अध्यायः 040
बलरामस्यौशनसतीर्थगमनम् ॥ 1 ॥ तत्तीर्थस्य कपालमोचननामप्राप्तिहेतूक्तिः ॥ 2 ॥ बलस्य उशङ्ग्वाश्रमगमनम् ॥ 3 ॥ उशङ्गुचरित्रकथनं बलस्य पृथूदकतीर्थे स्नानदानादि ॥ 4 ॥
वैशम्पायन उवाच । 001
उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः । 001a
तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः ॥ 001c
दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च । 002a
पूजितो मुनिसङ्घैश्च प्रातरुत्थाय लाङ्गली ॥ 002c
अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत । 003a
प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः ॥ 003c
ततस्त्वौशनसं तीर्थमाजगाम हलायुधः । 004a
कपालमोचनं नाम यत्र मुक्तो महामुनिः ॥ 004c
महता शिरसा राजन्ग्रस्तजङ्घो महोदरः । 005a
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा ॥ 005c
तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना । 006a
यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः । 006c
यत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् ॥ 006e
तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम् । 007a
विधिवद्वै ददौ वित्तं ब्राह्मणानां महात्मनाम् ॥ 007c
जनमेजय उवाच । 008
कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः । 008a
मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना ॥ 008c
वैशम्पायन उवाच । 009
पुरा वै दण्डकारण्ये राघवेण महात्मना । 009a
वसता राजशार्दूल राक्षसाञ्शमयिष्यता ॥ 009c
जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः । 010a
क्षुरेण शितधारेण तत्पपात महावने ॥ 010c
महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया । 011a
वने विचरतो राजन्नस्थि भित्त्वाऽस्फुरत्तदा ॥ 011c
स तेन लग्नेन तदा द्विजातिर्न शशाक ह । 012a
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ॥ 012c
स पूतिना विस्रवता वेदनार्तो महामुनिः । 013a
जगाम सर्वतीर्थानि पृथिव्यां चेति नः श्रुतम् ॥ 013c
स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः । 014a
कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥ 014c
आप्लुत्य सर्वतीर्थेषु न च मोक्षमवाप्तवान् । 015a
स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् ॥ 015c
सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा । 016a
सर्वपापप्रशमनं सिद्धिक्षेत्रमनुत्तमम् ॥ 016c
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः ॥ 017ac
तत औशनसे तीर्थे तस्योपस्पृशतस्तदा । 018a
तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा ॥ 018c
विमुक्तस्तेन शिरसा परं सुखमवाप ह । 019a
स चाप्यन्तर्जले मूर्धा जगामादर्शनं विभो ॥ 019c
ततः स विरुजो राजन्पूतात्मा वीतकल्मषः । 020a
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः ॥ 020c
सोऽथ गत्वाऽऽश्रमं पुण्यं विप्रमुक्तो महातपाः । 021a
कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥ 021c
ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद । 022a
कपालमोचनमिति नाम चक्रुः समागताः ॥ 022c
स चापि तीर्थप्रवरं पुनर्गत्वा महानृषिः । 023a
पीत्वा पयःसुविपुलं सिद्धिमायात्तदा मुनिः ॥ 023c
तत्र दत्त्वा बहून्देयान्विप्रान्सम्पूज्य माधवः । 024a
जगाम तत्र राजेन्द्र उशङ्गोराश्रमं तदा ॥ 024c
यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत । 025a
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः ॥ 025c
सर्वकामसमृद्धं च तदाश्रमपदं महत् । 026a
मुनिभिर्ब्राह्मणैश्चैव सेवितं सर्वदा विभो ॥ 026c
ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः । 027a
जगाम तत्र राजेन्द्र उशङ्गुस्तनुमत्यजत् ॥ 027c
उशङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत । 028a
देहन्यासे कृतमना विचिन्त्य बहुधा तदा ॥ 028c
ततः सर्वानुपादाय तनयान्वै महातपाः । 029a
उशङ्गुरब्रवीत्तत्र नयध्वं मां पृथूदकम् ॥ 029c
विज्ञायातीतवयसमुशङ्गुं ते तपोधनाः । 030a
तं च तीर्थमपानिन्युः सरस्वत्यास्तपोधनम् ॥ 030c
स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम् । 031a
पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम् ॥ 031c
स तत्र विधिना राजन्नाप्लुत्य सुमहातपाः । 032a
ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः । 032c
सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः ॥ 032e
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् । 033a
पृथूदके जप्यपरो नैनं श्वो मरणं तपेत् ॥ 033c
'इत्युक्त्वा स्वां तनुं त्यक्त्वा प्रपेदे वैष्णवं पदम्' । 034a
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः । 034c
दत्त्वा चैव बूहून्देयान्विप्राणां विप्रवत्सलः ॥ 034e
ससर्ज यत्र भगवाल्ँलोकाल्ँलोकपितामहः ॥ 035ac
यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः । 036a
तपसा महता राजन्प्राप्तवानृषिसत्तमः ॥ 036c
सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः । 037a
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रस्तथा मुनिः ॥ 037c
महातपस्वी भगवानुग्रतेजा महातपाः । 038a
तत्राजगाम बलवान्बलभद्रः प्रतापवान् ॥ ॥ 038c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥
9-40-17 तीर्थमुपास्पृशदिति शेषः ॥ 9-40-24 त्रिशङ्कोराश्रमं तदा इति क.पाठः । रुशङ्गोराश्रमं तदा इति झ. पाठः ॥ 9-40-33 अक्षयं स्वर्गमाप्नोतीत्यर्थः ॥ 9-40-36 ब्राह्मणं ब्रह्मसङ्घातो वेदसमूह इति यावत् । ततः स्वार्थे ष्यञ् । ब्राह्मणं ब्रह्मसङ्घाते इति मेदिनी ॥