अध्यायः 055
मित्रावरुणाश्रमे नारदाद्भीमदुर्योधनयोर्गदायुद्धोपक्रमश्राविणा बलरामेण तद्दिदृक्षया कुरुक्षेत्रं प्रत्यागमनम् ॥ 1 ॥
वैशम्पायन उवाच । 001
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा देयांश्च सात्वतः । 001a
आश्रमं सुमहत्पुण्यमगमज्जनमेजय ॥ 001c
मधूकाम्रवणोपेतं प्लक्षन्यग्रोधसङ्कुलम् । 002a
चिरबिल्वयुतं पुण्यं पनसार्जुनसङ्कुलम् ॥ 002c
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् । 003a
पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम् ॥ 003c
ते तु सर्वे महात्मानमूचू राजन्हलायुधम् । 004a
शृणु विस्तरशो राम यस्यायं पूर्वमाश्रमः ॥ 004c
अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् । 005a
अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः ॥ 005c
अत्रैव ब्राह्मणी वृद्धा कौमारब्रह्मचारिणी । 006a
योगयुक्ता दिवं याता तपोयुक्ता विशाम्पते ॥ 006c
बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः । 007a
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी ॥ 007c
साऽपि प्राप्य परं योगं गता स्वर्गमनुत्तमम् । 008a
भुक्त्वाऽश्रमेऽश्वमेधस्य फलं फलवतः शुभम् ॥ 008c
गता स्वर्गं महाराज पूजिता च महात्मभिः । 009a
अभिगम्याश्रमं पुण्यं स दृष्ट्वा यदुनन्दनः ॥ 009c
ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः । 010a
सन्ध्याकार्याणि सर्वाणि निर्वर्त्यारुरुहेऽचलम् ॥ 010c
नातिदूरं ततो गत्वा नगं तालध्वजो बली । 011a
पुण्ये तीर्थवरे स्नात्वा विस्मयं परमं गतः ॥ 011c
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः । 012a
सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् ॥ 012c
हलायुधस्तु तत्रापि दत्त्वा दानं महाबलः । 013a
आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ । 013c
सन्तर्पयामास पितॄन्देवांश्च रणदुर्मदः ॥ 013e
तत्रोष्यैकां तु रजनीं यतिभिर्ब्राह्मणैः सह । 014a
मित्रावरुणयोः पुण्यं जगामाश्रममच्युतः ॥ 014c
इन्द्रोऽग्निरर्यमा चैव यत्र प्राक् प्रीतिमाप्नुवन् । 015a
तं देशं कारपचनात्स तस्मादाजगामह ॥ 015c
स्नात्वा तत्र च धर्मात्मा परां प्रीतिमवाप्य च । 016a
ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः । 016c
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः ॥ 016e
तथा तु तिष्ठतां तेषां नारदो भगवानृषिः । 017a
आजगामाथ तं देशं यत्र रामो व्यवस्थितः ॥ 017c
जटामण्डलसंवीतः कुशचीरी महातपाः । 018a
हेमदण्डधरो राजन्कमण्डलुधरस्तथा ॥ 018c
महतीं सुखशब्दां तां गृह्य वीणां मनोरमाम् । 019a
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः ॥ 019c
प्रभवः कलहानां च नित्यं च कलहप्रियः । 020a
तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः ॥ 020c
प्रत्युत्थाय च तं रामः पूजयित्वा यतव्रतम् । 021a
देवर्षिं पर्यपृच्छत्स यथावृत्तं कुरून्प्रति ॥ 021c
तदाऽस्याकथयद्राजन्नारदः सर्ववेदवित् । 022a
सर्वमेतद्यथावृत्तमतीतं कुरुसङ्क्षयम् ॥ 022c
ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा । 023a
किमवस्थं तु तत्क्षत्रं ये तु तत्राभवन्नृपाः ॥ 023c
श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन । 024a
विस्तरश्रवणे जातं कौतूहलमतीव मे ॥ 024c
नारद उवाच । 025
पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा । 025a
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः ॥ 025c
भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् । 026a
एते चान्ये च बहवो हतास्तत्र महाबलाः ॥ 026c
प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै । 027a
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः ॥ 027c
अहतांस्तु महाबाहो शृणु मे तत्र माधव ॥ 028a
धार्तराष्ट्रबले शेषास्त्रयः समितिमर्दनाः । 028c
कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान् । 029a
तेऽपि वै विद्रुता राम दिशो दश भयात्तदा ॥ 029c
दुर्योधनो हते सैन्ये विद्रुतेषु पदातिषु । 030a
ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः ॥ 030c
शयानं धार्तराष्ट्रं तु सलिले स्तम्भिते तदा । 031a
पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन् ॥ 031c
स तुद्यमानो बलवान्वाग्भी राम समन्ततः । 032a
उत्थितः स ह्रदाद्वीरः प्रगृह्य महतीं गदाम् ॥ 032c
स चाप्युपगतो योद्धुं भीमेन सह साम्प्रतम् । 033a
भविष्यति तयोरद्य युद्धं राम सुदारुणम् ॥ 033c
यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् । 034a
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे ॥ 034c
वैशम्पायन उवाच । 035
नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् । 035a
सर्वान्विसर्जयामास ये तेनाभ्यागताः सह । 035c
गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः ॥ 035e
सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् । 036a
ततः प्रीतमनाः रामः श्रुता तीर्थफलं महत् । 036c
विप्राणां सन्निधौ श्लोकमगायदिममच्युतः ॥ 036e
सरस्वतीवाससमा कुतो रतिः सरस्वतीवाससमाः कुतो गुणाः । 037a
सरस्वतीं प्राप्य दिवं गता जनाः सदा स्मरिष्यन्ति नदीं सरस्वतीम् ॥ 037c
सरस्वती सर्वनदीषु पुण्या सरस्वती लोकशुभावहा सदा । 038a
सरस्वतीं प्राप्य जनाः सुदुष्कृतं सदा न शोचन्ति परत्र चेह च ॥ 038c
ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् । 039a
हयैर्युक्तं रथं शुभ्रमारुरोह परन्तपः ॥ 039c
स शीघ्रगामिना तेन रथेन यदुपुङ्गवः । 040a
दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्धमुपस्थितम् ॥ 040c
एवं तदभवद्युद्धं तुमुलं जनमेजयं । 041a
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥ 041c
धृतराष्ट्र उवाच । 042
रामं सन्निहितं श्रुत्वा गदायुद्ध उपस्थिते । 042a
मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय ॥ ॥ 042c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55 ॥ समाप्तं ह्रदप्रवेशपर्व ॥ 2 ॥
9-55-10 स्कन्धावाराणि सर्वाणीति क.ङ.छ.पाठः ॥ 9-55-12 प्लक्षप्रस्रवणं विलमिति क.पाठः ॥ 9-55-19 कच्छपीं सुखशब्दां तामिति क.छ.झ.पाठः ॥ 9-55-30 दुर्योधनो हते शल्ये विद्रुतेषु कृपादिषु इति झ.पाठः ॥ 9-55-38 सरस्वतीं हीनविदेशवासिनः सदा रमरिष्यन्ति इति ङ.पाठः । सरस्वतीहीनविदेशवासिनः इति क.पाठः ॥