अध्यायः 052
दधीचिसारस्वतयोश्चरितवर्णनम् ॥ 1 ॥
वैशम्पायन उवाच । 001
यत्रेजिवानुडुपती राजसूयेन भारत । 001a
यस्मिन्वृत्ते महानासीत्सङ्ग्रामस्तारकामयः ॥ 001c
तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् । 002a
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह ॥ 002c
यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् । 003a
वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥ 003c
जनमेजय उवाच । 004
कथं द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् । 004a
वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥ 004c
वैशम्पायन उवाच । 005
आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः । 005a
दधीचिरिति विख्यातो ब्रह्मचारी जितेन्द्रियः ॥ 005c
तस्यातितपसः शक्रो बिभेति सततं विभो । 006a
न स लोभयितुं शक्यः फलैर्बहुविधैरपि ॥ 006c
प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः । 007a
दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् ॥ 007c
तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः । 008a
समीपतो महाराज सोपातिष्ठत भामिनी ॥ 008c
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः । 009a
रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा ॥ 009c
कुक्षौ चाप्यदधद्धृष्टा तद्रेतः पुरुषर्षभ । 010a
सा दधार च तं गर्भं पुत्रहेतोर्महात्मनः ॥ 010c
सुषुवे चापि समये पुत्रं सारस्वतं वरम् । 011a
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो ॥ 011c
ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् । 012a
ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् । 012c
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया ॥ 012e
दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् । 013a
तत्कुक्षिणाऽहं ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् ॥ 013c
न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् । 014a
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् ॥ 014c
इत्युक्तः प्रतिजग्राह प्रीतिं चावाप पुष्कलाम् । 015a
पितृवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः ॥ 015c
परिष्वज्य चिरं कालं तदा भरतसत्तम । 016a
सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः ॥ 016c
विश्वेदेवाः सपितरो गन्धर्वाप्सरसां गणाः । 017a
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा ॥ 017c
इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् । 018a
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव ॥ 018c
दधीचिरुवाच । 019
प्रस्रुताऽसि महाभागे सरसो ब्रह्मणः पुरा । 019a
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः ॥ 019c
मम प्रियकरी चापि सततं प्रियदर्शने । 020a
तस्मात्सारस्वतं पुत्रमदधा वरवर्णिनि ॥ 020c
तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः । 021a
सारस्वत इति ख्यातो भविष्यति महातपाः ॥ 021c
एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान् । 022a
सारस्वतो महाभागे वेदानध्यापयिष्यति ॥ 022c
पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे । 023a
भविष्यसि महाभागे मत्प्रसादात्सरस्वति ॥ 023c
एवं सा संस्तुता तेन वरं लब्ध्वा महानदी । 024a
पुत्रमादाय मुदिता जगाम भरतर्षभ ॥ 024c
एतस्मिन्नेव काले तु विरोधे देवदानवैः । 025a
शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह ॥ 025c
न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा । 026a
यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् ॥ 026c
ततोऽब्रवीत्सुराञ्शक्रो न मे शक्याः सुरारयः । 027a
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः ॥ 027c
तस्माद्यत्नादृषिश्रेष्ठो याच्यतां कार्यसिद्धये । 028a
दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् ॥ 028c
स च तैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा । 029a
साहाय्यं नः कुरुष्वेति चकारैवाविचारयन् ॥ 029c
स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा । 030a
तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा ॥ 030c
कारयामास दिव्यानि नानाप्रहरणान्युत । 031a
गदा वज्राणि चक्राणि गुरून्दण्डांश्च पुष्कलान् ॥ 031c
स हि तीव्रेण तपसा सम्भृतः परमर्षिणा । 032a
प्रजापतिसुतेनाथ भृगुणा लोकभावनः ॥ 032c
अतिकायः स तेजस्वी लोकसारो विनिर्मितः । 033a
जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः ॥ 033c
नित्यमुद्विजते चास्य तेजसः पाकशासनः ॥ 034ac
तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत । 035a
भृशं क्रोधविसृष्टेन ब्रह्मतेजोद्भवेन च । 035c
दैत्यदानववीराणां जघान नवतीर्नव ॥ 035e
अथ काले व्यतिक्रान्ते महत्यतिभयङ्करी । 036a
अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी ॥ 036c
तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः । 037a
वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् ॥ 037c
दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा । 038a
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती ॥ 038c
न गन्तव्यमितः पुत्र तवाहारमहं सदा । 039a
दास्यामि मत्स्यप्रवरानुष्यतामिह भारत ॥ 039c
इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा । 040a
आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् ॥ 040c
अथ तस्यामनावृष्ट्यामतीतायां महर्षयः । 041a
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् ॥ 041c
तेषां क्षुधापरीतानां नष्टा वेताा विधावताम् । 042a
सर्वेषामेव राजेन्द्र न किचित्प्रतिभाति ह ॥ 042c
अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान् । 043a
कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् ॥ 043c
स गत्वाऽचष्ट तेभ्यश्च सारस्वतमृषिं प्रभुम् । 044a
स्वाध्यायममरप्रख्यं कुर्वाणं विजने वने ॥ 044c
ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः । 045a
सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः ॥ 045c
अस्मानध्यापयस्वेति तानुवाच ततो मुनिः । 046a
शिष्यत्वमुपगच्छध्वं विधिना च ममेत्युत ॥ 046c
तत्राब्रुवन्मुनिगणा बालस्त्वमसि पुत्रक । 047a
स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् ॥ 047c
यो ह्यधर्मेण वै ब्रूयाद्गृह्णीयाद्योऽप्यधर्मतः । 048a
म्रियेतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ ॥ 048c
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः । 049a
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ 049c
एतच्छ्रुत्वा वचस्तस्य मनुयस्ते विधानतः । 050a
तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे ॥ 050c
षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे । 051a
सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् ॥ 051c
मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते ह्युपाहरन् । 052a
तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः ॥ 052c
तत्रापि दत्त्वा वसु रौहिणेयो महाबलः केशवपूर्वजोऽथ 053a
जगाम तीर्थं मुदितः क्रमेण तं वृद्धकन्याश्रममेव वीरः ॥ ॥ 053c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि द्विपञ्चाशत्तमोऽध्यायः ॥ 52 ॥
9-52-5 दधीच इति छ.झ.पाठः ॥ 9-52-12 ऋषिसंसादितं दृष्ट्वेति क.छ.पाठः । तत्र संसादितं परिवारितमित्यर्थः ॥ 9-52-28 दधीचोऽस्थीनीति छ.पाठः ॥ 9-52-29 प्राणत्यागं कुरुश्रेष्ठ चकारैवाविचारयन्निति झ.पाठः ॥ 9-52-34 अस्य मुनेः ॥ 9-52-35 तेन तदस्थिजेन वज्रेण नवतीर्नव दशाधिकां अष्टशतीम् ॥