अध्यायः 051
देवलजैगीषव्ययोश्चरित्रकीर्तनम् ॥ 1 ॥ बलभद्रस्यादित्यतीर्थात्सोमतीर्थगमनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः । 001a
गार्हिस्थ्यं धर्ममास्थाय ह्यसितो देवलः पुरा ॥ 001c
धर्मनित्यः शुचिर्दान्तो यज्ञशीलो महातपाः । 002a
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ॥ 002c
अक्रोधनो महाराज तुल्यनिन्दात्मसंस्तुतिः । 003a
प्रियाप्रिये तुल्यवृत्तिर्यमवत्समदर्शनः ॥ 003c
काञ्चने लोष्ठके चैव समदर्शी महातपाः । 004a
देवानपूजयन्नित्यमतिथींश्च द्विजैः सह । 004c
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः ॥ 004e
ततोऽभ्येत्य महाभाग योगमास्थाय भिक्षुकः । 005a
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः ॥ 005c
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः । 006a
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः ॥ 006c
तं तत्र वसमानं तु जैगीषव्यं महामुनिम् । 007a
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः ॥ 007c
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत् ॥ 008ac
जैगीषव्यो मुनिस्तं तु ददर्शाथ स केवलम् । 009a
आहारकाले मतिमान्परिव्राड् जमेजय ॥ 009c
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् । 010a
स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम् 010c
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा ॥ 010e
देवलस्तु यथाशक्ति पूजयामास भारत । 011a
ऋषिदृष्टेन विधिना समा बहीः समाहितः ॥ 011c
कदाचित्तस्य नृपते देवलस्य महात्मनः । 012a
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् ॥ 012c
समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम । 013a
न चायमलसो भिक्षुरभ्यभाषत किञ्चन ॥ 013c
एवं विगणयन्नेव स जगाम महोदधिम् । 014a
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः ॥ 014c
गच्छन्नेव स धर्मात्मा समुद्रं सरितां परिम् । 015a
जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत ॥ 015c
ततः सविस्मयश्चिन्तां जगामाथामितप्रभः । 016a
कथं भिक्षुरचं प्राप्तः समुद्रे स्नात एव च ॥ 016c
इत्येवं चिन्तयामास महर्षिरसितस्तदा । 017a
स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप सः ॥ 017c
कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह । 018a
कलशं जलपूर्णं वै गृहीत्वा जनमेजय ॥ 018c
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः । 019a
आसीनमाश्रमे तत्र जैगीषव्यमपश्यत ॥ 019c
न व्याहरति चैवैनं जैगीषव्यः कथञ्चन । 020a
काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः ॥ 020c
तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम् । 021a
प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः ॥ 021c
असितो देवलो राजंश्चिन्तयामास बुद्धिमान् । 022a
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् ॥ 022c
चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः । 023a
मया दृष्टः समुद्रे च आश्रमे च कथं न्वयम् ॥ 023c
एवं विगणयन्नेव स मुनिर्मन्त्रपारगः । 024a
उत्पपाताश्रमात्तस्मादन्तरिक्षं विशाम्पते । 024c
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः ॥ 024e
सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् । 025a
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत ॥ 025c
ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः । 026a
अपश्यद्वै दिवं यातं जैगीषव्यं स देवलः ॥ 026c
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत । 027a
पितृलोकाच्च तं यातं याम्यं लोकमपश्यत ॥ 027c
'तस्मादादित्यलोकं च व्रजन्तं सोऽन्वपश्यत । 028a
'तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् । 028c
व्रजन्तमन्वपश्यत्स जैगीषव्यं स देवलः ॥ 028e
लोकान्समुत्पतन्तं तु शुभानेकान्तयाजिनाम् । 029a
ततोऽग्निहोत्रिणां लोकांस्ततश्चाप्युत्पपात ह ॥ 029c
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः । 030a
तेभ्यः स ददृशे धीमाल्ँलोकेभ्यः पशुयाजिनाम् । 030c
व्रजन्तं लोकममलमपश्यद्देवपूजितम् ॥ 030e
चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः । 031a
तेषां स्थानं ततो यातं तथाऽग्निष्टोमयाजिनाम् ॥ 031c
अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः । 032a
तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः ॥ 032c
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् । 033a
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत ॥ 033c
यजन्ते राजसूयेन पुण्डरीकेण चैव ये । 034a
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ 034c
अश्वमेधं क्रतुवरं नरमेधं तथैव च । 035a
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत ॥ 035c
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये । 036a
