अध्यायः 054
बलभद्राय महर्षिभिः कुरुक्षेत्रमहिमानुवर्णनम् ॥ 1 ॥
ऋषय ऊचुः । 001
प्रजापतेरुत्तरवेदिरुच्यते सनातनं राम समन्तपञ्चकम् । 001a
समीजिरे यत्र पुरा दिवौकसो वरेण सत्रेण महावरप्रदाः ॥ 001c
पुरा च राजर्षिवरेण धीमता बहूनि वर्षाण्यमितेन तेजसा । 002a
प्रकृष्टमेतत्कुरुणा महात्मना ततः कुरुक्षेत्रमितीह पप्रथे ॥ 002c
राम उवाच । 003
किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना । 003a
एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः ॥ 003c
ऋषय ऊचुः । 004
पुरा किल कुरुं राम कर्षन्तं सततोत्थितम् । 004a
अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम् ॥ 004c
इन्द्र उवाच । 005
किमिदं वर्तते कर्म प्रयत्नेन परेण च । 005a
राजर्षे किमभिप्रेत्य येनेयं कृष्यते क्षितिः ॥ 005c
कुरुरुवाच । 006
इह ये पुरुषाः क्षेत्रे जनिष्यन्ति शतक्रतो । 006a
ते गमिष्यन्ति सुकृतां लोकान्पापविवर्जितान् ॥ 006c
अपहास्य तु तं शक्रो जगाम त्रिदिवं पुनः । 007a
राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम् ॥ 007c
आगम्यागम्य चैवैनं भूयोभूयोऽपहास्य च । 008a
शतक्रतुरनिर्विण्णं पृष्ट्वापृष्ट्वा जगाम ह ॥ 008c
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः । 009a
ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम् ॥ 009c
एतच्छ्रुत्वाऽब्रुवन्देवाः सहस्राक्षमिदं वचः । 010a
वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते ॥ 010c
यदि ह्यत्र प्रसूता वै स्वर्गं गच्छन्ति मानवाः । 011a
अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति ॥ 011c
आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत् । 012a
अलं खेदेन भवतः क्रियतां वचनं मम ॥ 012c
मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः । 013a
युधि वा निहताः सम्यगपि तिर्यग्गता नृप ॥ 013c
ते स्वर्गभाजो राजेन्द्र भवन्त्विह हतास्तु ये । 014a
तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह ॥ 014c
ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना । 015a
जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः ॥ 015c
एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा । 016a
शक्रेण चाभ्यनुज्ञातः पुण्ये प्राणान्मुमोच ह ॥ 016c
[शक्रेण चाभ्यनुज्ञातं ब्रह्माद्यैश्च सुरैस्तथा । 017a
नातः परतरं पुण्यं भूमेः स्थानं भविष्यति ॥ 017c
इह तप्स्यन्ति ये केचित्तपः परमकं नराः । 018a
देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम् ॥ 018c
ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः । 019a
तेषां सहस्रगुणितं भविष्यत्यचिरेण वै ॥ 019c
ये चेह नित्यं मनुजा निवत्स्यन्ति शुभैषिणः । 020a
यमस्य विषयं ते तु न द्रक्ष्यन्ति कदाचन ॥ 020c
यक्ष्यन्ति ये च क्रतुभिर्महद्भिर्मनुजेश्वराः । 021a
तेषां त्रिविष्टपे वासो यावद्भूमिर्धरिष्यति ॥] 021c
अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः । 022a
कुरुक्षेत्रनिबद्धां वै तां शृणुष्व हलायुध ॥ 022c
पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः । 023a
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥ 023c
'कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् । 024a
इत्येवं निश्चितो भूत्वा तेन स्वर्गं गमिष्यति ॥ 024c
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् । 025a
तथा स्थानं च मौनं च वीरासनमुपास्महे ॥ 025c
एवं प्रलपमानोऽपि चिन्तयंश्च मुहुर्मुहुः । 026a
दूरस्थो यदि वा तिष्ठल्ँलभेत्स्वर्गं सुनिश्चितम्' ॥ 026c
सुरर्षभा ब्राह्मणसत्तमाश्च तथा नृगाद्या नरदेवमुख्याः । 027a
इष्ट्वा महार्हैः क्रतुभिर्नृसिंह सन्त्यज्य देहान्सुगतिं प्रपन्नाः ॥ 027c
तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य च । 028a
एतत्कुरुक्षेत्रसमन्तपञ्चकं प्रजापतेरुत्तरवेदिरुच्यते ॥ 028c
शिवं महापुण्यमिदं दिवौकसां सुसम्मतं स्वर्गगुणैः समन्वितम् । 029a
अतश्च सर्वे निहता नृपा रणे यास्यन्ति पुण्यां गतिमक्षयां सदा ॥ 029c
[इत्युवाच स्वयं शक्रः सह ब्रह्मादिभिस्तदा । 030a
तच्चानुमोदितं सर्वं ब्रह्मविष्णुमहेष्वरैः] ॥ ॥ 030c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चतुःपञ्चाशत्तमोऽध्यायः ॥ 54 ॥
9-54-2 पप्रथे प्रसिद्धं बभूव ॥ 9-54-3 परिष्यन्ति शतक्रतो इति झ.पाठः ॥ 9-54-11 प्रमीता वै इति झ.पाठः ॥ 9-54-18 ब्रह्मणः क्षयं निवासम् ॥ 9-54-28 आरुन्दुकारुन्दकयोर्यदन्तरं रामह्रदानां च समन्दुकस्य इति क.पाठः । परमन्दुकस्येति ङ.छ.पाठः ॥