
कस्य वा को गुणो ज्यायानेतद्वद जनार्दन ॥ 002c
वासुदेव उवाच । 003
उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः । 003a
कृती यत्नपरस्त्वेष धार्तराष्ट्रो वृकोदरात् ॥ 003c
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति । 004a
अन्यायेन तु युध्यन्वै हन्यादेव सुयोधनम् ॥ 004c
मायया निर्जिता देवैरसुरा इति नः श्रुतम् । 005a
विरोचनस्तु शक्रेण मायया निर्जितः स वै ॥ 005c
मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः । 006a
तस्मान्मायामयं वीर आतिष्ठतु वृकोदरः ॥ 006c
प्रतिज्ञातं च भीमेन द्यूतकाले धनञ्जय । 007a
ऊरू भेत्स्यामि ते सङ्ख्ये गदयेति सुयोधनम् ॥ 007c
सोऽयं प्रतिज्ञां तां चापि पारयत्वरिकर्शनः । 008a
मायाविनं तु राजानं माययैव निकृन्ततु ॥ ||| 008c
यद्येष बलमास्थाय न्यायेन प्रहरिष्यति । 009a
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः ॥ 009c
पुनरेव तु वक्ष्यामि पाण्डवेय निबोध मे । 010a
धर्मराजापराधेन भयं नः पुनरागतम् ॥ 010c
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून् । 011a
जयः प्राप्तो यशः प्राग्र्यं वैरं च प्रतियातितम् । 011c
तदेवं विजयः प्राप्तः पुनः संशयितः कृतः ॥ 011e
अबुद्धिरेषां महती धर्मराजस्य पाण्डव । 012a
यदेकविजये वीर पणितं कृतमीदृशम् ॥ 012c
सुयोधनः कृती वीर एकायनगतस्तथा ॥ 013ac
अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः । 014a
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु ॥ 014c
पुनरावर्तमानानां भग्नानां जीवितैषिणाम् । 015a
भेतव्यमरिशेषाणामेकायनगता हि ते ॥ 015c
[साहसोत्पतितानां च निराशानां च जीविते । 016a
न शक्यमग्रतः स्थातुं शक्रेणापि धनञ्जय] ॥ 016c
सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम् । 017a
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने । 017c
कोऽन्विष्य संयुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वयेत् ॥ 017e
अपि नो निर्जितं राज्यं न हरेत सुयोधनः । 018a
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः । 018c
चरत्यूर्ध्वं च तिर्यक्च भीमसेनिघांसया ॥ 018e
एनं चेन्न महाबाहुरन्यायेन हनिष्यति । 019a
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति ॥ 019c
सञ्जय उवाच । 020
धनञ्जयस्तु श्रुत्वैतत्केशवस्य महात्मनः । 020a
प्रेक्षतो भीमसेनस्य सव्यमूरुमताडयत् ॥ 020c
गृह्य सञ्ज्ञां ततो भीमो गदया व्यचरद्रणे । 021a
मण्डलानि विचित्राणि यमकानीतराणि च ॥ 021c
दक्षिणं मण्डलं सव्यं गोमूत्रिकमथापि च । 022a
व्यचरत्पाण्डवो राजन्नरिं सम्मोहयन्निव ॥ 022c
तथैव तव पुत्रोऽपि गदामार्गविशारदः । 023a
व्यचरल्लघु चित्रं च भीमसेनजिघांसया ॥ 023c
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते । 024a
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ ॥ 024c
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ । 025a
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ ॥ 025c
मण्डलानि विचित्राणि चरतोर्नृपभीमयोः । 026a
गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः ॥ 026c
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे । 027a
क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः ॥ 027c
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव । 028a
गदानिर्घातसंह्रादः प्रहाराणामजायत ॥ 028c
तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम् । 029a
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ ॥ 029c
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तप । 030a
अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे ॥ 030c
तयोः समभवद्युद्धं घोररूपमसंवृतम् । 031a
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् ॥ 031c
समरे प्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ । 032a
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव ॥ 032c
