अध्यायः 036

चन्द्रे स्वभार्यास्वश्विन्यादिदङ्क्षपुत्रीषु इतरोपेक्षणेन रोहिण्यामेवासक्ते दक्षेण रोषाच्चन्द्रे यक्ष्मप्रक्षेपः ॥ 1 ॥ देवै प्रसादितदक्षवचनाच्चन्द्रेण प्रभासतीर्थनिमज्जनेन क्षयरोगपरिहरणम् ॥ 2 ॥ बलभद्रेण तत्तीर्थे मज्जनादि ॥ 3 ॥

जनमेजय उवाच । 001
किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत । 001a
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत ॥ 001c
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी । 002a
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ॥ 002c
वैशम्पायन उवाच । 003
दक्षस्य तनयास्तात प्रादुरासन्विशाम्पते । 003a
स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ ॥ 003c
नक्षत्रयोगनिरताः सङ्ख्यानार्थं च ताभवन् । 004a
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः ॥ 004c
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमाऽभवन् । 005a
अत्यरिच्यत तासां तु रोहिणी रूपसम्पदा ॥ 005c
ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः । 006a
साऽस्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा ॥ 006c
ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः । 007a
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः ॥ 007c
सोमो वसति नास्मासु रोहिणीं भजते सदा । 008a
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर । 008c
वत्स्यामो नियताहारास्तपश्चरणतत्पराः ॥ 008e
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् । 009a
समं वर्तस्व सर्वासु मा त्वाऽधर्मो महान्स्पृशेत् ॥ 009c
तास्तु सर्वाऽब्रवीद्दक्षो गच्छध्वं शशिनोन्तिकम् । 010a
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् ॥ 010c
विसृष्टास्तास्तथा जग्मुः शीतांशोर्भवनं शुभाः । 011a
तथाऽपि सोमो भगवान्पुनरेव महीपते । 011c
रोहिण्या सार्धमवसत्प्रीयमाणो मुहुर्मुहुः ॥ 011e
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् ॥ 012ac
सोमो वसति नास्मासु नाकरोद्वचनं तव । 013a
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके ॥ 013c
तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् । 014a
समं वर्तस्व सर्वासु मा त्वां शप्स्ये विरोचन ॥ 014c
अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी । 015a
रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः ॥ 015c
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा । 016a
सोमो वसति नास्मासु तस्मान्नः शरणं भव ॥ 016c
रोहिण्यामेव भगवान्सदा वसति चन्द्रमाः । 017a
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति ॥ 017c
तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत् । 018a
तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते ॥ 018c
ससर्ज रोषात्सोमाय स चोडुपतिमाविशत् । 019a
स यक्ष्मणाऽभिभूतात्माक्षीयताहरहः शशी ॥ 019c
यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः । 020a
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः ॥ 020c
न चामुच्यत शापाद्वै क्षयं चैवाधिगच्छति । 021a
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे ॥ 021c
निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः । 022a
ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः ॥ 022c
कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे । 023a
ततो देवाः समागम्य सोममूचुर्महीपते ॥ 023c
किमिदं भवतो रूपमीदृशं सम्प्रकाशते । 024a
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम् ॥ 024c
श्रुत्वा तु कारणं त्वत्तो विधास्यामस्ततो वयम् । 025a
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः ॥ 025c
शापस्य कारणं चैव यक्ष्माणं च तथाऽऽत्मनः । 026a
देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाऽब्रुवन् ॥ 026c
प्रसीद भगवन्सोमे शापोऽयं विनिवर्त्यताम् । 027a
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते ॥ 027c
क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम् । 028a
वीरुदोषधयश्चैव बीजानि विविधानि च । 028c
तथा नरा लोकगुरो प्रसादं कर्तुमर्हसि ॥ 028e
एवमुक्तस्ततो देवान्प्राह वाक्यं प्रजापतिः । 029a
नैतच्छक्यं मम वचो व्यावर्तयितुमञ्जसा ॥ 029c
हेतुना तु महाभागा निवर्तिष्यति केनचित् । 030a
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः ॥ 030c
सरस्वत्या वरे तीर्थे निमज्जञ्शशलक्षणः । 031a
पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम ॥ 031c
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति । 032a
मासार्धं तु पुनर्वृद्विं सत्यमेतद्वचो मम ॥ 032c
समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम् । 033a
आराधयतु देवेशं ततः कान्तिमवाप्स्यति ॥ 033c
सरस्वतीं ततः सोमः स जगामर्षिशासनात् । 034a
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह ॥ 034c
अमावास्यां महातेजास्तत्रामज्जन्महाद्युतिः । 035a
लोकान्प्रभासयामास शीतांशुत्वमवाप च ॥ 035c
देवास्तु सर्वे राजेन्द्र प्रसादं प्राप्य पुष्कलम् । 036a
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् ॥ 036c
ततः प्रजापतिः सर्वा विससर्जाथ देवताः । 037a
सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत् ॥ 037c
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन । 038a
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम ॥ 038c
स विसृष्टो महाराज जगामाथ स्वमालयम् । 039a
प्रजाश्च मुदिता भूत्वा ईजिरे च यथा पुरा ॥ 039c
एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः । 040a
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत् ॥ 040c
अमावास्यां महाराज नित्यशः शशलक्षणः । 041a
स्नात्वाह्याप्यायते श्रीमान्प्रभासे तीर्थउत्तमे ॥ 041c
अतश्चैतत्प्रजानन्ति प्रभासमिति भूमिप । 042a
प्रभां हि परमां लेभे तस्मिंश्चामज्ज्य चन्द्रमाः ॥ 042c
'लोकान्प्रभासयामास पुपोष च वपुस्तथा । 043a
तत्र स्नात्वा हलीरामो दत्वा प्रीतोऽथ दक्षिणाः' ॥ 043c
ततस्तु चमसोद्भेदमभीतस्त्वगमद्बली । 044a
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत ॥ 044c
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः । 045a
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा ॥ 045c
उदपानमथागच्छत्त्वरावान्केशवाग्रजः । 046a
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महाबलः ॥ 046c
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय । 047a
जानन्ति सिद्धा राजेन्द्र निगूढां तां सरस्वतीम् ॥ ॥ 047c

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे षट्त्रिंशोऽध्यायः ॥ 36 ॥

9-36-9 त्वा त्वां अधर्मः मा स्पृशेत् ॥ 9-36-14 विरोचन हे विशेषेण रोचमान । त्वां माशप्स्ये । तव रोचनां यथाहं शापेन न हरामि तथा यतस्वेत्यर्थः ॥ 9-36-38 गच्छयतः इति क.पाठः ॥