अध्यायः 038

बलभद्रस्य सरस्वतीतीरस्थानानातीर्थयात्राप्रकारवर्णनम् ॥ 1 ॥ तत्तत्तीर्थमहिमानुवर्णनं च ॥ 2 ॥

वैशम्पायन उवाच । 001
ततो विनशनं राजन्नाजगाम हलायुधः । 001a
शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती । 001c
तस्मात्तामृषयो नित्यं प्राहुर्विनशनेति च ॥ 001e
तत्राप्युपस्पृश्य बलः सरस्वत्यां महाबलः । 002a
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे ॥ 002c
तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः । 003a
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः ॥ 003c
तत्र देवाः सगन्धर्वा मासिमासि जनेश्वर । 004a
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम् ॥ 004c
तत्र नृत्यन्ति गन्धर्वास्तथैवाप्सरसां गणाः । 005a
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम् ॥ 005c
तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः । 006a
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः ॥ 006c
आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा । 007a
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे ॥ 007c
तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः । 008a
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम् ॥ 008c
शय्याश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् । 009a
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः ॥ 009c
विश्वावसुमुखास्तत्र गन्धर्वाप्सरसां गणाः । 010a
नृत्तवादित्रगीतं च कुर्न्वति सुमनोरमम् ॥ 010c
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु । 011a
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा ॥ 011c
भोजयित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः । 012a
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः ॥ 012c
तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिन्दमः । 013a
गर्गस्रोतो महातीर्थमाजगामैककुण्डली ॥ 013c
तत्र गर्गेण वृद्धेन तपसा भावितात्मना । 014a
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः ॥ 014c
उत्पाता दारुणाश्चैक शुभाश्च जनमेजय । 015a
सरस्वत्याः शुभे तीर्थे विदिता वै महात्मना ॥ 015c
तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम् ॥ 016ac
तत्र गर्गं महाभागमृषयः सुव्रता नृप । 017a
उपासाञ्चक्रिरे नित्यं कालज्ञानं प्रति प्रभो ॥ 017c
तत्र गत्वा महाराज बलः श्वेतानुलेपनः । 018a
विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम् ॥ 018c
उच्चावचांस्तथा भक्ष्यान्विप्रेभ्यो विप्रदाय सः । 019a
नीलवासास्तदाऽगच्छच्छङ्घतीर्थं महायशाः ॥ 019c
तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम् । 020a
श्वेतपर्वतसङ्काशमृषिसङ्घैर्निषेवितम् । 020c
सरस्वत्यास्तटे जातं नगं तालध्वजो बली ॥ 020e
यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः । 021a
पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः ॥ 021c
ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः । 022a
व्रतैश्च नियमैश्चैव कालेकाले स्म भुञ्जते ॥ 022c
प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् । 023a
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ ॥ 023c
एवं ख्यातो नरव्याघ्र लोकेऽस्मिन्स वनस्पतिः । 024a
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् ॥ 024c
तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे पयस्विनीः । 025a
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च ॥ 025c
पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः । 026a
पुण्यं नैसर्गिकं राजन्नाजगाम हलायुधः ॥ 026c
तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः । 027a
आप्लुत्य सलिले चापि पूजयामास वै द्विजान् ॥ 027c
तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् । 028a
ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम् ॥ 028c
गत्वा चैवं महाबाहुर्नातिदूरे महायशाः । 029a
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः ॥ 029c
यत्र पन्नगराजस्य वासुकेः सन्निवेशनम् । 030a
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम् ॥ 030c
ऋषिणां हि सहस्राणि तत्र नित्यं चतुर्दश । 031a
यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् । 031c
सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि ॥ 031e
पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव ॥ 032ac
तत्रापि विधिवद्दत्वा विप्रेभ्यो रत्नसञ्चयान् । 033a
प्रायात्प्राचीं दिशं राजंस्तत्र तीर्थान्यनेकशः ॥ 033c
सहस्रशतसङ्ख्यानि प्रथितानि पदेपदे । 034a
