अध्यायः 042
बलदेवस्यावाकीर्णतीर्थगमनम् ॥ 1 ॥ बकमुनिचरित्रकथनम् ॥ 2 ॥ बलदेवस्य ततो वसिष्ठापवाहतीर्थगमनम् ॥ 3 ॥
वैशम्पायन उवाच । 001
ब्रह्मयोनिभिराकीर्णं जगाम यदुनन्दनः । 001a
यत्र दाल्भ्यो बको राजन्पश्वर्थं सुमहातपाः । 001c
जुहाव धृतराष्ट्रस्य राष्ट्रं कोपसमन्वितः ॥ 001e
तपसा घोररूपेण कर्शयन्देहमात्मनः । 002a
क्रोधेन महताऽऽविष्टो धर्मात्मा वै प्रतापवान् ॥ 002c
पुरा हि नैमिशीयानां सत्रे द्वादशवार्षिके । 003a
वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् ॥ 003c
तत्रेश्वरमयाचन्त दक्षिणार्थं मनस्विनः । 004a
'तत्र ते लेभिरे राजन्पाञ्चालेभ्यो महर्षयः ।' 004c
बलान्वितान्वत्सतरान्निर्व्याधीन्सप्तविंशतिम् ॥ 004e
तानब्रवीद्बलो दाल्भ्यो विभजध्वं पशूनिति । 005a
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् ॥ 005c
एवमुक्त्वा वको राजन्नृषीन्सर्वान्प्रतापवान् । 006a
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः ॥ 006c
स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् । 007a
अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् ॥ 007c
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तमः । 008a
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि ॥ 008c
ऋषिस्त्वथ बकः क्रुद्धश्चिन्तयामास धर्मवित् । 009a
अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि ॥ 009c
चिन्तयित्वा मुहूर्तेन रोषाविष्टो द्विजोत्तमः । 010a
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ॥ 010c
स तूत्कृत्य मृतानां वै मांसानि मुनिसत्तमः । 011a
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा ॥ 011c
अवाकर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् । 012a
बको दाल्भ्यो महाराज नियमं परमं स्थितः ॥ 012c
स तैरेव जुहावाग्नौ राष्ट्रं मांसैर्महातपः ॥ 013ac
तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे । 014a
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव ॥ 014c
छिद्यमानं यथा कान्तं वनं परशुना विभो । 015a
बभूवापद्गतं तच्च व्यवकीर्णमचेतनम् ॥ 015c
दृष्ट्वा तथाऽवकीर्णं तु राष्ट्रं च मनुजाधिपः । 016a
बभूव दुर्मना राजा चिन्तयामास च प्रभुः ॥ 016c
मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा । 017a
न च श्रयोऽध्यगच्छत्तु क्षीयते राष्ट्रमेव च ॥ 017c
यदा स पार्थिवः खिन्नस्ते च विप्रास्तदाऽनघ ॥ 018ac
यदा चापि न शक्नोति राष्ट्रं मोक्षयितुं नृपः । 019c
अथ विप्रादिकांस्तत्र पप्रच्छ जनमेजय ॥ 019a
ततो विप्रादिकाः प्राहुः पशुविप्रकृतस्त्वया । 020a
मांसैरभिजुहोतीदं तव राष्ट्रं मुनिर्बकः ॥ 020c
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् । 021a
तस्यैतत्तपसः कर्म येन तेऽद्य लयो महान् ॥ 021c
'यदीच्छसि महाबाहो शान्तिं राष्ट्रस्य भूमिप । 022a
अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव ॥ 022c
वैशम्पायन उवाच । 023
सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् । 023a
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ ॥ 023c
प्रसादये त्वां भगवन्नपराधं क्षमस्व मे । 024a
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः । 024c
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि ॥ 024e
तं तथा विलपन्तं तु शोकोपहतचेतसम् । 025a
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तस्य व्यमोचयत् ॥ 025c
ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः । 026a
मोक्षार्थं तस्य राज्यस्य जुहाव पुनराहुतिम् ॥ 026c
मोक्षयित्वा ततो रार्ष्ट्रं प्रतिगृह्य पशून्बहून् । 027a
हृष्टात्मा नैमिशारण्यं जगाम पुनरेव सः ॥ 027c
धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः । 028a
स्वमेव नगरं राजन्प्रतिपेदे महर्द्धिमत् ॥ 028c
तत्र तीर्थे महाराज बृहस्पतिरुदारधीः । 029a
असुराणामभावाय भवाय च दिवौकसाम् ॥ 029c
मांसैरभिजुहावेष्टिमक्षीयन्त ततोऽसुराः । 030a
दैवतैरपि सम्भग्ना जितकाशिभिराहवे ॥ 030c
तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः । 031a
वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान् ॥ 031c
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् । 032a
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते ॥ 032c
तत्र यज्ञे ययातेश्च महाराज सरस्वती । 033a
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः ॥ 033c
तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः । 034a
आक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान् ॥ 034c
पुनस्तत्र च राज्ञस्तु ययातेर्यजतः प्रभोः । 035a
औदार्यं परमं कृत्वा भक्तिं चात्मनि शाश्वतीम् । 035c
ददौ कामान्ब्राह्मणेभ्यो यान्यान्यो मनसेच्छति ॥ 035e
यो यत्र स्थित एवेह आहूतो यज्ञसंस्तरे । 036a
तस्यतस्य सरिच्छ्रेष्ठा गृहादि शयनादिकम् । 036c
षड्रसं भोजनं चैव दानं नानाविधं तथा ॥ 036e
ते मन्यमाना राज्ञस्तु सम्प्रदानमनुत्तमम् । 037a
राजानं तुष्टुवुः प्रीता दत्त्वा चैवाशिषः शुभाः ॥ 037c
तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा । 038a
विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसम्पदम् ॥ 038c
ततस्तालकेतुर्महाधर्मकेतुर्महात्मा कृतात्मा महादाननित्यः । 039a
वसिष्ठापवाहं महाभीमवेगं धृतात्मा जितात्मा समभ्याजगाम ॥ ॥ 039c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥
9-42-1 ब्रह्मयोनेरवाकीर्णमिति झ.पाठः । तत्र ब्रह्मयोनेः ब्राह्मण्योत्पादकात्तीर्थादवाकीर्णं नाम दाल्भ्यसेवितं तीर्थं जगामेत्यर्थः ॥ 9-42-3 पाञ्चालान्विश्वजितो महत्मान्ते अगमन् ॥ 9-42-4 ईश्वरं पाञ्चालराजम् ॥ 9-42-5 एतान्पाञ्चालराजदत्तान् । स्वयं तत्र भागं न गृहीतवानित्यर्थः ॥ 9-42-19 अथ वै प्राश्निकांस्तत्रेति झ पाठः ॥