अध्यायः 047

कुमारमातृगणस्य नामकीर्तनम् ॥ 1 ॥ कुमारेण तारकासुरवधः क्रौञ्चपर्वतभेदनं च ॥ 2 ॥

वैशम्पायन उवाच । 001
शृणु मातृगणान्राजन्कुमारानुचरानिमान् । 001a
कीर्त्यमानान्मया वीर सपत्नगणसूदनान् ॥ 001c
यशस्विनीनां मातॄणां शृणु नामानि भारत 002a
याभिर्व्याप्तास्त्रयोलोकाः कल्याणीभिश्च भागशः ॥ 002c
प्रभावती विशालाक्षी पालिता गोस्तनी तथा । 003a
श्रीमती बहुला चैव तथैव बहुपुत्रिका ॥ 003c
अप्सुजाता च गोपाली बृहदम्बालिका तथा । 004a
जयावती मालतिका ध्रुवरत्ना भयङ्करी ॥ 004c
वसुदामा च दामा च विशोका नन्दिनी तथा । 005a
एकचूडा महाचूडा चक्रनेमिश्च भारत ॥ 005c
उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना । 006a
शत्रुञ्जया तथा चैव क्रोधना शलभी खरी ॥ 006c
माधवी शुभवक्त्रा च तीर्थसेनिश्च भारत । 007a
गीतप्रिया च कल्याणी रुद्ररोमाऽमिताशना ॥ 007c
मेघस्वना भोगवती सुभ्रूश्च कनकावती । 008a
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत ॥ 008c
पद्मावती सुनक्षत्रा कन्दरा बहुयोजना । 009a
सन्तानिका च कौरव्य कमला च महाबला ॥ 009c
सुदामा बहुदामा च सुप्रभा च यशस्विनी । 010a
नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला ॥ 010c
शतघण्टा शतानन्दा भगनन्दा च भाविनी । 011a
वपुष्मती चन्द्रशीता भद्रकाली च भारत ॥ 011c
ऋक्षाम्बिका निष्कुटिका वामा चत्वरवासिनी । 012a
सुमङ्गला स्वस्तिमती बुद्धिकामा जयप्रिया ॥ 012c
धनदा सुप्रसादा च भवदा च जलेश्वरी । 013a
एडी भेडी समेडी च वेतालजननी तथा ॥ 013c
कण्डूतिः कालिका चैव देवमित्रा च भारत । 014a
वसुश्रीः कोटरा चैव चित्रसेना तथाऽचला ॥ 014c
कुक्कुटिका शङ्खलिका तथा शकुनिका नृप । 015a
कुण्डारिका कौकुलिका कुम्भिकाऽथ शतोदरी ॥ 015c
उत्क्राथिनी जलेला च महावेगा च कङ्कणा । 016a
मनोजवा कण्टकिनी प्रघसा पूतना तथा ॥ 016c
केशयन्त्री त्रुटिर्वामा क्रोशनाऽथ तडित्प्रभा । 017a
मन्दोदरी च मुण्डी च कोटरा मेघवाहिनी ॥ 017c
सुभगा लम्बिनी लम्बा ताम्रचूडा विकाशिनी । 018a
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला ॥ 018c
पृथुवस्त्रा मधुलिका मधुकुम्भा तथैव च । 019a
पक्षालिका मत्कुलिका जरायुर्जर्जरानना ॥ 019c
ख्याता दहदहा चैव तथा धमधमा नृप । 020a
खण्डखण्डा च राजेन्द्र पूषणा मणिकुट्टिका ॥ 020c
अमोघा चैव कौरव्य तथा लम्बपयोधरा । 021a
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला ॥ 021c
शशोलूकमुखी कृष्णा खरजङ्घा महाजवा । 022a
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा ॥ 022c
जटालिका कामचरी दीर्घजिह्वा बलोत्कटा । 023a
कालेहिका वामनिका मुकुटा चैव भारत ॥ 023c
लोहिताक्षी महाकाया हरिपिण्डा च भूमिप । 024a
एकत्वचा सुकुसुमा कृष्णकर्णी च भारत ॥ 024c
क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा । 025a
चतुष्पथनिकेता च गोकर्णी महिषानना ॥ 025c
खरकर्णी महाकर्णी भेरीस्वनमहास्वना । 026a
शङ्खकुम्भश्रवाश्चैव भगदा च महाबला ॥ 026c
गणा च सुगणा चैव तथा भीत्यथ कामदा । 027a
चतुष्पथरता चैव भूतितीर्थान्यगोचरी ॥ 027c
पशुदा वित्तदा चैव सुखदा च महायशाः । 028a
पयोदा गोमहिषदा सविशाला च भारत ॥ 028c
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना । 029a
नौकर्णी मुखकर्णी च विशिरा मन्थिनी तथा ॥ 029c
एकचन्द्रा मेघकर्णा मेघमाला विरोचना । 030a