जर्झरीकृतसर्वाङ्गौ रुधिरेणाभिसम्प्लुतौ । 033a
ददृशाते हिमवति पुष्पिताविव किंशुकौ ॥ 033c
दुर्योधनस्तु पार्थेन विवरे सम्प्रदर्शिते । 034a
ईषदुत्स्मयमानस्तु सहसा प्रससार ह ॥ 034c
तमभ्याशगतं प्राज्ञः क्षणे प्रेक्ष्य वृकोदरः । 035a
अवाक्षिपद्गदां तस्मिन्वेगेन महता बती ॥ 035c
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशाम्पते । 036a
अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि ॥ 036c
मोक्षयित्वा प्रहारं तं सुतस्तव सुसम्भ्रमात् । 037a
भीमसेनं च गदया प्राहरत्कुरुसत्तम ॥ 037c
तस्य विस्यन्दमानेन रुधिरेणामितौजसः । 038a
प्रहारगुरुपाताच्च मूर्छेव समजायत ॥ 038c
तन्नाबुध्यत पुत्रस्ते पीडितं पाण्डवं रणे । 039a
धारयामास भीमोऽपि शरीरमतिपीडितम् ॥ 039c
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे । 040a
अतो न प्राहरत्तस्मै पुनरेव तवात्मजः ॥ 040c
ततो मुहूर्तमाश्वस्य दुर्योधनमुपस्थितम् । 041a
वेगेनाभ्ययतद्राजन्गदामादाय पाण्डवः ॥ 041c
तमापतन्तं सम्प्रेक्ष्य संरब्धममितौजसम् । 042a
मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ ॥ 042c
अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः । 043a
इयेषोत्पतितुं राजञ्छलयिष्यन्वृकोदरम् ॥ 043c
अबुध्यद्भीमसेनस्तु राज्ञस्तस्य चिकीर्षितम् । 044a
अथास्य समभिद्रुत्य समुत्पत्य च सिंहवत् ॥ 044c
सृत्या वञ्चयतो राजन्पुनरेवोत्पतिष्यतः । 045a
ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः ॥ 045c
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा । 046a
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ ॥ 046c
स पपात नरव्याघ्रो वसुधामनुनादयन् । 047a
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते ॥ 047c
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च । 048a
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता ॥ 048c
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम् । 049a
महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी । 049c
पपात चोल्का महती पतिते पृथिवीपतौ ॥ 049e
तथा शोणितवर्षं च पांसुवर्षं च भारत । 050a
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते ॥ 050c
यक्षाणां राक्षसानां च पिशाचानां तथैव च । 051a
अन्तरिक्षे महान्नादस्तत्र भारत शुश्रुवे ॥ 051c
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम् । 052a
जज्ञे घोरतरः शब्दो बहूनां सर्वतोदिशम् ॥ 052c
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह । 053a
मुमुचुस्ते महानादं तव पुत्रे निपातिते ॥ 053c
भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान् । 054a
अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते ॥ 054c
[बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः । 055a
नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप ॥ 055c
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च । 056a
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते] ॥ 056c
ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम । 057a
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन् ॥ 057c
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाऽभवन् । 058a
दुर्योधने तदा राजन्पतिते तनये तव ॥ 058c
दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह । 059a
आविग्नमनसः सर्वे बभूवुर्भरतर्षभ ॥ 059c
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा । 060a
कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत ॥ 060c
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः । 061a
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् ॥ ॥ 061c
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥
9-59-15 अरिशेषाणां पञ्चम्यर्थे षष्ठी ॥ 9-59-34 सहसैवाभिसारित इति क.छ.पाठः ॥ 9-59-45 धृत्या वञ्चयत इति क.छ.पाठः ॥ 9-59-48 क्षुपः क्षुद्रवृक्षः ॥