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ 036c
द्वादशाहैश्च सत्रैश्च यजन्ते विविधैर्नृप । 037a
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ 037c
मैत्रावरुणयोर्लोकानादित्यानां तथैव च । 038a
सलोकतामनुप्राप्तमपश्यत ततोऽसितः ॥ 038c
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः । 039a
तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः ॥ 039c
आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् । 040a
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः ॥ 040c
त्रील्ँलोकान्प्रवरान्विप्रमुत्पतन्तं स्वतेजसा । 041a
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत ॥ 041c
ततो मुनिवरं भूयो जैगीषव्यमथासितः । 042a
नान्वपश्यत लोकस्थमन्तर्हितमरिन्दम ॥ 042c
सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः । 043a
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् ॥ 043c
असितोऽपृच्छत तदा सिद्धाल्ँलोकेषु सत्तमान् । 044a
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मचारिणः ॥ 044c
जैगीषव्यं न पश्यामि तं शंसन्तु तपोधनाः । 045a
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥ 045c
सिद्धा ऊचुः । 046
शृणु देवल भूतार्थं शंसतां नो दृढव्रत । 046a
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोक्षयम् ॥ 046c
वैशम्पायन उवाच । 047
स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मचारिणाम् । 047a
असितो देवलस्तूर्णमुत्पपात पपात च ॥ 047c
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह । 048a
न देवलगतिस्तत्र तव गन्तुं तपोधन । 048c
ब्रह्मणः सदने विप्र जैगीषव्यो यदाप्तवान् ॥ 048e
वैशम्पायन उवाच । 049
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः । 049a
आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह ॥ 049c
स्वमाश्रमपदं पुण्यमाजगाम पतङ्गवत् । 050a
प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः ॥ 050c
ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया । 051a
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् ॥ 051c
ततोऽब्रविन्महात्मानं जैगीषव्यं स देवलः । 052a
विनयावनतो राजन्नुपसर्प्य महामुनिम् । 052c
मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् ॥ 052e
तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः । 053a
विधिं योगस्य परमं कार्याकार्यस्य शास्त्रतः ॥ 053c
सन्न्यासे कृतबुद्धिं तं ततो दृष्ट्वा महातपाः । 054a
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा ॥ 054c
सन्न्यासे कृतबुद्धिं तं भूतानि पितृभिः सह । 055a
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति ॥ 055c
देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा । 056a
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे ॥ 056c
ततस्तु फलमूलानि पवित्राणि च भारत । 057a
पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः ॥ 057c
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः । 058a
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते ॥ 058c
ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः । 059a
मोक्षे गार्हस्थ्यधर्मे वा किन्नु श्रेयस्करं भवेत् ॥ 059c
इति निश्चित्य मनसा देवलो राजसत्तम । 060a
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् ॥ 060c
एवमादीनि सञ्चिन्त्य देवलो निश्चयान्वितः । 061a
प्राप्तवान्परमां सिद्धिं परं योगं च भारत ॥ 061c
ततो देवाः समागम्य बृहस्पतिपुरोगमाः । 062a
जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः ॥ 062c
अथाब्रवीदृषिवरो देवान्वै नारदस्तथा । 063a
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् ॥ 063c
तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः । 064a
नैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् ॥ 064c
नातः परतरं किञ्चित्तुल्यमस्ति प्रभावतः । 065a
तेजसस्तपसश्चास्य योगस्य च महात्मनः ॥ 065c
एवं प्रभावो धर्मात्मा जैगीषव्यस्तथाऽसितः । 066a
तयोरिदं स्थानवरं तीर्थं चैव महात्मनोः ॥ 066c
तत्राप्युपस्पृश्य ततो महात्मा दत्त्वा च वित्तं हलभृद्द्विजेभ्यः । 067a
अवाप्य धर्मं परमार्थकर्मा जगाम सोमस्य महत्सुतीर्थम् ॥ । 067c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकपञ्चाशत्तमोऽध्यायः ॥ 51 ॥
9-51-7 नैवामुञ्चत धर्मतः इति छ.पाठः ॥ 9-51-8 व्यतिक्रमत् व्यत्यक्रामत् ॥ 9-51-16 असितप्रभ इति छ.पाठः ॥ 9-51-46 भूतार्थं यथाभूतार्थम् ॥ 9-51-47 उत्पपात ब्रह्मलोकं गन्तुमिति शेषः । पपात च गगनात् ॥ 9-51-54 सर्वाः क्रिया उत्सर्गेष्ट्यादयः ॥ 9-51-56 मोक्षं सन्न्यासं त्यक्तुं मनो दधे । उत्सृष्टानामग्नीनां पुनराधानं कर्तुमैच्छत् ॥ 9-51-66 असितो देवलः ॥