अध्यायः 048

देवैर्वरुणस्य जलाधिपत्येऽभिषेचनम् ॥ 1 ॥ बलभद्रस्याग्नितीर्थकौबेरतीर्थगमनं तन्महिमानुवर्णनं च ॥ 2 ॥

जनमेजय उवाच । 001
अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः । 001a
अभिषेकं कुमारस्य विस्तरेण यथाविधि ॥ 001c
यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन । 002a
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम ॥ 002c
अभिषेकं कुमारस्य दैत्यानां च वधं तथा । 003a
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे ॥ 003c
अपाम्पतिः कथं ह्यस्मिन्नभिषिक्तः पुरा सुरैः । 004a
तन्मे ब्रूहि महाप्रज्ञ कुशलो ह्यसि सत्तम ॥ 004c
वैशम्पायन उवाच । 005
शृणु राजन्निदं चित्रं पूर्वकाले यथाऽभवत् ॥ 005ac
आदौ कृतयुगे राजन्वर्तमाने यथाविधि । 006a
वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् ॥ 006c
यथाऽस्मान्सुरराट् शक्रो भयेभ्यः पाति सर्वदा । 007a
तथा त्वमपि सर्वासां सरितां वै पतिर्भव ॥ 007c
वासश्च ते सदा देव सागरे मकरालये । 008a
समुद्रोऽयं तव वशे भविष्यति नदीपतिः ॥ 008c
सोमेन सार्धं च तव हानिवृद्वी भविष्यतः । 009a
एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत् ॥ 009c
समागम्य ततः सर्वे वरुणं सागरालयम् । 010a
अपाम्पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा ॥ 010c
अभिषिच्य ततो देवा वरुणं यादसाम्पतिम् । 011a
जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम् ॥ 011c
अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः । 012a
सरितः सागरांश्चैव नदांश्चापि सरांसि च । 012c
पालयामास विधिना यथा देवाञ्शतक्रतुः ॥ 012e
ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु । 013a
अग्नितीर्थं महाप्राज्ञो जगामाथ प्रलम्बहा । 013c
नष्टो न दृश्यते यत्र शमीगर्भे दुताशनः ॥ 013e
लोकालोकविनाशे च प्रादुर्भूते तदाऽनघ । 014a
उपतस्थुः सुरा यत्र सर्वलोकपितामहम् ॥ 014c
अग्निः प्रनष्टो भगवान्कारणं च न विद्महे । 015a
सर्वभूतक्षयो राजन्सम्पादय विभोऽनलम् ॥ 015c
जनमेजय उवाच । 016
किमर्थं भगवानग्निः प्रनष्टो लोकभावनाः । 016a
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः ॥ 016c
वैशम्पायन उवाच । 017
भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् । 017a
शमीगर्भमथासाद्य ननाश भगवांस्ततः ॥ 017c
प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः । 018a
अन्वैषन्त तदा नष्टं ज्वलनं भृशदुःखिताः ॥ 018c
ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि । 019a
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि ॥ 019c
देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः । 020a
ज्वलनं तं समासाद्य प्रीताऽभूवन्सवासवाः ॥ 020c
पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् । 021a
भृगोः शापान्महाभाग यदुक्तं ब्रह्मवादिना ॥ 021c
तत्राप्याप्लुत्य मतिमान्ब्रह्मशापान्मुमोच ह ॥ 022ac
तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा । 023a
ससर्ज चान्नानि तथा देवतानां यथाविधि ॥ 023c
तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च । 024a
कौबेरं प्रययौ तीर्थं यत्र तप्त्वा महत्तपः ॥ 024c
धनाधिपत्यं सम्प्राप्तो राजन्नैलबिलः प्रभुः ॥ 025ac
तत्रस्थमेव तं राजन्धनानि निधयस्तथा । 026a
उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली बलः ॥ 026c
गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ । 027a
ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे ॥ 027c
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना । 028a
यक्षराज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः ॥ 028c
धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा । 029a
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् ॥ 029c
यत्र लेभे महाबाहो धनाधिपतिरञ्जसा । 030a
अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः ॥ 030c
वाहनं चास्य तद्दत्तं हंसयुक्तं मनोजवम् । 031a
विमानं पुष्पकं दिव्यं नैर्ऋतैश्वर्यमेव च ॥ 031c
तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान् । 032a
जगाम त्वरितो रामस्तीर्थं स्वेतानुलेपनः ॥ 032c
निषेवितं सर्वसत्वैर्नाम्ना बदरपाचनम् । 033a
नानर्तुकवनोपेतं सदा पुष्पफलं शुभम् ॥ ॥ 033c

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

9-16-25 ऐलबिलः कुबेरः ॥