अध्यायः 041
आर्ष्टिषेणेन पृथूदकतीर्थे तपश्चर्यया कृत्स्नवेदाधिगमः ॥ 1 ॥ विश्वामित्रादीनां तत्तत्तीर्थे तपश्चर्यया ब्राह्मण्याधिगमः ॥ बलभद्रस्य तत्र स्नानादिपूर्वकं बकाश्रमम्प्रति गमनम् ॥ 3 ॥
जनमेजय उवाच । 001
आर्ष्टिषेणस्तथा ब्रह्मन्विपुलं तप्तवांस्तपः । 001a
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा ॥ 001c
देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम । 002a
तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे ॥ 002c
वैशम्पायन उवाच । 003
पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः । 003a
वसन्गुरुकुले नित्यं नित्यमध्ययने रतः ॥ 003c
तस्य राजन्गुरुकुले वसतो नित्यमेव च । 004a
समाप्तिं नागमद्विद्या नापि वेदा विशाम्पते ॥ 004c
स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः । 005a
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान् ॥ 005c
स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः । 006a
तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः ॥ 006c
अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः । 007a
आप्लुतो वाजिमेधस्य फलं प्राप्स्यति पुष्कलम् ॥ 007c
अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति । 008a
अपि चाल्पेन कालेन फलं प्राप्स्यति पुष्कलम् ॥ 008c
एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः । 009a
एवं सिद्धः स भगवानार्ष्टिषेणः प्रतापवान् ॥ 009c
तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् । 010a
देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत् ॥ 010c
तथाच कौशिकस्तात तपोनित्यो जितेन्द्रियः । 011a
तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान् ॥ 011c
गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि । 012a
तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् ॥ 012c
स राजा कौशिकस्तात महायोग्यभवत्किल । 013a
स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः ॥ 013c
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः । 014a
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात् ॥ 014c
एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्ततः । 015a
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम ॥ 015c
इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च । 016a
जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः ॥ 016c
न स शक्नोति पृथिवीं यत्नवानपि रक्षितुम् । 017a
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम् ॥ 017c
निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः । 018a
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात् ॥ 018c
तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् । 019a
ततस्तु भगवान्विप्रो वसिष्ठो श्रममभ्ययात् । 019c
ददृशेऽथ ततः सर्वं भज्यमानं महावनम् ॥ 019e
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः । 020a
सृजस्व शबरान्घोरानिति स्वां गामुवाच ह ॥ 020c
तथोक्ता साऽसृजद्धेनुः पुरुषान्घोरदर्शनान् । 021a
ते तु तद्बलमासाद्य बभञ्जुः सर्वतोदिशम् ॥ 021c
तच्छ्रुत्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः । 022a
तपः परं मन्यमानस्तपस्येव मनो दधे ॥ 022c
सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः । 023a
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः ॥ 023c
जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत् । 024a
तथा स्थण्डिलशायी च ये चान्ये नियमाःपृथक् ॥ 024c
असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे । 025a
न चास्य नियमाद्बुद्धिरपयाति महात्मनः ॥ 025c
ततः परेण यत्नेन तप्त्वा बहुविधं तपः । 026a
तेजसा भास्कराकारो गाधिजः समपद्यत ॥ 026c
तपसा तु तथायुक्तं विश्वामित्रं पितामहः । 027a
अमन्यत महातेजा वरदोऽदर्शयत्तदा ॥ 027c
स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति । 028a
तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः ॥ 028c
स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः । 029a
विचचार महीं कृत्स्नां कृतकामः सुरोपमः ॥ 029c
तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु । 030a
पयस्विनीस्तथा धेनूर्यानानि शयनानि च ॥ 030c
अथ वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम् । 031a
अददन्मुदितो राजन्पूजयित्वा द्विजोत्तमान् ॥ 031c
ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात् । 032a
यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः ॥ ॥ 032c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