अध्यायः 043
वसिष्ठापवाहतीर्थस्य तन्नामप्राप्तिप्रकारकथनम् ॥ 1 ॥
जनमेजय उवाच । 001
वसिष्ठापवाहो ब्रह्मन्वै भीमवेगः कथं नु सः । 001a
किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ॥ 001c
कथमस्याभवद्वैरं कारणं किं च तत्प्रभो । 002a
शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यति ॥ 002c
वैशम्पायन उवाच । 003
विश्वामित्रस्य विप्रर्षेर्वसिष्ठस्य च भारत । 003a
भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत् ॥ 003c
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान् । 004a
पूर्वतः पार्श्वतश्चासीद्विश्वामित्रस्य धीमतः ॥ 004c
यत्र स्थाणुर्महाराज तप्तवान्परमं तपः । 005a
तत्रास्य कर्म तद्धोरं प्रवदन्ति मनीषिणः ॥ 005c
यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम् । 006a
स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो ॥ 006c
तत्र तीर्थे सुराः स्कन्दमभ्यषिञ्चन्नराधिप । 007a
सैनापत्येन महता सुरारिविनिबर्हणम् ॥ 007c
तस्मिन्सारस्वते तीर्थे विश्वामित्रो महामुनिः । 008a
वसिष्ठं चालयामास तपसोग्रेण तच्छृणु ॥ 008c
विश्वामित्रवसिष्ठौ तावहन्यहनि भारत । 009a
स्पर्धां तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ ॥ 009c
तत्राप्यधिकसन्तप्तो विश्वामित्रो महामुनिः । 010a
दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह ॥ 010c
तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत । 011a
इयं सरस्वती तूर्णं मत्समीपं तपोधनम् ॥ 011c
आनयिष्यति वेगेन वसिष्ठं जपतां वरम् । 012a
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः ॥ 012c
एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः । 013a
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः ॥ 013c
सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह । 014a
गत्वा चैनं महावीर्यं महाकोपं च भामिनी ॥ 014c
तदा तं वेपमानाङ्गी विवर्णा प्राञ्जलिर्भृशम् । 015a
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती ॥ 015c
हतवीरा यथा नारी साऽभवद्दुःखिता भृशम् । 016a
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम् ॥ 016c
तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय । 017a
यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी ॥ 017c
साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा । 018a
प्राकम्पत भृशं भीता वायुनेवाहता लता ॥ 018c
तथारूपां तु तां दृष्ट्वा मुनिराह महानदीम् । 019a
अविचारं वसिष्ठं त्वमानयस्त्वान्तिकं मम ॥ 019c
सा तस्य वचनं श्रुत्वा ज्ञात्वा पापं चिकीर्षितम् । 020a
वसिष्ठस्य प्रभावं च जानन्त्यप्रतिमं भुवि ॥ 020c
साऽभिगम्य वसिष्ठं च इदमर्थमचोदयत् । 021a
यदुक्ता सरितांश्रेष्ठा विश्वामित्रेण धीमता ॥ 021c
उभयोः शापयोर्भीता वेपमाना पुनःपुनः । 022a
चिन्तयित्वा महाशापमृषिवित्रासिता भृशम् ॥ 022c
तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम् । 023a
उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः ॥ 023c
पाह्यात्मानं सरिच्छेष्ठे वह मां शीघ्रगामिनी । 024a
विश्वामित्रः शपेद्धि त्वां मा कृथास्त्वं विचारणाम् ॥ 024c
तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित् । 025a
चिन्तयामास कौरव्य किं कृत्वा सुकृतं भवेत् ॥ 025c
तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि । 026a
कृतवान्हि दयां नित्यं तस्य कार्यं हितं मया ॥ 026c
अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम् । 027a
जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत् ॥ 027c
इदमन्तरमित्येवं ततः सा सरितां वरा । 028a
कूलापहारमकरोत्स्वेन वेगेन सा सरित् ॥ 028c
तेन कूलापहारेण मैत्रावरुणिरौह्यत । 029a
उह्यमानः स तुष्टाव तदा राजन्सरस्वतीम् ॥ 029c
पितामहस्य सरसः प्रवृत्ताऽसि सरस्वति । 030a
व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः ॥ 030c
त्वमेवाकाशगा देवि मेघेषु सृजसे पयः । 031a
सर्वाश्चापस्त्वमेवेति यथा वयमधीमहि ॥ 031c
पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्बुद्धिरमा तथा । 032a
त्वमेव वाणी स्वाहा त्वं तवायत्तमिदं जगत् । 032c
त्वमेव सर्वभूतेषु वससीह चतुर्विधा ॥ 032e
वैशम्पायन उवाच । 033
एवं सरस्वती राजन्स्तूयमाना महर्षिणा । 033a
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति ॥ 033c
न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम् ॥ 034ac
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः । 035a
अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा ॥ 035c
तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्मवध्याभयान्नदी । 036a
अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता । 036c
उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम् ॥ 036e
ततोपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् । 037a
अब्रवीत्त्वथ सङ्क्रुद्धो विश्वामित्रः सरस्वतीम् ॥ 037c
यस्मान्मां त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता । 038a
शोणितं वह कल्याणि राक्षसानां च सम्मतम् ॥ 038c
ततः सरस्वती शप्ता विश्वामित्रेण धीमता । 039a
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा ॥ 039c
अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा । 040a
सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः ॥ 040c
एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप । 041a
आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा ॥ ॥ 041c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