अध्यायः 050
बलभद्रस्येन्द्रतीर्थादिगमनम् ॥ 1 ॥ तत्तत्तीर्थमाहात्म्यकथनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली । 001a
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि ॥ 001c
तत्र ह्यमरराजो वै ईजे क्रतुशतेन ह । 002a
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् ॥ 002c
अनर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् । 003a
आजहार क्रतूंस्तत्र यथोक्तं वेदपारगैः ॥ 003c
तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः । 004a
पूरयामास विधिवत्ततः ख्यातः शतक्रतुः ॥ 004c
तस्य नाम्ना तु तत्तीर्थं शिवं पुण्यं सनातनम् । 005a
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् ॥ 005c
उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः । 006a
ब्राह्मणान्पूजयित्वा च पानाच्छादनभोजनैः ॥ 006c
शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह । 007a
यत्र रामो महाभागो भार्गवः सुमहातपाः ॥ 007c
असकृत्पृथिवीं कृत्वा हतक्षत्रियपुङ्गवाम् । 008a
उपाध्यायं पुरस्कृत्य काश्यपं मुनिसत्तमम् ॥ 008c
अयजद्वाजपेयेन सोऽश्वमेधशतेन च । 009a
प्रददौ दक्षिणार्थं च पृथिवीं सागराम्बराम् ॥ 009c
रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय । 010a
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् ॥ 010c
पुण्यतीर्थे शुभे देशे वसु दत्त्वा हलायुधः । 011a
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् । 011c
यत्रानयामास तदा राजसूयमपाम्पतिः ॥ 011e
दितेः सुतान्महाभागो वरुणो वै सितप्रभः । 012a
यत्र निर्जित्य सङ्ग्रामे मानुषान्दानवांस्तथा । 012c
गन्धर्वान्राक्षसांश्चैव वरुणः परवीरहा ॥ 012e
तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत । 013a
देवानां दानवानां च त्रैलोक्यस्य भयावहः ॥ 013c
राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय । 014a
जायते सुमहाघोरः सङ्क्षयः क्षत्रियान्प्रति ॥ 014c
हलायुधस्तदा रामस्तस्मिंस्तीर्थवरे शुभे । 015a
तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः ॥ 015c
वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः । 016a
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः ॥ 016c
यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम । 017a
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत ॥ 017c
तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः । 018a
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह ॥ 018c
द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः । 019a
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशाम्पते ॥ 019c
एते चान्ये च बहवो योगसिद्धाः सहस्रशः । 020a
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप ॥ 020c
तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ । 021a
आप्लुत्य भरतश्रेष्ठ तीर्थप्रवर उत्तमे ॥ 021c
द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत । 022a
सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः ॥ 022c
असितो देवलश्चैव तस्मिन्नेव महातपाः । 023a
परमं योगमास्थाय ऋषिर्योगमवाप्तवान् ॥ ॥ 023c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥
9-50-1 आनयामास मुनीनित्यनुषज्ज्यते । राजसूयं कर्तुमिति शेषः ॥