अध्यायः 037

एकतद्वितत्रितनामकानां विप्राणां कथा ॥ 1 ॥

वैशम्पायन उवाच । 001
तस्मान्नदीगतं चापि ह्युदपानं यशस्विनः । 001a
त्रितस्य च महाराज जगामाथ हलायुधः ॥ 001c
तत्र दत्त्वा बहुद्रव्यं पूजयित्वा तथा द्विजान् । 002a
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः ॥ 002c
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः । 003a
कूपे च वसता तेन सोमः पीतो महात्मना ॥ 003c
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् । 004a
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः ॥ 004c
जनमेजय उवाच । 005
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः । 005a
पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तम ॥ 005c
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् । 006a
कथं च याजयामास पपौ सोमं च वै कथम् । 006c
एतदाचक्ष्व मे ब्रह्मन्श्रोतव्यं यदि मन्यसे ॥ 006e
वैशम्पायन उवाच । 007
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः । 007a
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः ॥ 007c
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च । 008a
ब्रह्मलोकजिताः सर्वे तपसा ब्रह्मवादिनः ॥ 008c
तेषां तु तपसा प्रीतो नियमेन दमेन च । 009a
अभवद्गौतमो नित्यं पिता धर्मरतः सदा ॥ 009c
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च । 010a
जगाम भगवान्स्थानमनुरूपमिवात्मनः ॥ 010c
राजानस्तस्य ये ह्यासन्याज्या राजन्महात्मनः । 011a
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् ॥ 011c
तेषां तु कर्मणा राजंस्तथा चाध्ययनेन च । 012a
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा ॥ 012c
तथा सर्वे महाभागा मुनयः पुण्यलक्षणाः । 013a
अपूजयन्महाभागं यथास्य पितरं तथा ॥ 013c
कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ । 014a
यज्ञार्थं चक्रतुश्चिन्तां तथा वित्तार्थमेव च ॥ 014c
तयोर्बुद्धिः समभवत्त्रितं गृह्य परन्तप । 015a
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः । 015c
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् ॥ 015e
चक्रुश्चैवं तथा राजन्भ्रातरस्त्रय एव च । 016a
यथा ते तु परिक्रम्य याज्यान्सर्वान्पशून्प्रति । 016c
याजयित्वा ततो याज्याल्ँलब्ध्वा तु सुबहून्पशून् ॥ 016e
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः । 017a
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः ॥ 017c
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् । 018a
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् ॥ 018c
तयोश्चिन्ता समभवदेकतस्य द्वितस्य च । 019a
कथं च स्युरिमा गाव आवाभ्यां हि विना त्रितम् ॥ 019c
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह । 020a
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर ॥ 020c
त्रितो यज्ञेषु कुशलस्तथा वेदेषु निष्ठितः । 021a
ततस्त्रितो बहुतरं गावः समुपलप्स्यते ॥ 021c
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे । 022a
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृताः ॥ 022c
वैशम्पायन उवाच । 023
तेषामागच्छतां रात्रौ पथिस्थानां वृकोऽभवत् । 023a
तत्र कूपो विदूरेऽभूत्सरस्वत्यास्तटे महान् ॥ 023c
अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः । 024a
तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह । 024c
अगाधे सुमहाघोरे सर्वभूतभयङ्करे ॥ 024e
त्रितस्ततो महाराज कूपस्थो मुनिसत्तमः । 025a
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी ॥ 025c
तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ । 026a
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः ॥ 026c
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः । 027a
उदपाने तदा राजन्निर्जले पांसुपंवृते ॥ 027c
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते । 028a
निमग्नं भरतश्रेष्ठ नरके दुष्कृती यथा ॥ 028c
ततो ह्यचिन्तयत्प्राज्ञो मृतभूतो ह्यसोमपः । 029a
सोमः कथं तु पातव्य इहस्थेन मया भवेत् ॥ 029c
स एवमभिसञ्चिन्त्य तस्मिन्कूपे महातपाः । 030a
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया ॥ 030c
पांसुग्रस्ते ततः कूपे न्यखनत्सलिलं मुनिः । 031a
अग्नीन्सङ्कल्पयामास होतॄनात्मानमेव च ॥ 031c
ततस्तां वीरुधं सोमं सङ्कल्प्य सुमहातपाः । 032a
ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः ॥ 032c
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप । 033a
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् ॥ 033c
सोमस्याभिषवस्याग्रे प्रवृत्तस्तुमुलो ध्वनिः । 034a
स चाविशद्दिवं राजन्स्वरश्चैव त्रितस्त वै ॥ 034c
समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः ॥ 035ac
वर्तमाने महायज्ञे त्रितस्य सुमहात्मनः । 036a
आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते ॥ 036c
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः । 037a
श्रुत्वा चैवाब्रवीत्सर्वान्देवान्देवपुरोहितः ॥ 037c
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः । 038a
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः ॥ 038c
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः । 039a
प्रययुस्तत्र यत्रास्ते त्रितयज्ञश्च वर्तते ॥ 039c
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः । 040a
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु ॥ 040c
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम् । 041a
ऊचुश्चैनं महाभागं प्राप्ता भागार्थिनो वयम् ॥ 041c
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः । 042a
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् ॥ 042c
ततस्त्रितो महाराज भागांस्तेषां यथाविधि । 043a
मन्त्रयुक्तान्समददात्तेन प्रीतास्तदाऽभवन् ॥ 043c
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः । 044a
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति ॥ 044c
स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः । 045a
यश्चाम्भोपस्पृशेत्कूपे स सोमपगतिं लभेत् ॥ 045c
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती । 046a
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः ॥ 046c
तथेति चोक्त्वा विबुधा जग्मू राजन्यथाऽऽगताः । 047a
त्रितश्चाभ्यागमत्प्रीतः स्वमेव निलयं तदा ॥ 047c
क्रुद्धस्तु स समासाद्य तावृषी भ्रातरौ तदा । 048a
उवाच परुषं वाक्यं शशाप च महातपाः ॥ 048c
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ । 049a
तस्माद्वृकाकृती रौद्रौ दंष्ट्रिणावभितश्चरौ ॥ 049c
भवितारौ मया शप्तौ पापेनानेन कर्मणा । 050a
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः ॥ 050c
इत्युक्तेन तदा तेन क्षणादेव विशाम्पते । 051a
तथाभूतावदृश्येतां वचनात्सत्यवादिनः ॥ 051c
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः । 052a
दत्त्वा च विविधान्देयान्पूजयित्वा च वै द्विजान् ॥ 052c
उदपानं च तं वीक्ष्य प्रशस्य च पुनःपुनः । 053a
नदीगतमदीनात्मा प्राप्तो विनशनं तदा ॥ ॥ 053c

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

9-37-6 याजयामास स्वार्थे णिच् यागं कृतवान् ॥ 9-37-8 सर्वे प्रजापतिसुताः प्रजापतय एव च इति क.पाठः ॥ 9-37-16 पशून्प्रतिपश्वर्थम् । दक्षिणार्था गाः प्राप्तुमित्यर्थः ॥ 9-37-18 त्रितश्चाकालयन्पशून् इति क.पाठः ॥ 9-37-23 पथिस्थाने वृकोऽभवदिति क.ङ.पाठः ॥ 9-37-45 यश्चेहोपस्पृशेदिति झ.पाठः ॥