अध्यायः 049
बलरामस्य बदरपाचनतीर्थगमनम् ॥ 1 ॥ श्रुतावत्यरुन्धत्योर्महिमानुवर्णनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
ततस्तीर्थवरं रामो ययौ बदरपाचनाम् । 001a
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता ॥ 001c
भरद्वाजस्य दुहिता रुपेणाप्रतिमा भुवि । 002a
श्रुतावती नाम विभो कुमारी ब्रह्मचारिणी ॥ 002c
तपश्चचार सात्युग्रं नियमैर्बहुभिर्वृता । 003a
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी ॥ 003c
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह । 004a
चरन्त्या नियमांस्तांस्तांस्त्रीभिस्तीव्रान्सुदुश्चरान् ॥ 004c
तस्यास्तु तेन वृत्तेन तपसा च विशाम्पते । 005a
भक्त्या च भगवान्प्रीतः परया पाकशासनः ॥ 005c
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः । 006a
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः ॥ 006c
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् । 007a
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत ॥ 007c
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा । 008a
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ॥ 008c
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत । 009a
शक्रभक्त्या च ते पाणिं न दास्यामि कथञ्चन ॥ 009c
व्रतैश्च नियमैश्चैव तपसा च तपोधन । 010a
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः ॥ 010c
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम् । 011a
उवाच नियमं ज्ञात्वा सान्त्वयन्निव भारत ॥ 011c
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते । 012a
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः ॥ 012c
तच्च सर्वं यथाभूतं भविष्यति वरानने । 013a
तपसा लभ्यते सर्वं यथाभूतं भविष्यति ॥ 013c
यथा स्थानानि दिव्यानि विबुधानां शुभानने । 014a
तपसा तानि प्राप्याणि तपोमूलं महात्सुखम् ॥ 014c
इति कृत्वा तपो घोरं देहं सन्न्यस्य मानवाः । 015a
देवत्वं यान्ति कल्याणि शृणुष्वैकं वचो मम ॥ 015c
पञ्च चैतानि सुभगे बदराणि शुभव्रते । 016a
पचेत्युक्त्वा तु भगवाञ्जगाम बलसूदनः ॥ 016c
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः । 017a
अविदूरे ततस्तस्मादाश्रमात्तीर्थमुत्तमम् ॥ 017c
तच्च तीर्थं महाराज यत्र जप्यं जजाप सः । 018a
इन्द्रतीर्थेतिविख्यातं त्रिषु लोकेषु मानद ॥ 018c
तस्य जिज्ञासनार्थं स भगवान्पाकशासनः । 019a
बदराणामपचनं चकार विबुधाधिपः ॥ 019c
ततः प्रतप्ता सा राजन्वाग्यता विगतक्लमा । 020a
तत्परा शुचिसंवीता पावके समधिश्रयत् । 020c
अपचद्राजशार्दूल बदराणि महाव्रता ॥ 020e
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ । 021a
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् ॥ 021c
हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः । 022a
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् ॥ 022c
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना । 023a
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ ॥ 023c
चरणे दह्यमाने च नाचिन्तयदनिन्दिता । 024a
दुःखं कमलपत्राक्षी महर्षिप्रियकाम्यया ॥ 024c
न वैमनस्यं तस्यास्तु मुखभेदोऽथवाऽभवत् । 025a
शरीरमग्निना दीप्य जलमध्ये यथा स्थिता ॥ 025c
तच्चास्याः पचने यत्नं न न्यवर्तत भारत । 026a
सर्वथा बदराण्येव पक्तव्यानीति कन्यका ॥ 026c
सा तन्मनसि कृत्वैव महर्षेर्वचनं शुभा । 027a
अपचद्बदराण्येव न चापच्यन्त भारत ॥ 027c
तस्यास्तु चरणौ वह्निर्ददाह भगवान्स्वयम् । 028a
न च तस्या मनोदुःखं स्वल्पमप्यभवत्तदा ॥ 028c
अथ तत्कर्म दृष्ट्वाऽस्याः प्रीतस्त्रिभुवनेश्वरः । 029a
ततः सन्दर्शयामास कन्यायै रूपमात्मनः ॥ 029c
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् । 030a
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च ॥ 030c
तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे । 031a
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि ॥ 031c
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति । 032a
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम् । 032c
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् ॥ 032c
अस्मिन्खलु महाभागे शुभे तीर्थवरेऽनघे । 033a
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् ॥ 033c
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः । 034a
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल ॥ 034c
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने । 035a
