अध्यायः 053
वृद्धकन्याचरित्रकथनम् ॥ 1 ॥
जनमेजय उवाच । 001
कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा । 001a
किमर्थं च तपस्तेपे को वाऽस्या नियमोऽभवत् ॥ 001c
सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् । 002a
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ॥ 002c
वैशम्पायन उवाच । 003
ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः । 003a
स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः । 003c
तपसाऽथ सुतां सुभ्रूं समुत्पादितवान्विभुः ॥ 003e
तां च दृष्ट्वा मुनिः प्रीतः कुणिर्गार्ग्यो महायशाः । 004a
जगाम त्रिदिवं राजन्सन्त्यज्येह कलेवरम् ॥ 004c
सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा । 005a
महता तपसोग्रेण कृत्वाश्रममनिन्दिता ॥ 005c
उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा । 006a
तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप ॥ 006c
सा पित्रा दीयमानापि पतिं नैच्छदनिन्दिता । 007a
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत ॥ 007c
ततः सा तपसोग्रेण पीडयित्वाऽऽत्मनस्तनुम् । 008a
पितृदेवार्चनरता बभूव विजने वने ॥ 008c
साऽऽत्मानं मन्यमाना तु कृतकृत्यं श्रमान्विता । 009a
'जगाम वृद्धभावं तु कौमारब्रह्मचारिणी' ॥ 009c
वार्धकेन च राजेन्द्र तपसा चैव कर्शिता । 010a
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम् ॥ 010c
चकार गमने बुद्धिं परलोकाय वै तदा । 011a
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत् ॥ 011c
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे । 012a
एवं तु श्रुतमस्माभिर्देवलोके महाव्रते ॥ 012c
तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः । 013a
तन्नारदवचः श्रुत्वा साऽब्रवीदृषिसंसदि ॥ 013c
तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः । 014a
इत्युक्तेऽस्यास्तु जग्राह पाणिं गालवसम्भवः ॥ 014c
ऋषिः प्राक् शृङ्गवान्नाम समयं चेममब्रवीत् । 015a
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने ॥ 015c
यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह । 016a
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा ॥ 016c
यथादृष्टेन विधिना हुत्वा चाग्निं विधानतः । 017a
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः ॥ 017c
सा रात्रावभवद्राजंस्तरुणी वरवर्णिनी । 018a
दिव्याभरणवस्त्रा च दिव्यगन्धानुलेपना ॥ 018c
तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिव श्रिया । 019a
उवास च क्षपामेकां प्रभाते साऽब्रवीच्च तम् ॥ 019c
यस्त्वया समयो विप्र कृतो मे तपतां वर । 020a
तेनोषिताऽस्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् ॥ 020c
सा तु ध्यात्वाऽब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः । 021a
वसते रजनीमेकां तर्पयित्वा दिवौकसः ॥ 021c
चत्वारिंशतमष्टौ च द्वौ चाष्टौ सम्यगाचरेत् । 022a
यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः ॥ 022c
एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता । 023a
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन् ॥ 023c
समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् । 024a
साधयित्वा तदाऽऽत्मानं तस्याः स गतिमाप्तवान् । 024c
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः ॥ 024e
एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत् । 025a
तथैव ब्रह्मचर्यं च स्वर्गस्य च गतिः शुभा ॥ 025c
तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः ॥ 026ac
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तपः । 027a
शुशोच शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा ॥ 027c
समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः । 028a
पप्रच्छर्षिगणारामः कुरुक्षेत्रस्य यत्फलम् ॥ 028c
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो 029a
समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् ॥ ॥ 029c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रिपञ्चाशतमोऽध्यायः ॥ 53 ॥
9-53-3 तपसा संयुता सुभ्रूः समुत्पना महात्मनः इति छ. पाठः ॥ 9-53-22 चत्वारिंशतमष्टौ चेति । प्रतिवेदं द्वादशवर्षाणीति वेदचतुष्टयाध्ययनायाष्टाचत्वारिंशद्वर्षाणि । ततो द्वौ वत्सरौ स्नातकेन गुरोरानृण्यार्थं सेवा कार्या । ततोऽष्टवार्षिकीं कन्यां परिणीय तस्या यौवनावध्यष्टवर्षाणीत्यष्टपञ्चाशद्वर्षाणि ब्रह्मचर्यं सर्वस्येष्टम् ॥ 9-53-24 सङ्गतिमन्वियात् इति छ. पाठः ॥