अध्यायः 057

भीमदुर्योधनयोर्वीरवादः ॥ 1 ॥

वैशम्पायन उवाच । 001
ततो वाग्युद्धमभवत्तुमुलं जनमेजय । 001a
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥ 001c
धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी । 002a
एकादशचमूभर्ता यत्र पुत्रो ममानघ ॥ 002c
आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुन्धराम् । 003a
गदामादाय चैकाकी पदातिः प्रस्थितो रणम् ॥ 003c
भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः । 004a
गदामुद्यम्य यो याति किमन्यद्भागधेयतः ॥ 004c
अहो दुःखं महत्प्राप्तं पुत्रेण मम सञ्जय । 005a
एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः ॥ 005c
सञ्जय उवाच । 006
स मेघनिनदो हर्षान्निनदन्निव गोवृषः । 006a
आजुहाव तदा पार्थं युद्धाय युधि वीर्यवान् ॥ 006c
भीममाह्वयमाने तु कुरुराजे महात्मनि । 007a
प्रादुरासन्सुघोराणि रूपाणि विविधान्युत ॥ 007c
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च । 008a
बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः ॥ 008c
महास्वनाः सुनिर्वातास्तुमुला रोमहर्षणाः । 009a
पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलात् ॥ 009c
राहुश्चाग्रसदादित्यमपर्वणि विशाम्पते । 010a
चकम्पे च महाकम्पं पृथिवी सवनद्रुमा ॥ 010c
रूक्षाश्च वाताः प्रववुर्नीचैः शर्करकर्षिणः । 011a
गिरीणां शिखराण्येव न्यपतन्त महीतले ॥ 011c
मृगा बहुविधाकाराः सम्पतन्ति दिशो दश । 012a
दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः ॥ 012c
निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः । 013a
दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः ॥ 013c
उदपानगताश्चापो व्यवर्धन्त समन्ततः । 014a
अशरीरा महानादाः श्रूयन्ते स्म भयानकाः ॥ 014c
एवमादीनि दृष्ट्वा स निमित्तानि वृकोदरः । 015a
उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम् ॥ 015c
एष शक्यो मया जेतुं मन्दात्मा च सुयोधनः ॥ 016ac
अद्य क्रोधं विमोक्ष्यामि निगूढं हृदयेशयम् । 017a
सुयोधने कौरवेन्द्रे खाण्डवेऽग्निमिवार्जुनः ॥ 017c
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् । 018a
निहत्य गदया पापमिमं कुरुकुलान्तकम् ॥ 018c
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि । 019a
हत्वेमं पापकर्माणं गदया रणमूर्धनि ॥ 019c
अद्योरुगदया राजन्भेत्ताऽस्मि समरेऽनया । 020a
नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम् ॥ 020c
सर्पोत्सर्गस्य शयने विषदानस्य भोजने । 021a
प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि ॥ 021c
सभायामवहासस्य सर्वस्वहरणस्य च । 022a
वर्षमज्ञातवासस्य वनवासस्य चानघ ॥ 022c
अद्यान्तमेषां दुःखानां गन्ताऽहं भरतर्षभ । 023a
एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः ॥ 023c
अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः । 024a
समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम् ॥ 024c
अद्य सौख्यं तु राजेन्द्र कुरुराजस्य दुर्मतेः । 025a
समाप्तं च महाराज नारीणां दर्शनं पुनः ॥ 025c
अद्यायं कुरुराजस्य शन्तनोः कुलपांसनः । 026a
प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले ॥ 026c
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं निपातितम् । 027a
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥ 027c
इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान् । 028a
अभ्यतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥ 028c
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् । 029a
भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह ॥ 029c
राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः । 030a
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ॥ 030c
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला । 031a
द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च ॥ 031c
वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत् । 032a
विराटनगरे चैव योन्यन्तरगतैरिव । 032c
तत्सर्वं पातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते ॥ 032e
त्वत्कृतेऽसौ हतः शेते शरतल्पे पितामहः । 033a
गाङ्गेयो रथिनां श्रेष्ठो रथिना याज्ञसेनिना ॥ 033c
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान् । 034a
वैराग्नेरादिकर्तासौ शकुनिः सौबलो हतः ॥ 034c
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः । 035a
भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः ॥ 035c
एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः । 036a
त्वामद्य निहनिष्यामि गदया नात्र संशयः ॥ 036c
इत्येवमुच्चै राजानं भाषमाणं वृकोदरम् । 037a
उवाच गतभी राजन्पुत्रस्ते सत्यविक्रमः ॥ 037c
किं कत्थनेन बहुना युध्यस्वेह वृकोदर । 038a
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम ॥ 038c
इति दुर्यार्धेनोऽक्षुद्रस्त्वया क्षुद्रबलेन वै । 039a
शक्यस्रासयितुं वाचा न चान्यः प्राकृतो यथा ॥ 039c
चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम । 040a
त्वया सह गदायुद्धं त्रिदशैरुपपादितम् ॥ 040c
किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते । 041a
वाणी सङ्कोच्यतामेषा कर्मणा मा चिरं कृथाः ॥ 041c
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन् । 042a
राजानः सोमकाश्चैव ये तत्रासन्समागताः ॥ 042c
ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः । 043a
भूयो धीरां मतिं चक्रे युद्धाय कुरुनन्दनः ॥ 043c
तं मत्तमिव मातङ्गं तलशब्दैर्नराधिपाः । 044a
भूयः संहर्षयाञ्चक्रुर्दुर्योधनममर्षणम् ॥ 044c
तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः । 045a
अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः ॥ 045c
बृंहन्ति कुञ्चरास्तत्र हया ह्रेषन्ति चासकृत् । 046a
शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणां ॥ 046c

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि सप्तपञ्चाशत्तमोऽध्यायः ॥ 57 ॥

9-57-16 नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधन इति झ.पाठः ॥ 9-57-41 वाणी सम्पद्यतामिति झ.पाठः ॥