अध्यायः 046
बृहस्पत्यादिभिः स्कन्दस्य सैनापत्येऽभिषेचनम् ॥ 1 ॥ ब्रह्मादिभिः स्कन्दाय स्वस्वपारिषदानां दानम् ॥ 2 ॥
वैशम्पायन उवाच । 001
ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः । 001a
बृहस्पतिः समिद्धेऽग्नौ जुहावाग्निं यथाविधि ॥ 001c
ततो हिमवता दत्ते मणिप्रवरशोभिते । 002a
दिव्यरत्नाचिते पुण्ये निषण्णं परमासने ॥ 002c
सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् । 003a
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥ 003c
इन्द्राविष्णू महावीर्यौ सूर्योचन्द्रमसौ तथा । 004a
धाता चैव विधाता च तथा चैवानिलानलौ ॥ 004c
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता । 005a
रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च ॥ 005c
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः । 006a
विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥ 006c
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः । 007a
देवर्षिभिरसङ्ख्यातैस्तथा ब्रह्मर्षिभिस्तथा ॥ 007c
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिषैः । 008a
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः ॥ 008c
सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः । 009a
पितामहः पुलस्त्यश्च पुलहश्च महातपाः ॥ 009c
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च । 010a
क्रतुर्हरिः प्रचेताश्च मनुर्दक्षस्तथैव च ॥ 010c
ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशाम्पते । 011a
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः ॥ 011c
समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च । 012a
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप ॥ 012c
अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती । 013a
उमा शची सिनीवाली तथैवानुमतिः कुहूः ॥ 013c
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् । 014a
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् ॥ 014c
ऐरावतः सानुचरः कलाः काष्ठास्तथैव च । 015a
मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप ॥ 015c
उच्चैः श्रवा हयश्रेष्ठो नागराजश्च वासुकिः । 016a
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ॥ 016c
धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः । 017a
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥ 017c
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः । 018a
ते कुमाराभिषेकार्षं समाजग्मुस्ततस्ततः ॥ 018c
जगृहुस्ते तदा राजन्सर्वं एव दिवौकसः । 019a
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः ॥ 019c
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप । 020a
सारस्वताभिः पुण्याभिरद्भिस्ताभिरलङ्कृतम् ॥ 020c
अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः । 021a
सैनापत्ये महात्मानमसुराणां भयङ्करम् ॥ 021c
पुरा यथा महाराज वरुणं वै जलेश्वरम् । 022a
तथाऽभ्यषिञ्चद्भगवान्सर्वलोकपितामहः ॥ 022c
कश्यपश्च महातेजा ये चान्ये लोककीर्तिताः । 023a
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः ॥ 023c
कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः । 024a
नन्दिसेनं लोहिताक्षं घण्टाकार्णं च सम्मतम् ॥ 024c
चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् । 025a
तत्र स्थाणुर्महातेजा महापारिषदं प्रभुः ॥ 025c
मायाशतधरं कामं कामवीर्यबलान्वितम् । 026a
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् ॥ 026c
सहि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् । 027a
जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश ॥ 027c
तथा देवा ददुस्तस्मै सेनां नैर्ऋतसङ्कुलाम् । 028a
देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् ॥ 028c
जयशब्दं तथा चक्रुर्देवाः सर्वे सवासवाः । 029a
गन्धर्वा यक्षरक्षांसि मुनयः पितरस्तथा ॥ 029c
ततः प्रादादनुचरौ यमः कालोपमावुभौ । 030a
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती ॥ 030c
सुभ्राजो भास्वरश्चैव यौ तौ सूर्यानुयायिनौ । 031a
तौ सूर्यः कार्तिकेयाय ददौ प्रीतः प्रतापवान् ॥ 031c
कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ । 032a
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च ॥ 032c
ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः । 033a
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ ॥ 033c
परिघं च वटं चैव भीमं च सुमहाबलम् । 034a
दहतिं दहनं चैव प्रचण्डौ वीर्यसम्मतौ ॥ 034c
अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते । 035a
उत्क्रोशं सत्करं चैव वज्रदण्डधरावुभौ ॥ 035c
ददावनलपुत्राय वासवः परवीरहा । 036a
तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून् ॥ 036c
चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम् । 037a
स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः ॥ 037c