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी ॥ 035c
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः । 036a
अरुन्धत्यपि कल्याणी तपोनित्याऽभवत्तदा ॥ 036c
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम् । 037a
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा ॥ 037c
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः । 038a
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे ॥ 038c
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना । 039a
क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय ॥ 039c
ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते । 040a
इत्युक्ता साऽपचत्तानि ब्राह्मणप्रियकाम्यया । 040c
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी ॥ 040e
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा । 041a
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी ॥ 041c
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः । 042a
दिनोपमः स तस्याथ कालोऽतीतः सुदारुणः ॥ 042c
ततस्तु मुनयः प्राप्ताः फलान्यादाय पर्वतात् । 043a
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं ततः ॥ 043c
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् । 044a
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च ॥ 044c
ततः सन्दर्शयामास स्वरूपं भगवान्हरः । 045a
ततोऽब्रवीत्तदा तेभ्यस्तस्याश्च चरितं महत् ॥ 045c
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् । 046a
अस्याश्च यत्तपो विप्रा न समं तन्मतं मम ॥ 046c
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् । 047a
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः ॥ 047c
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः । 048a
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि ॥ 048c
साऽब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि । 049a
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमद्भुतम् ॥ 049c
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् । 050a
तथाऽस्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः ॥ 050c
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् । 051a
एवमस्त्विति तां देवः प्रत्युवाच तपस्विनीम् ॥ 051c
सप्तर्षिभिः स्तुतो देवस्ततो लोकं ययौ तदा । 052a
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् । 052c
अश्रान्तां चाविवर्णां च क्षुत्पिपासाऽसमायुताम् ॥ 052e
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया । 053a
यथा त्वया महाभागे मदर्थे संशितव्रते ॥ 053c
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः । 054a
तथा चेदं ददाम्यद्य नियमेन सुतोषितः । 054c
विशेषं तव कल्याणि प्रयच्छामि वरं वरे ॥ 054e
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना । 055a
तस्य चाहं प्रभावेन तव कल्याणि तेजसा । 055c
प्रवक्ष्यामि परं भूयो वरमत्र यथाविधि ॥ 055e
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः । 056a
सस्नात्वा प्राप्स्यते लोकान्देहन्यासात्सुदुर्लभान् ॥ 056c
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् । 057a
श्रुतावतीं ततः पुण्यां जगाम त्रिदिवं पुनः ॥ 057c
गते वज्रधरे राजंस्तत्र वर्षं पपात ह । 058a
पुष्पाणां भरतश्रेष्ठ दिव्यानां पुण्यगन्धिनाम् ॥ 058c
देवदुन्दुभयश्चापि नेदुस्तत्र महास्वनाः । 059a
मारुतश्च ववौ पुण्यः पुण्यगन्धो विशाम्पते ॥ 059c
उत्सृज्य तु शुभा देहं जगामास्य च भार्यताम् । 060a
तपसोग्रेण तं लब्ध्वा तेन रेमे सहाच्युत ॥ 060c
जनमेजय उवाच । 061
का तस्या भगवन्माता क्व संवृद्धा च शोभना । 061a
श्रोतुमिच्छाम्यहं विप्र परं कौतूहलं हि मे ॥ 061c
वैशम्पायन उवाच । 062
भरद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः । 062a
दृष्ट्वाऽप्सरसमायान्तीं घृताचीं पृथलोचनाम् ॥ 062c
स तु जग्राह तद्रेतः करेण जपतां वरः । 063a
तदाऽपतत्पर्णपुटे तत्र सा सम्भवत्सुता ॥ 063c
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः । 064a
नाम चास्याः स कृतवान्भरद्वाजो महामुनिः ॥ 064c
श्रुतावतीति धर्मात्मा देवर्षिगणसंसदि । 065a
स्वे च तामाश्रमे न्यस्य जगाम हिमवद्वनम् ॥ 065c
तत्राप्युपस्पृश्य महानुभावो वसूनि दत्त्वा च महाद्विजेभ्यः । 066a
जगाम तीर्थं सुसमाहितात्माशक्रस्य वृष्णिप्रवरस्तदानीम् ॥ ॥ 066c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥
9-49-23 उपावर्तयत अग्रेऽग्रे प्रसारितवती ॥ 9-49-26 तच्चास्या वचनं नित्यमवर्तद्धृदि भारत इति झ.पाठः ॥