आप्लुत्य तत्र तीर्थेषु यथोक्तं तत्र चर्षिभिः ॥ 034c
दत्त्वा वसु द्विजाग्र्येभ्यो निर्जगाम महाबलः । 035a
तत्रस्थानृषिसङ्घांस्तानभिवाद्य हलायुधः ॥ 035c
ततो रामोऽगमत्तीर्थमृषिभिः सेवितं महत् । 036a
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती ॥ 036c
ऋषीणां नैमिषेयाणामवेक्षार्थं महात्मनाम् । 037a
निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली । 037c
बभूव विस्मितो राजन्बलः श्वेतानुलेपनः ॥ 037e
जनमेजय उवाच । 038
कस्मात्सरस्वती ब्रह्मन्निवृत्ता प्राङ्मुखी भवत् । 038a
व्याख्यातमेतदिच्छामि सर्वमध्वर्युसत्तम ॥ 038c
कस्मिंश्चित्कारणे तत्र विस्मितो यदुनन्दनः । 039a
निवृत्ता हेतुना केन कथमेव सरिद्वरा ॥ 039c
वैशम्पायन उवाच । 040
पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः । 040a
वर्तमाने सुविपुले सत्रे द्वादशवार्षिके ॥ 040c
ऋषयो बहवो राजंस्तत्सत्रमभिपेदिरे । 041a
उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि ॥ 041c
निवृत्ते नैमिषे ये वै सत्रे द्वादशवार्षिके । 042a
आजग्मुर्ऋषयस्तत्र बहवस्तीर्थकारणात् ॥ 042c
ऋषीणां बहुलत्वात्तु सरस्वत्या विशाम्पते । 043a
तीर्थानि नगरायन्ते कूले वै दक्षिणोत्तरे ॥ 043c
समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः । 044a
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः ॥ 044c
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् । 045a
स्वाध्यायेनातिमहता बभूवुः पूरिता दिशः ॥ 045c
अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम् । 046a
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः ॥ 046c
वालखिल्या महाराज अश्मकुट्टाश्च तापसाः । 047a
दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथा परे ॥ 047c
वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः । 048a
नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः ॥ 048c
आसन्वै मुनयस्तवत्र सरस्वत्याः समीपतः । 049a
शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः ॥ 049c
शतशश्च समापेतुर्ऋषयः सत्रयाजिनः । 050a
तेऽवकाशं न ददृशुः सरस्वत्या महाव्रताः । 050c
तेऽवकाशं च ददृशुः कुरुक्षेत्रं (त्रे) महाव्रताः ॥ 050e
ततो यज्ञोपवीतैः स्वैस्तत्र कृत्वा सरस्वतीम् । 051a
जुहुवुश्चाग्निहोत्रांश्च चक्रुश्च विविधाः क्रियाः ॥ 051c
ततस्तमृषिसङ्घातं निराशं चिन्तयान्वितम् । 052a
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती ॥ 052c
ततः कुञ्जान्बहून्कृत्वा सन्निवृत्ता सरस्वती । 053a
ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय ॥ 053c
ततो निवृत्त्य राजेन्द्र तेषामर्थे सरस्वती । 054a
भूयः प्रतीच्यभिमुखी प्रसुस्राव सरिद्वरा ॥ 054c
अमोघा गमनं कृत्वा तेषां भूयो जगाम ह । 055a
अत्यद्भुतं महच्चक्रे तदा राजन्महानदी ॥ 055c
एवं स कुञ्जो राजन्वै नैमिषीय इति स्मृतः । 056a
कुरुश्रेष्ठ कुरुक्षेत्रे कुरुष्व महतीं क्रियाम् ॥ 056c
तत्र कुञ्जान्बहून्दृष्ट्वा निवृत्तां च सरस्वतीम् । 057a
बभूव विस्मयस्तत्र रामस्याथ महात्मनः ॥ 057c
उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः । 058a
दत्त्वा देयान्द्विजातिभ्यो भाण्डानि विविधानि च ॥ 058c
भक्ष्यं भोज्यं कच विविधं ब्राह्मणेभ्यः प्रदाय च । 059a
ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः ॥ 059c
सरस्वतीतीर्थवरं नानाद्विजगणायुतम् । 060a
बदरेङ्गुदश्यामाकाप्लक्षाश्वत्थबिभीतकैः ॥ 060c
कङ्कोलैश्च पलाश्चैश्च करीरैः पीलुभिस्तथा । 061a
सरस्वतीतीर्थरुहैस्तरुभिर्विविधैस्तथा ॥ 061c
करुषकवरैश्चैव बिल्वैराम्रातकैस्तथा । 062a
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम् ॥ 062c
कदलीवनभूयिष्ठं दृष्टिकान्तं मनोहरम् । 063a
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि ॥ 063c
तथाऽश्मकुट्टैर्वातेयैर्मुनिभिर्बहुभिर्वृतम् । 064a
स्वाध्यायघोषसङ्घुष्टं मृगयूथशताकुलम् ॥ 064c
अहिंस्रैर्धर्मपरमैर्नृभिरत्यर्थसेवितम् । 065a
सप्तसारस्वतं तीर्थमाजगाम हलायुधः । 065c
यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः ॥ ॥ 065e

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टविंशोऽध्यायः ॥ 38 ॥

9-38-1 शूद्राभीरान्द्विष्टमाना इति क.पाठः ॥ 9-38-3 शुभ्राः शुचयः ॥ 9-38-9 छायाश्च विपुला इति ङ.पाठः ॥ 9-38-10 गन्धर्वाप्सरसान्विताः इति ङ.पाठः ॥ 9-38-17 कालज्ञानं प्रति कालज्ञानार्थम् ॥ 9-38-20 शङ्खं शङ्खनामानम् । नगं वृक्षम् ॥ 9-38-26 पुण्यं द्वैतवनं इति झ.पाठः ॥ 9-38-37 अवेक्षार्थमिष्टसिद्ध्यर्थम् ॥ 9-38-38 इच्छामि श्रोतुमिति शेषः ॥ 9-38-51 यज्ञोपवीतैः यज्ञसूत्रैः निराशं सरस्वतीजललाभे इत्यर्थः ॥ 9-38-53 कुञ्जान् आत्मनो वासस्थानानि तीर्थविशेषानित्यर्थः ॥