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ । 038a
स्कन्दाय ददतुः प्रीतावश्विनौ भिषजां वरौ ॥ 038c
कुन्दं च कुसुमं चैव कुमुदं च महायशाः । 039a
डम्बराडम्बरौ चैव ददौ धाता महात्मने ॥ 039c
वक्रानुवक्रौ बलिनौ मेषवक्रौ बलोत्कटौ । 040a
ददौ त्वष्टा महामायौ स्कन्दायानुचरावुभौ ॥ 040c
सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने । 041a
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः ॥ 041c
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ । 042a
सुव्रतं च महात्मानं शुभकर्माणमेव च ॥ 042c
कार्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ । 043a
पाणीतकं कालिकं च महामायाविनावुभौ ॥ 043c
पूषा च पार्षदौ प्रादात्कार्तिकेयाय भारत । 044a
बलं चातिबलं चैव महावक्त्रौ महाबलौ ॥ 044c
प्रददौ कार्तिकेयाय वायुर्भरतसत्तम । 045a
यमं चातियमं चैव तिमिवक्रौ महाबलौ ॥ 045c
प्रददौ कार्तिकेयाय वरुणः सत्यसङ्गरः । 046a
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम् ॥ 046c
हिमवान्प्रददौ राजन्हुताशनसुताय वै । 047a
काञ्चनं च महात्मानं मेघमालिनमेव च ॥ 047c
ददावनुचरौ मेरुरग्निपुत्राय भारत । 048a
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ ॥ 048c
महात्मा त्वग्निपुत्राय महाबलपराक्रमौ । 049a
उच्छृङ्गं चातिशृङ्गं च महापाषाणयोधिनौ ॥ 049c
प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ । 050a
सङ्ग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ ॥ 050c
प्रददावग्निपुत्राय महापारिषदावुभौ । 051a
उन्मादं शङ्कुकर्णं च पुष्पदन्तं तथैव च ॥ 051c
प्रददावग्निपुत्राय पार्वती शुभदर्शना । 052a
जयं महाजयं चैव गङ्गा ज्वलनसूनवे ॥ 052c
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः । 053a
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा ॥ 053c
सागराः सरितश्चैव गिरयश्च महाबलाः । 054a
ददुः सेनागणाध्यक्षाञ्शूलपट्टसधारिणः ॥ 054c
दिव्यप्रहरणोपेतान्नानावेषविभूषितान् । 055a
शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः ॥ 055c
विविधायुधसम्पन्नाश्चित्राभरणभूषिताः । 056a
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च ॥ 056c
अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ । 057a
घ्राणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः ॥ 057c
अक्षः सन्तर्जनो राजन्कुनदीकस्तमोन्तकृत् । 058a
एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः ॥ 058c
सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः । 059a
पुण्यनामा सुनामा च सुचक्रः प्रियदर्शनः ॥ 059c
परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः । 060a
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः ॥ 060c
ज्वालाजिह्वः करालाक्षः शितिकेशो जटी हरिः । 061a
परिश्रुतः कोकनदः कृष्णकेशो जटाधरः ॥ 061c
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः । 062a
विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः ॥ 062c
उदाराक्षो रथाक्षश्च वज्रनाभो वसुप्रभः । 063a
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च ॥ 063c
वृषो मेषः प्रवाहश्च तथा नन्दोपनन्दकौ । 064a
धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा ॥ 064c
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतपवान् । 065a
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ॥ 065c
क्षेमवाहः सुवाहश्च सिद्धपात्रश्च भारत । 066a
गोव्रजः कनकापीडो महापारिषदेश्वरः ॥ 066c
गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान् । 067a
वैताली गतिताली च तथा कथकवातिकौ ॥ 067c
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह । 068a
रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दनः ॥ 068c
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोदरः । 069a
कालकक्षः सितश्चैव भूतानां मथनस्तथा ॥ 069c
यज्ञवाहः सुवाहश्च देवयाजी च सोमपः । 070a
मज्जानश्च महातेजाः क्रथक्राथौ च भारत ॥ 070c
तुहरश्च तुहारश्च चित्रदेवश्च वीर्यवान् । 071a
मधुरः सुप्रसादश्च किरीटी च महाबलः ॥ 071c
वत्सलो मधुवर्णश्च कलशोदर एव च । 072a
धर्मदो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् ॥ 072c
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः । 073a
दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ॥ 073c
अचलः कनकाक्षश्च बालानामपि यः प्रभुः । 074a
सञ्चारकः कोकनदो गृध्रपत्रश्च जम्बुकः ॥ 074c
लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः । 075a
स्वर्णग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभः ॥ 075c
पाणिकूर्चाश्च शम्बूकः पञ्चवक्त्रश्च शिक्षकः । 076a
चाषवक्त्रक्ष जम्बूकः शाकवक्त्रश्च कुञ्जलः ॥ 076c
योगयोक्ता महात्मानः सततं ब्राह्मणप्रियाः । 077a
पैतामहा महात्मानो महापारिषदाश्च ये ॥ 077c
यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय । 078a
सहस्रशः पारिषदाः कुमारमुपतस्थिरे ॥ 078c
वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्चनमेजय । 079a
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ॥ 079c
खरोष्ट्रवदनाश्चान्ये वराहवदनास्तथा । 080a
मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत ॥ 080c
नकुलोलूकवक्त्राश्च काकवक्त्रास्तथा परे । 081a
आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा ॥ 081c
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः । 082a
ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा ॥ 082c
भीमा गजाननाश्चैव तथा नक्रमुखाश्च ये । 083a
गरुडाननाः कङ्कमुखा वृककाकमुखास्तथा ॥ 083c
गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा । 084a
महाजठरपादाङ्गास्तारकाक्षाश्च भारत ॥ 084c
पारावतमुखाश्चान्ये तथा वृषमुखाः परे । 085a
कोकिलाभाननाश्चान्ये श्येनतित्तिरिकाननाः ॥ 085c
कृकलासमुखाश्चैव विरजोम्बरधारिणः । 086a
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शुभाननाः ॥ 086c
आशीविषाश्चीरधरा गोनासावदनास्तथा । 087a
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः ॥ 087c
ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषणाः । 088a
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ॥ 088c
स्कन्धेमुखा महाराज तथाप्युदरतोमुखाः । 089a
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि ॥ 089c
पार्श्वाननाश्च बहवो नानादेशमुखास्तथा । 090a
तथा कीटपतङ्गानां सदृशास्या गणेश्वराः ॥ 090c
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः । 091a
नानावृक्षभुजाः केचित्कटिशीर्षास्तथा परे ॥ 091c
भुजङ्गभोगवदना नानागुल्मनिवासिनः । 092a
चीरसंवृतगात्राश्च नानाकनकवाससः ॥ 092c
नानावेषधराश्चैव नानामाल्यानुलेपनाः । 093a
नानावस्त्रधराश्चैव चर्मवासस एव च ॥ 093c
उष्णीषिणो मुकुटिनः सुग्रीवाश्च सुवर्चसः । 094a
किरीटिनः पञ्चशिखास्तथा काञ्चनमूर्धजाः ॥ 094c
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे । 095a
शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा ॥ 095c
चित्रमालाधराः केचित्केचिद्रोमाननास्तथा । 096a
विग्रहैकरसा नित्यमजेताः सुरसत्तमैः ॥ 096c
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठास्तनूदराः । 097a
स्थूलपृष्ठा हस्वपृष्ठाः प्रलम्बोदरमेहनाः ॥ 097c
महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः । 098a
कुब्जाश्च ह्रस्वजङ्घाश्च हस्तिकर्णशिरोधराः ॥ 098c
हस्तिनासाः कूर्मनासा वृकनासास्तथा परे । 099a
दीर्घोच्छ्वासा दीर्घजङ्घा विकराला ह्यधोमुखाः ॥ 099c
महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथा परे । 100a
वारणेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः ॥ 100c
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः । 101a
पिङ्गाक्षाः शङ्कुकर्णाश्च रक्तनासाश्च भारत ॥ 101c
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः । 102a
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः ॥ 102c
नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत । 103a
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः ॥ 103c
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा । 104a
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः ॥ 104c
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत । 105a
वृकोदरनिभाश्चैव केचिदञ्जनसन्निभाः ॥ 105c
श्वेताक्षा लोहितग्रीवाः पिङ्गाक्षाश्च तथा परे । 106a
कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत ॥ 106c
चामरापीडकनिभाः श्वेतलोहितराजयः । 107a
नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः ॥ 107c
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु । 108a
शेषैः कृतः पारिषदैरायुधानां परिग्रहः ॥ 108c
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः । 109a
पृष्ठाक्षा नीलकण्ठाश्च तथा परिघबाहवः ॥ 109c
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः । 110a
असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत ॥ 110c
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः । 111a
आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः ॥ 111c
महाबला महावेगा महापारिषदास्तथा । 112a
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः ॥ 112c
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः । 113a
एते चान्ये च बहवो महापारिषदा नृप ॥ 113c
उपतस्थुर्महात्मानं कार्तिकेयं यशस्विनम् । 114a
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः ॥ 114c
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराऽभवन् । 115a
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च । 115c
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे ॥ ॥ 115e
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥
9-46-13 नागराजश्च वामन इति ख.पाठः ॥ 9-46-45 घसं त्वातिघसं चैवेति ख.पाठः ॥