एताश्चान्याश्च बहवो मातरो भरतर्षभ ॥ 030c
कार्तिकेयानुयायिन्यो नानारूपाः सहस्रशः । 031a
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश्च भारत ॥ 031c
सबला मधुराश्चैव यौवनस्थाः स्वलङ्कृताः । 032a
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा ॥ 032c
निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसन्निभाः । 033a
कृष्णमेघनिभाश्चान्या धूम्नाश्च भरतर्षभ ॥ 033c
अरुणाभा महाभोगा दीर्घकेश्यः सिताम्बराः । 034a
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः ॥ 034c
लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः । 035a
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथाऽपराः ॥ 035c
वरदाः कामचारिण्यो नित्यं प्रमुदितास्तथा । 036a
याम्या रौद्रास्तथा सौम्याः कौबेर्योऽथ महाबलाः ॥ 036c
वारुण्योऽथ च माहेन्द्र्यस्तथाऽऽग्नेय्यः परन्तप । 037a
वायव्यश्चाथ कौमार्यो ब्राह्मश्च भरतर्षभ ॥ 037c
वैष्णव्यश्च तथा सौर्यो वाराह्यश्च महाबलाः । 038a
रूपेणाप्सरसां तुल्या मनोहार्यो मनोरमाः ॥ 038c
परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः । 039a
शक्रवीर्योपमा युद्धे दीप्ता वह्निसमास्तथा ॥ 039c
शत्रूणां विग्रहे नित्यं भयदास्ता भवन्त्युत । 040a
कामरूपधराश्चैव जवे वायुसमास्तथा ॥ 040c
अचिन्त्यबलवीर्याश्च तथाऽचिन्त्यपराक्रमाः । 041a
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः ॥ 041c
गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः । 042a
नानाभरणधारिण्यो नानामाल्याम्बरास्तथा ॥ 042c
नानाविचित्रवेषाश्च नानाभाषास्तथैव च । 043a
एते चान्ये च मातॄणां गणाः शत्रुभयङ्कराः ॥ 043c
अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य सम्मते । 044a
ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः ॥ 044c
गुहाय राजशार्दूल विनाशाय सुरद्विषाम् । 045a
महास्वनां महाघण्टां द्योतमानां सितप्रभाम् ॥ 045c
अरुणादित्यवर्णां च पताकां भरतर्षभ । 046a
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् ॥ 046c
उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् । 047a
अजेयां स्वगणैर्युक्तां नाम्ना सेनां धनञ्जयाम् ॥ 047c
रुद्रतुल्यबलैर्युक्तां योधानामयुतैस्त्रिभिः । 048a
न सा विजानाति रणात्कदाचिद्विनिवर्तितुम् ॥ 048c
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम् । 049a
उमा ददौ विरजसी वाससी रविसप्रभे ॥ 049c
गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम् । 050a
ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः ॥ 050c
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् । 051a
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् ॥ 051c
छागं तु वरुणो राजा बलवीर्यसमन्वितम् । 052a
कृष्णाजिनं ततो ब्रह्मा ब्रह्मण्याय ददौ प्रभुः । 052c
समरेषु जयं चैव प्रददौ लोकभावनः ॥ 052e
सैनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह । 053a
शुशुभे ज्वलितोर्चिष्मान्द्वितीय इव पावकः ॥ 053c
ततः पारिषदैश्चैव मातृभिश्च समन्वितः । 054a
ययौ दैत्यविनाशाय ह्लादयन्सुरपुङ्गवान् ॥ 054c
सा सेना नैर्ऋती भीमा सघण्टोच्छ्रितकेतना । 055a
सभेरीशङ्खमुरजा सायुधा सपताकिनी ॥ 055c
शारदी द्यौरिवाभाति ज्योतिर्भिरिव शोभिता ॥ 056ac
ततो देवनिकायास्ते नानाभूतगणास्तथा । 057a
