अध्यायः 039
सरस्वत्याः सप्तधाविभागे कारणाभिधानम् ॥ 1 ॥ सप्तभागानां कस्मिंश्चित्तीर्थे एकीभवनात्तत्तीर्थस्य सप्तसारस्वतनामप्राप्तिः ॥ 2 ॥ मङ्कणमुनिचरितप्रतिपादनम् ॥ 3 ॥
जनमेजय उवाच । 001
सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः । 001a
कथं सिद्धः स भगवान्कश्चास्य नियमोऽभवत् ॥ 001c
कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम । 002a
एतन्मे सर्वमाचक्ष्व यथातत्त्वं महामुने ॥ 002c
वैशम्पायन उवाच । 003
सप्तनद्यः सरस्वत्या याभिर्व्याप्तमिदं जगत् । 003a
आहूता बलवद्भिर्हि तत्रतत्र सरस्वती ॥ 003c
सुप्रभा काञ्चनाक्षी च विशाला च मनोरमा । 004a
सरस्वती चौघवती सुरेणुर्विमलोदका ॥ 004c
पितामहस्य महतो वर्तमाने महामखे । 005a
वितते यज्ञवाटे च संसिद्धेषु द्विजातिषु ॥ 005c
पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा । 006a
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा ॥ 006c
तत्र चैव महाराज दीक्षिते प्रपितामहे । 007a
यजतस्तस्य सत्रेण सर्वकामसमृद्धिना ॥ 007c
मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा । 008a
उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्रतत्र ह ॥ 008c
जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः । 009a
वादित्राणि च दिव्यानि वादयामासुरञ्जसा ॥ 009c
तस्य यज्ञस्य सम्पत्त्या तुतुषुर्देवतागणाः । 010a
विस्मयं परमं जग्मुः किमु मानुषयोनयः ॥ 010c
वर्तमाने यथा यज्ञे पुष्करस्थे पितामहे । 011a
अब्रुवन्नृषयो राजन्नायं यज्ञो महागुणः ॥ 011c
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती । 012a
तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम् ॥ 012c
पितामहेन यजता आहूता पुष्करेषु वै । 013a
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती ॥ 013c
तां दृष्ट्वा मुनयस्तुष्टास्त्वरायुक्तां सरस्वतीम् । 014a
पितामहं मानयन्तीं क्रतुं ते बहुमेनिरे ॥ 014c
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती । 015a
पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम् ॥ 015c
नैमिषे मुनयो राजन्समागम्य समासते । 016a
तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर ॥ 016c
यत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः । 017a
ते समागम्य मुनयः सस्मरुर्वै सरस्वतीम् ॥ 017c
सा तु ध्याता महाराज मुनिभिः सत्रयाजिभिः । 018a
समागतानां राजेन्द्र साहाय्यार्थं महात्मनाम् । 018c
आजगाम महाभागा तत्र पुण्या सरस्वती ॥ 018e
नैमिषे काञ्चनाक्षी तु मुनीनां सत्रयाजिनाम् । 019a
आगता सरितां श्रेष्ठा तत्र भारत पूजित ॥ 019c
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् । 020a
आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती ॥ 020c
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् । 021a
विशालां तु गयस्याहुर्ऋषयः संशितव्रताः ॥ 021c
सरित्सा हिमवत्पार्श्वात्प्रस्रुता शीघ्रगामिनी । 022a
औद्दालकेस्तथा यज्ञे यजतस्तस्य भारत ॥ 022c
समेते सर्वतः स्फीते मुनीनां मण्डले तदा । 023a
उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः ॥ 023c
औद्दालकेन यजता पूर्वं ध्याता सरस्वती । 024a
आजगाम सरिच्छेष्ठा तं देशं मुनिकारणात् ॥ 024c
पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः । 025a
मनोहरेति विख्याता सा हि तैर्मनसा वृता ॥ 025c
[सुरेणुर्ऋषभे द्वीपे पुण्ये राजर्षिसेविते ।] 026a
कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः । 026c
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती ॥ 026e
ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना । 027a
समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती ॥ 027c
दक्षेण यजता चापि गङ्गाद्वारे सरस्वती । 028a
सुवेणिरिति विख्याता प्रस्रुता शीघ्रगामिनी ॥ 028c
विमलोदा भगवती ब्रह्मणा यजता पुनः । 029a
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ ॥ 029c
एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः । 030a
सप्तसारस्वतं तीर्थं ततस्तु प्रथितं भुवि ॥ 030c
इति सप्तसरस्वत्यो नामतः परिकीर्तिताः । 031a
सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् ॥ 031c
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः । 032a
आपगामवगाढस्य राजन्प्रक्रीडितं महत् ॥ 032c
दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत । 033a
स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम् । 033c
सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि ॥ 033e
