अध्यायः 044
विश्वामित्रशापाद्रुधिरजलायाः सरस्वत्या ऋषिभिस्तपसा शोधनम् ॥ 1 ॥ इन्द्रेण सरस्वत्यरुणासङ्गमे यजनादिना ब्रह्महत्यापरिहरणम् ॥ 2 ॥ बलरामस्य तत्र स्नानादिपूर्वकं तस्मात्सोमतीर्थगमनम् ॥ 3 ॥
वैशम्पायन उवाच । 001
स शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता । 001a
तस्मिंस्तीर्थवरे शुभ्रं शोणितं समुपावहत् ॥ 001c
अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत । 002a
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते ॥ 002c
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः । 003a
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ॥ 003c
कस्यचित्त्वथ कालस्य ऋषयः सुतपोधनाः । 004a
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते ॥ 004c
तेषु सर्वेषु तीर्थेषु स्वाप्लुत्य मुनिपुङ्गवाः । 005a
प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः ॥ 005c
प्रययुर्हि ततो राजन्येन तीर्थमसृग्वहम् । 006a
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा ॥ 006c
दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् । 007a
पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम ॥ 007c
तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः । 008a
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ॥ 008c
ते तु सर्वे महाभागाः समागम्य महाव्रताः । 009a
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् ॥ 009c
कारणं ब्रूहि कल्याणि किमर्थं ते हृदो ह्ययम् । 010a
एवमग्राह्यतां यातः श्रुत्वाऽध्यास्यामहे वयम् ॥ 010c
ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती । 011a
दुःखितामथ तां दृष्ट्वा ऊचुस्ते वै तपोधनाः ॥ 011c
कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे । 012a
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः ॥ 012c
एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम् । 013a
विमोचयामहे सर्वे शापादेतां सरस्वतीम् ॥ 013c
ते सर्वे ब्राह्मणा राजंस्तपोभिर्नियमैस्तथा । 014a
उपवासैश्च विविधैर्यमैः कष्टव्रतैस्तथा ॥ 014c
आराध्य पशुभर्तारं महादेवं जगत्पतिम् । 015a
मोक्षयामासुस्तां देवीं सरिच्छ्रेष्ठां सरस्वतीम् ॥ 015c
तेषां तु सा प्रभावेण प्रकृतिस्था सरस्वती । 016a
प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि । 016c
निर्मुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा ॥ 016e
दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम् । 017a
तानेव शरणं जग्मू राक्षसाः क्षुधितास्तथा ॥ 017c
कृत्वाञ्जलिं ततो राजन्राक्षसाः क्षुधयाऽर्दिताः । 018a
ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनःपुनः ॥ 018c
वयं च क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात् । 019a
न च नः कामकारोऽयं यद्वयं पापकारिणा ॥ 019c
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा । 020a
पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः । 020c
योषितां चैव पापेन योनिदोषकृतेन च ॥ 020e
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च । 021a
ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः ॥ 021c
'शक्तिमन्तोऽपि ये केचिदाश्रितानां च रक्षणम् । 022a
न कुर्वन्ति मनुष्यास्ते सम्भवन्तीह राक्षसाः' ॥ 022c
आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा । 023a
प्रणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः ॥ 023c
तत्कुरुध्वमिहास्माकं तारणं द्विजसत्तमाः । 024a
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ॥ 024c