वादयामासुरव्याग्रा भेरीः शङ्खांश्च पुष्कलान् ॥ 057c
पटहान्झर्झरांश्चैव क्रकचान्गोविषाणिकान् । 058a
आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् ॥ 058c
तुष्टुवुस्ते कुमारं तु सर्वे देवाः सवासवाः । 059a
जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥ 059c
ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ । 060a
रिपून्दन्ताऽस्मि समरे ये वो वधचिकीर्षवः ॥ 060c
प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात् । 061a
प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् ॥ 061c
सर्वेषां भूतसङ्घानां हर्षान्नादः समुत्थितः । 062a
अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना ॥ 062c
स निर्ययौ महासेनो महत्या सेनया वृतः । 063a
वधाय युधि दैत्यानां रक्षार्थं च दिवोकसाम् ॥ 063c
व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः । 064a
महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप ॥ 064c
स तया भीमया देवः शुलमुद्गरहस्तया । 065a
ज्वलितालातधारिण्या चित्राभरणवर्मया ॥ 065c
गदामुसलनाराचशक्तितोमरहरतया । 066a
दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः ॥ 066c
'तं दष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा । 067a
व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः ॥ 067c
अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः । 068a
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः ॥ 068c
शक्त्यस्त्रं भगवान्भीमं पुनःपुनरवाकिरत् । 069a
आदधच्चात्मनस्तेजो हविषेद्ध इवानलः ॥ 069c
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा । 070a
उल्काज्वाला महाराज पपात वसुधातले ॥ 070c
संह्रादयन्तश्च तथा निर्घाताश्चापतन्क्षितौ । 071a
यथान्तकालसमये सुघोराः स्युस्तथा नृप ॥ 071c
क्षिप्ता ह्येका यदा शक्तिः सुघोराऽनलसूनुना । 072a
ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ ॥ 072c
ततः प्रीतो महासेनो जघान भगवान्प्रभुः । 073a
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् ॥ 073c
वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप । 074a
महिषं चाष्टभिः पद्मैर्वृतं सङ्ख्ये निजघ्निवान् ॥ 074c
त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् । 075a
ह्रदोदरं निखर्वैश्च वृतं दशभिरीश्वरः ॥ 075c
जघानानुचरैः सार्धं विविधायुधपाणिभिः । 076a
तथाऽकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु ॥ 076c
कुमारानुचरा राजन्पूरयन्तो दिशो दश । 077a
ननृतुश्च ववल्गुश्च जहसुश्च मुदान्विताः ॥ 077c
शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः । 078a
त्रैलोक्यं त्रासितं सर्वं जृम्भमाणाभिरेव च ॥ 078c
दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे । 079a
पताकयावधूताश्च हताः केचित्सुरद्विषः ॥ 079c
केचिद्धण्टारवत्रस्ता निषेदुर्वसुधातले । 080a
केचित्प्रहरणैश्छिन्ना विनिष्पेतुर्गतायुषः ॥ 080c
एवं सुरद्विषोऽनेकान्बलवानाततायिनः । 081a
जघान समरे वीरः कार्तिकेयो महाबलः ॥ 081c
बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः । 082a
क्रौञ्चं पर्वतमाश्रित्य देवसङ्घानबाधत ॥ 082c
तमभ्ययान्महासेनः सुरशत्रुमुदारधीः । 083a
स कार्तिकेयस्य भयात्क्रौञ्चं शरणमीयिवान् ॥ 083c
ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् । 084a
शक्त्या बिभेद भगवान्कार्तिकेयोऽग्निदत्तया ॥ 084c
ससालस्कन्धशबलं त्रस्तवानरवारणम् । 085a
प्रोड्डीनोद्भ्रान्तविहगं विनिष्पतितपन्नगम् ॥ 085c
गोलाङ्गूलर्क्षसङ्घैश्च द्रवद्भिरनुनादितम् । 086a
कुरङ्गमविनिर्घोषनिनादितवनान्तरम् ॥ 086c
विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः । 087a
शोच्यामपि दशां प्राप्तो रराजेव सपर्वतः ॥ 087c
विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः । 088a
किन्नराश्च समुद्विग्नाः शक्तिपातरवोद्धताः ॥ 088c
ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः । 089a
प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः ॥ 089c
तान्निजघ्नुरतिक्रम्य कुमाराजुचरा मृधे । 090a
स चैव भगवान्क्रुद्धो दैत्येन्द्रस्य सुतं तदा ॥ 090c
सहानुजं जघानाशु वृत्रं देवपतिर्यथा । 091a
बिभेद क्रौञ्चं शक्त्या च पावकिः परवीरहा ॥ 091c
बहुधा चैकधा चैव कृत्वाऽऽत्मानं महाबलः । 092a
शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः ॥ 092c
एवम्प्रभावो भगवांस्ते भूयश्च पावकिः । 093a
शौर्याद्द्विगुणयोगेन तेजसा यशसा श्रिया ॥ 093c
क्रौञ्चस्ते विनिर्भिन्नो दैत्याश्च शतशो हताः ॥ 094ac
ततः स भगवान्देवो निहत्य विबुधद्विषः । 095a
सभाज्यमानो विबुधैः परं हर्षमवाप ह ॥ 095c
ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत । 096a
मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम् । 096c
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ॥ 096e
दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः । 097a
गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः ॥ 097c
केचिदेनं व्यवस्यन्ति पितामहसुतं प्रभुम् । 098a
सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् ॥ 098c
केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः । 099a
उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत ॥ 099c
एकधा च द्विधा चैव चतुर्धा च महाबलम् । 100a
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ॥ 100c
एतत्ते कथितं राजन्कार्तिकेयाभिषेचनम् । 101a
शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् ॥ 101c
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु । 102a
कुमारेण महाराज त्रिविष्टपमिवापरम् ॥ 102c
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक् । 103a
ददौ नैर्ऋतमुख्येभ्यस्त्रैलोक्यं पावकात्मजः ॥ 103c
एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः । 104a
अभिषिक्तो महाराज देवसेनापतिः सुरैः ॥ 104c
औशनं नाम तत्तीर्थं यत्र पूर्वमपाम्पतिः । 105a
अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ ॥ 105c
अस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली । 106a
ब्राह्मणेभ्योददौ रुक्मं वासांस्याभरणानि च ॥ 106c
उषित्वा रजनीं तत्र माधवः परवीरहा । 107a
पूज्यतीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली ॥ 107c
हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः । 108a
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ 108c
यथाऽभिषिक्तो भगवान्स्कन्दो देवैः समागतैः । 109a
'सेनानीश्च कृतो राजन्बाल एव महाबलः' ॥ ॥ 109c

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