तद्रेतः स तु जग्राह कलशे वै महातपाः । 034a
'ऋषिः परमधर्मात्मा तदा पुरुषसत्तम' ॥ 034c
सप्तधा प्रविभागं तु कलशस्थं जगाम ह । 035a
तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः ॥ 035c
वायुवेगो वायुबलो वायुहा वायुमण्डलः । 036a
वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् । 036c
एवमेते समुत्पन्ना मरुतां जनयिष्णवः ॥ 036e
इदमन्यच्च राजेन्द्र शृण्वाश्चर्यतरं भुवि । 037a
महर्षेश्चरितं यादृक् त्रिषु लोकेषु विश्रुतम् ॥ 037c
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम् । 038a
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ॥ 038c
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥ 039ac
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् । 040a
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥ 040c
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः । 041a
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप । 041c
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥ 041e
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह । 042a
सुराणां हितकामार्थं महादेवोऽभ्यभाषत ॥ 042c
भोभो ब्राह्मण धर्मज्ञ किमर्थं नृत्यते भवान् । 043a
हर्षस्थानं किमर्थं च तवेदमधिकं मुने । 043c
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥ 043e
ऋषिरुवाच । 044
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् । 044a
यं दृष्ट्वा सम्प्रनृत्तो वै हर्षेण महता विभो ॥ 044c
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् । 045a
अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् ॥ 045c
एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता । 046a
अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितोऽभवत् ॥ 046c
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् ॥ 047ac
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः । 048a
मेने देवं महादेवमिदं चोवाच विस्मितः ॥ 048c
नान्यं देवादहं मन्ये रुद्रात्परतरं महत् । 049a
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥ 049c
त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः । 050a
त्वामेव सर्वं विशति पुनरेव युगक्षये ॥ 050c
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया । 051a
त्वयि सर्वे स्म दृश्यन्ते भावा ये जगति स्थिताः ॥ 051c
त्वामुपासन्त वरदं देवा ब्रह्मादयोऽनघ । 052a
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह ॥ 052c
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः । 053a
'त्वं प्रभुः परमैश्वर्यादधिकं भासि शङ्करः ॥ 053c
त्वयि ब्रह्मा च विष्णुश्च लोकान्सन्धाय तिष्ठतः । 054a
त्वन्मूलं च जगत्सर्वं भूतस्थावरजङ्गमम् ॥ 054c
स्वर्गं च परमं स्थानं नृणामभ्युदयार्थिनाम् । 055a
ददासि च प्रसन्नस्त्वं भक्तानां परमेश्वर ॥ 055c
अनावृत्तिपदं नॄणां नित्यं निश्रेयसार्थिनाम् । 056a
ददासि कर्मिणां कर्म भावयन्ध्यानयोगतः ॥ 056c
न वृथाऽस्ति महादेव प्रसादस्ते महेश्वर । 057a
यस्मात्त्वयोपकरणात्करोमि कमलेक्षण ॥ 057c
प्रपद्ये शरणं शम्भुं सर्वदा सर्वतः स्थितम् । 058a
कर्मणा मनसा वाचा तमेवाभिभजाम्यहम् ॥ 058c
जनमेजय उवाच ।' 059
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् ॥ 059ac
यदिदं चापलं देव कृतमेतत्स्मयादिकम् । 060a
ततः प्रसादयमि त्वां तपो मे न क्षरेदिति ॥ 060c
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् । 061a
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ॥ 061c
आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा । 062a
सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः ॥ 062c
न तस्य दुर्लभं किञ्चिद्धवितेह परत्र वा । 063a
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ॥ 063c
एतन्मङ्कणकस्यापि चरितं भूरितेजसः । 064a
स हि पुत्रः सुकन्यायामुत्पन्नो मातरिश्वना ॥ ॥ 064c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥
9-39-4 विशाला सुतनुस्तथा । सरस्वत्योघमाला च सुवेणी निर्मलोदका इति ङ.पाठः । सरस्वत्यूर्मिमाला च सुवेणी विमलोदका इति क.पाठः ॥ 9-39-17 सस्मरुः स्मृतवन्तः ॥ 9-39-20 गयेषु गयदेशेषु ॥ 9-39-25 मनोरमेति विख्याता सा हि तैर्मनसा कृता इति झ.पाठः ॥ 9-39-28 सुरेणुरिति झ.पाठः ॥ 9-39-32 राजन्प्रजपितं महत् इति क.पाठः ॥ 9-39-33 स्नायन्तीं स्नान्तीम् ॥ 9-39-36 मरुतां प्राणवायूनां एकोनपञ्चाशताम् । एतेषां तपसा मरुतो दित्यामुत्पन्ना इति कल्पान्तरविषयोऽयमर्थः ॥ 9-39-60 स्मयादिकं गर्दादिकम् ॥