अध्यायः 058

भीमदुर्योधनयोर्गदायुद्धम् ॥ 1 ॥

सञ्जय उवाच । 001
ततो दुर्योधनो दृष्ट्वा भीमसेनं तथाऽऽगतम् । 001a
प्रत्युद्ययावदीनात्मा वेगेन महता नदन् ॥ 001c
समापेततुरन्योन्यं शृङ्गिणौ वृषभाविव । 002a
महानिर्घातघोषश्च प्रहाराणामजायत ॥ 002c
अभवच्च तयोर्युद्धं तुमुलं रोमहर्षणम् । 003a
जिघृक्षतोर्यथाऽन्योन्यमिन्द्रप्रह्लादयोरिव ॥ 003c
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ । 004a
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥ 004c
तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे । 005a
खद्योतसङ्घैरिव खं दर्शनीयं व्यरोचत ॥ 005c
तथा तस्मिन्वर्तमाने सङ्कुले तुमुले भृशम् । 006a
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ ॥ 006c
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ । 007a
सम्प्रहारयतां चित्रे सम्प्रगृह्य गदे शुभे ॥ 007c
तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ । 008a
बलिनौ वारणौ यद्वद्वासितार्थे मदोत्कटौ ॥ 008c
समानवीर्यौ सम्प्रेक्ष्य प्रगृहीतगदावुभौ । 009a
प्रहर्षं परमं जग्मुर्देवगन्धर्वदानवाः ॥ 009c
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ । 010a
संशयः सर्वभूतानां विजये समपद्यत ॥ 010c
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ । 011a
अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति ॥ 011c
यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् । 012a
ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् ॥ 012c
आविद्ध्यतो गतां तस्य भीमसेनस्य संयुगे । 013a
शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत ॥ 013c
आविद्ध्यन्तमरिं प्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् । 014a
गदामतुलवेगां तां विस्मितः सम्बभूव ह ॥ 014c
चरंश्च विविधान्मार्गान्मण्डलानि च भारत । 015a
अशोभत तदा वीरो भूय एव वृकोदरः ॥ 015c
तौ परस्परमासाद्य यत्तावन्योन्यसूदने । 016a
मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः ॥ 016c
अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा । 017a
मण्डलानि विचित्राणि गतप्रत्यागतानि च ॥ 017c
गोमूत्रिकाणि चित्राणि स्थानानि विविधानि च । 018a
परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥ 018c
अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् । 019a
मत्स्योद्वृत्तं सोरुवृत्तमवप्लुतमुपप्लुतम् ॥ 019c
उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ । 020a
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् ॥ 020c
वञ्चयानौ पुनश्चैव चेरतुः कुरुसत्तमौ । 021a
विक्रीडन्तौ सुबलिनौ मण्डलानि विचेरतुः ॥ 021c
[तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः । 022a
गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ ॥ 022c
परस्परं समासाद्य दंष्ट्राभ्यां द्विरदौ यथा । 023a
अशोभेतां महाराज शोणितेन परिप्लुतौ ॥ 023c
एवं तदभवद्युद्धं घोररूपं परन्तप । 024a
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ॥] 024c
गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली । 025a
दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत । 025a
सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत ॥ 025e
तथा तु चरतस्तस्य भीमस्य रणमूर्धनि । 026a
दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् ॥ 026c
आहतस्तु ततो भीमः पुत्रेण तव भारत । 027a
आविध्यत गदां गुवीं प्रहारं तमचिन्तयन् ॥ 027c
इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् । 028a
ददृशुस्ते महाराज भीमसेनस्य तां गदाम् ॥ 028c
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः । 029a
समुद्यम्य गदां घोरां प्रत्यविध्यत्परन्तपः ॥ 029c
गदामारुतवेगेन तव पुत्रस्य भारत । 030a
शब्द आसीत्सुतुमुलस्तेजश्च समजायत ॥ 030c
स चरन्विविधान्मार्गान्मण्डलानि च भागशः । 031a
समशोभत तेजस्वी भूयो भीमात्सुयोधनः ॥ 031c
आविद्धा सर्ववेगेन भीमेन महती गदा । 032a
सधूमं सार्चिषं चाग्निं मुमोचोग्रमहास्वना ॥ 032c
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः । 033a
अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत ॥ 033c
गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः । 034a
भयं विवेश पाण्डूंस्तु सर्वानेव ससात्यकीन् ॥ 034c
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः । 035a
गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ ॥ 035c
तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा । 036a
अशोभेतां महाराज शोणितेन परिप्लुतौ ॥ 036c
एवं तदभवद्युद्धं घोररूपमसंवृतम् । 037a
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ॥ 037c
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः । 038a
चरंश्चित्रतरान्मार्गान्कौन्तेयमभिदुद्रुवे ॥ 038c
तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् । 039a
अतिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् ॥ 039c
सविस्फुलिङ्गो निर्ह्रादस्तयोस्तत्राभिघातजः । 040a
प्रादुरासीन्महाराज घृष्टयोर्वज्रयोरिव ॥ 040c
वेगवत्या तया तत्र भीमसेनप्रमुक्तया । 041a
निपतन्त्या महाराज पृथिवी समकम्पत ॥ 041c
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे । 042a
मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् ॥ 042c
स सव्यं मण्डलं राजा उद्भ्राम्य कृतनिश्चयः । 043a
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया ॥ 043c
तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः । 044a
नाकम्पत महाराज तदद्भुतमिवाभवत् ॥ 044c
आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् । 045a
यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् ॥ 045c
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् । 046a
दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः ॥ 046c
तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः । 047a
मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् ॥ 047c
सा तु मोघा गदा राजन्पतन्ती भीमचोदिता । 048a
चालयामास पृथिवीं महानिर्घातनिःस्वनाः ॥ 048c
आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः । 049a
गदानिपातं प्रज्ञाय भीमसेनं च वञ्चितम् ॥ 049c
वञ्चयित्वा तदा भीमं गदया कुरुसत्तमः । 050a
ताडयामास सङ्क्रुद्धो वक्षोदेशे महाबलः ॥ 050c
गदया निहतो भीमो मुह्यमानो महारणे । 051a
नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव ॥ 051c
तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः । 052a
भृशोपहतसङ्कल्पा नहृष्टमनसोऽभवन् ॥ 052c
स तु तेन प्रहारेण मातङ्ग इव रोषितः । 053a
हस्तिवद्धस्तिसङ्काशमभिदुद्राव ते सुतम् ॥ 053c
ततस्तु तरसा भीमो गदया तनयं तव । 054a
अभिदुद्राव वेगेन सिंहो वनगजं यथा ॥ 054c
उपसृत्य तु राजानं गदामोक्षविशारदः । 055a
आविध्यत गदां राजन्समुद्दिश्य सुतं तव ॥ 055c
अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा । 056a
स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् ॥ 056c
तस्मिन्कुरुकुलश्रेष्ठे जानुभ्यामवनीं गते । 057a
उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते ॥ 057c
तेषां तु निनदं श्रुत्वा शृञ्जयानां नरर्षभः । 058a
अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत ॥ 058c
उत्थाय तु महाबाहुर्महानाग इव श्वसन् । 059a
दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत ॥ 059c
ततः स भरतश्रेष्ठो गदापाणिरभिद्रवन् । 060a
प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे ॥ 060c
स महात्मा महात्मानं भीमं भीमपराक्रमः । 061a
अताडयच्छङ्खदेशे न चचालाचलोपमः ॥ 061c
स भूयः शुशुभे पार्थस्ताडितो गदया रणे । 062a
उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्चरः ॥ 062c
ततो गदां वीरहणीमयोमयीं प्रगृह्य वज्राशनितुल्यनिःस्वनाम् । 063a
अताडयच्छत्रुममित्रकर्शनो बलेन विक्रम्य धनञ्जयाग्रजः ॥ 063c
स भीमसेनाभिहतस्तवात्मजः पपात सङ्कम्पितदेहबन्धनः । 064a
सुपुष्पितो मारुतवेगताडितो वने महासाल इवावघूर्णितः ॥ 064c
ततः प्रणेदुर्जहृषुश्च पाण्डवाः समीक्ष्य पुत्रं पतितं क्षितौ तव । 065a
ततः सुतस्ते प्रतिलभ्य चेतनां समुत्पपात द्विरदो यथा ह्रदात् ॥ 065c
स पार्थिवो नित्यममर्षितस्तदा महारथः शिक्षितवत्परिभ्रमन् । 066a
अताडयत्पाण्डवमग्रतः स्थितं स विह्वलाङ्गो जगतीमुपास्पृशत् ॥ 066c
स सिंहनादं विननाद कौरवो निपात्य भूमौ युधि भीममोजसा । 067a
बिभेद चैवाशनितुल्यमोजसा गदानिपातेन शरीररक्षणम् ॥ 067c
ततोऽन्तरिक्षे निनदो महानभूद्दिवौकसामप्सरसां च नेदुषाम् । 068a
पपात चोच्चैरमरप्रवेरितं विचित्रपुष्पोत्करवर्षमुत्तमम् ॥ 068c
ततः परानाविशदुत्तमं भयं समीक्ष्य भूमौ पतितं नरोत्तमम् । 069a
अहीयमानं च बलेन कौरवं निशाम्य भेदं सुदृढस्य वर्मणः ॥ 069c
ततो मुहूर्तादुपलभ्य चेतनां प्रमृज्य वक्त्रं रुधिराक्तमात्मनः । 070a
धृतिं समालम्ब्य विवृत्य लोचने बलेन संस्तभ्य वृकोदरः स्थितः ॥ 070c
'ततो यमौ यमसदृशौ पराक्रमे सपार्षतः शिनितनयश्च वीर्यवान् । 071a
समाह्वयन्नहमहमित्यभित्वरंस्तवात्मजं समभिययुर्वधैषिणः ॥ 071c
निवर्त्य तान्पुनरपि पाण्डवो बली तवात्मजं स्वयमभिगम्य कालवत् । 072a
चचार चाप्यपगतखेदवेपथुः सुरेश्वरो नमुचिमिवोत्तमं रणे' ॥ ॥ 072c

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि अष्टपञ्चाशत्तमोऽध्यायः ॥ 58 ॥

9-58-3 जिगीषतोर्यथेति झ.पाठः ॥ 9-58-49 आस्थायेति । कौशिकान् कुश उन्मत्तस्तदाचरितान्मार्गानास्थाय पुनः पुनरुत्पतनेन वञ्चनेन च भीममुन्मत्तीकृत्य गदया ताडयामासेति द्वयोः सम्बन्धः ॥ 9-58-52 नहृष्टमनसः खिन्नचेतसः ॥ 9-58-61 शङ्खदेशे ललाटप्रान्ते ॥ 9-58-69 नेदुषां नादं कृतवतीनाम् ॥