अध्यायः 056
(अथ गदायुद्धपर्व ॥ 3 ॥) गदायुद्धाय सन्नद्धयोर्भीमदुर्योधनयोर्वर्णनम् ॥ 1 ॥
सञ्जय उवाच । 001
रामसान्निध्यमागम्य पुत्रो दुर्योधनस्तव । 001a
योद्धुकामो महाबाहुः समहृष्यत वीर्यवान् ॥ 001c
दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत । 002a
प्रीत्यापरमया युक्तो युधिष्ठिरमथाब्रवीत् ॥ 002c
दुर्योधन उवाच । 003
समन्तपञ्चकं पुण्यमितो याम विशाम्पते । 003a
प्रथितोत्तरवेदी सा देवलोके प्रजापतेः ॥ 003c
तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने । 004a
सङ्ग्रामे निधनं प्राप्य ध्रुवं स्वर्गं गमिष्यसि ॥ 004c
तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः । 005a
समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः ॥ 005c
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् । 006a
पद्भ्याममर्षी द्युतिमानगच्छत्पाण्डवैः सह ॥ 006c
तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् । 007a
अन्तरिक्षचरा देवाः साधुसाध्वित्यपूजयन् ॥ 007c
वादकाश्च नरास्तत्र दृष्ट्वा ते हर्षमागताः ॥ 008ac
स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः । 009a
मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् ॥ 009c
ततः शङ्खनिनादैश्च भेरीणां च महास्वनैः । 010a
सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः ॥ 010c
ततस्ते तु कुरुक्षेत्रं प्राप्ता नरवरोत्तमाः । 011a
प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते । 011c
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् ॥ 011e
तस्मिन्देशे त्वनिरिणे ते तु युद्धमरोचयन् ॥ 012ac
ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् । 013a
बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः ॥ 013c
अवबद्धशिरस्त्राणः शुद्धकाञ्चनवर्मभृत् । 014a
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥ 014c
तौ तथा सङ्गतौ वीरौ भीमदुर्योधनावुभौ । 015a
संयुगे सम्प्रकाशेते संरब्धाविव कुञ्जरौ ॥ 015c
रथमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ । 016a
अशोभेतां महाराज चन्द्रसूर्याविवोदितौ ॥ 016c
तावन्योन्यं निरीक्षेतां क्रुद्धाविव महोरगौ । 017a
दहन्तौ लोचनै राजन्परस्परवधैषिणौ ॥ 017c
सम्प्रहृष्टमना राजन्गदामादाय कौरवः । 018a
सृक्विणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् ॥ 018c
ततो दुर्योधनो राजन्गदामादाय वीर्यवान् । 019a
भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् ॥ 019c
अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् । 020a
आह्वयामास नृपतिं सिंहः सिंहं यथा वने ॥ 020c
तावुद्यतगदापाणी दुर्योधनवृकोदरौ । 021a
संयुगे सम्प्रकाशेतां गिरी सशिखराविव ॥ 021c
तावुभौ समतिक्रुद्धावुभौ भीमपराक्रमौ । 022a
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः ॥ 022c
उभौ सदृशकर्माणौ वरुणस्य महाबलौ । 023a
वासुदेवस्य रामस्य तथा वैश्रवणस्य च ॥ 023c
सदृशौ तौ महाराज मधुकैटभयोरपि । 024a
उभौ सदृशकर्माणौ तथा सुन्दोपसुन्दयोः ॥ 024c
[रामरावणयोश्चैव वालिसुग्रीवयोस्तथा] । 025a
तथैव कालस्य समौ मृत्योश्चैव परन्तपौ ॥ 025c
अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ । 026a
वासितासङ्गमे दृप्तौ शरदीव मदोत्कटौ ॥ 026c
उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव । 027a
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिन्दमौ ॥ 027c
उभौ भरतशार्दूलौ विक्रमेण समन्वितौ । 028a
सिंहाविव दुराधर्षौ गदायुद्धविशारदौ ॥ 028c
नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ । 029a
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ ॥ 029c
लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ । 030a
[पूर्वपश्चिमजौ मेघौ प्रेक्षमाणावरिन्दमौ ॥ 030c
गर्जमानौ सुविषमं क्षरन्तौ प्रावृषीव हि । 031a
रश्मियुक्तौ महात्मानौ दीप्तिमन्तौ महाबलौ ॥ 031c
ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ । 032a
व्याघ्राविव सुसंरब्धौ गर्जन्ताविवतोयदौ ॥ 032c
जहृषाते महाबाहू सिंहकेसरिणाविव । 033a
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ ॥ 033c
ददृशाते महात्मानौ सशृङ्गाविव पर्वतौ । 034a
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् ॥ 034c
तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ ।] 035a
उभौ परमसंहृष्टावुभौ परमसम्मतौ ॥ 035c
सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ । 036a
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ । 036c
दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ ॥ 036e
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् । 037a
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥ 037c
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः । 038a
उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः ॥ 038c
ततः समुपविष्टं तत्सुमहद्राजमण्डलम् । 039a
विराजमानं ददृशे दिवीवादित्यमण्डलम् ॥ 039c
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः । 040a
उपविष्टो महाराज पूज्यमानः समन्ततः ॥ 040c
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः । 041a
नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः ॥ 041c
तौ तथा तु महाराज गदाहस्तौ सुदुःसहौ । 042a
अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ ॥ 042c
अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुसत्तमौ । 043a
उदीक्षन्तौ स्थितौ तत्र वृत्रशक्रौ यथाऽऽहवे ॥ ॥ 043c
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि षट्पञ्चाशत्तमोऽध्यायः ॥ 56 ॥
9-56-8 वातिकाश्चारणा ये तु इति झ.पाठः । तत्र वातिकाः वातेन सह गच्छन्ति ते आकाशचारिणः । चारणाः सिद्धविशेषा इत्यर्थः ॥ । 9-56-11 स्वयनं सुगतिदम् ॥ 9-56-12 अनिरिणे अनूषरे ॥ 9-56-26 वासितासङ्गमे एककरिणीसङ्गमार्थे दृप्तौ मोहितौ ॥ 9-56-30 लोहिताङ्गौ द्वौ कुजाविवेत्यभूतोपमा ॥ 9-56-33 जहृषाते हर्षं प्रापतुः ॥