तेषां तु वचनं श्रुत्वा तुष्टुवुस्तां महानदीम् । 025a
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः ॥ 025c
ऋषय ऊचुः । 026
क्षुतं कीटावपन्नं च यच्चोच्छिष्टाचितं भवेत् । 026a
सकेशमवधूतं च रुदितोपहतं च यत् ॥ 026c
श्वभिः संसृष्टमन्नं च भागोऽसौ रक्षसामिह । 027a
तस्माज्ज्ञात्वा सदा विद्वानेतान्यत्नाद्विवर्जयेत् । 027c
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् ॥ 027e
शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः । 028a
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् ॥ 028c
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा । 029a
अरुणामानयामास स्वां तनुं पुरुषर्षभ ॥ 029c
तस्यान्तेराक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः । 030a
अरुणायां महाराज ब्रह्मवध्यापहा हि सा ॥ 030c
एतमर्थमभिज्ञाय देवराजः शतक्रतुः । 031a
तस्मिंस्तीर्थे वरे स्नात्वा विमुक्तः पाप्मना किल ॥ 031c
जनमेजय उवाच । 032
किमर्थं भगवाञ्शक्रो ब्रह्मवध्यामवाप्तवान् । 032a
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् ॥ 032c
वैशम्पायन उवाच । 033
शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर । 033a
यथा बिभेद समयं नमुचेर्वासवः पुरा ॥ 033c
जमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् । 034a
तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत् ॥ 034c
न चार्द्रेण न शुष्केण न रात्रौ नापि चाहनि । 035a
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे ॥ 035c
एवं स कृत्वा समयं दृष्ट्वा नीहारमीश्वरः । 036a
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः ॥ 036c
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वियात् । 037a
भोभो मित्रह पापेति ब्रुवाणं शक्रमन्तिकात् ॥ 037c
एवं स शिरसा तेन चोद्यमानः पुनः पुनः । 038a
पितामहाय सन्तप्त एतमर्थं न्यवेदयत् ॥ 038c
तमब्रवील्लोकगुरुररुणायां यथाविधि । 039a
इष्ट्वोपस्पृश देवेन्द्र तीर्थे पापभयापहे ॥ 039c
[एषा पुण्यजला शक्र कृता मुनिभिरेव तु । 040a
निगूढमस्यागमनमिहासीत्पूर्वमेव तु ॥ 040c
ततोऽभ्येत्यारुणां देवीं प्लावयामास वारिणा । 041a
सरस्वत्यारुणायाश्च पुण्योऽयं सङ्गमो महान् ॥ 041c
इह त्वं यज देवेन्द्र दद दानान्यनेकशः । 042a
अत्राप्लुत्य सुघोरात्त्वं पातकाद्विप्रमोक्ष्यसे ॥] 042c
इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय । 043a
इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत् ॥ 043c
स मुक्तः पाप्मना तेन ब्रह्मवध्याकृतेन च । 044a
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः ॥ 044c
शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत । 045a
लोकान्कामदुघात्प्राप्तमक्षयान्राजसत्तम ॥ 045c
वैशम्पायन उवाच । 046
तत्राप्युपस्पृश्य बलो महात्मा दत्त्वा च दानानि पृथग्विधानि । 046a
अवाप्य धर्मं परमार्यकर्मा जगाम सोमस्य महत्सुतीर्थम् ॥ 046c
यत्रायजद्राजसूयेन सोमः साक्षात्पुरा विधिवत्पार्थिवेन्द्र । 047a
अत्रिर्धीमान्ब्रह्मपुत्रो बभूव होता यस्मिन्क्रतुमुख्ये महात्मा ॥ 047c
यस्यान्तेऽभूत्सुमहद्दानवानां दैतेयानां राक्षसानां च देवैः । 048a
सङ्ग्रामो वै तारकाख्यः सुतीव्रो यत्र स्कन्दस्तारकाख्यं जघान ॥ 048c
सैनापत्यं लब्धवान्दैवतानां महासेनो यत्र दैत्यान्तकर्ता । 049a
साक्षाच्चैवं न्यवसत्कार्तिकेयः सदा कुमारो यत्र स प्लक्षराजः ॥ ॥ 049c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥
9-44-10 अध्यास्यामहे अध्यवसायं करिष्यामहे ॥ 9-44-49 सदा कुमारो यत्र नक्षत्रधर्मा इति क.पाठः । यत्र नक्षत्रकामः इति ङ.पाठः ॥