अध्यायः 035
जनमेजयेन वैशम्पायनम्प्रति बलरामस्य तीर्थयात्राप्रकारप्रश्नः ॥ 1 ॥ तेन तम्प्रति तत्कथनमुपक्रम्य प्रभासतीर्थस्य तत्पदवाच्यत्वे हेतुकथनम् ॥ 2 ॥
जनमेजय उवाच । 001
पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते । 001a
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः ॥ 001c
साहाय्यं धार्तराष्ट्रस्य न च कर्ताऽस्मि केशव । 002a
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् ॥ 002c
एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः । 003a
तस्य चागमनं भूयो ब्रह्मञ्शं सितुमर्हसि ॥ 003c
आख्याहि मे विस्तरशः कथं राम उपस्थितः । 004a
कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम ॥ 004c
वैशम्पायन उवाच । 005
उपप्लाव्ये निविष्टेषु पाण्डवेषु महात्मसु । 005a
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः ॥ 005c
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम् ॥ 006ac
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च । 007a
उक्तवान्वचनं पथ्यं हितं चैव विशेषतः ॥ 007c
न च तत्कृतवान्राजा यथाऽख्यातं हि तत्पुरा ॥ 008ac
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः । 009a
आगच्छत महाबाहुरुपप्लाव्यं जनाधिप ॥ 009c
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः । 010a
आजगाम नरव्याघ्रः पाण्डवानामनीकिनीम् । 010c
यथोक्तं च यथावृत्तं गत्वा पाण्डवमब्रवीत् ॥ 010e
न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः । 011a
निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया ॥ 011c
ततो विभज्यमानेषु बलेषु बलिनां वरः । 012a
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः ॥ 012c
तेषामपि महाबाहो साहाय्यं मधुसूदन । 013a
क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा ॥ 013c
ततो मन्युपरीतात्मा जगाम यदुनन्दनः । 014a
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः । 014c
मैत्रनक्षत्रयोगे स्म सहितः सर्वयादवैः ॥ 014e
आश्रयामास भोजस्तु दुर्योधनमरिन्दमः । 015a
युयुधानेन सहितो वासुदेवस्तु पाण्डवान् ॥ 015c
रौहिणेये गते शूरे पुष्येण मधुसूदनः । 016a
पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कूरून् ॥ 016c
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह । 017a
सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च ॥ 017c
आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा । 018a
सुवर्णरजतं चैव धेनूर्वासांसि वाजिनः ॥ 018c
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च । 019a
क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम् ॥ 019c
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः । 020a
ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान् ॥ 020c
एवं सन्दिश्य तु प्रेष्यान्बलदेवो महाबलः । 021a
तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा ॥ 021c
सरस्वत्याः प्रतिस्रोतः समुद्रादभिजग्मिवान । 022a
रामो यदूत्तमः श्रीमांस्तीर्थयात्रामनुस्मरन् ॥ 022c
ऋत्विग्भिश्च सुहृद्भिश्च यथाऽन्यैर्द्विजसत्तमैः । 023a
रथैर्गजैस्तथाऽश्वैश्च प्रेष्यैश्च भरतर्षभ । 023c
गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः ॥ 023e
श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम् । 024a
देशेदेशे तु देयानि दानानि विविधानि च ॥ 024c
अर्चायै चार्थिनां राजन्क्लृप्तानि बहुशस्तथा । 025a
तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत ॥ 025c
बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः ॥ 026ac
योयो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा । 027a
तस्यतस्य तु तत्रैवमुपजह्रुस्तदा नृष ॥ 027c
तत्रतत्र स्थिता राजन्रौहिणेयस्य शासनात् । 028a
भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः ॥ 028c
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च । 029a
पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम् ॥ 029c
यत्र यः स्वपते विप्रो यो वा जागर्ति भारत । 030a
तत्रतत्रैव सर्वस्य क्लृप्तं सर्वमपश्यत ॥ 030c
यथासुखं जनः सर्वो याति तिष्ठति वै तदा । 031a
यातुकामस्य यानानि पानानि तृषितस्य च ॥ 031c
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ । 032a
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च ॥ 032c
स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः । 033a
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम् ॥ 033c
नित्यप्रमुदितोपेतः स्वादुभक्ष्यो जलान्वितः । 034a
विपण्यापणपण्यानं नानाजनशतैर्वृतः । 034c
नानाद्रुमलतोपेतो नानारत्नविभूषितः ॥ 034e
ततो महात्मा नियतो मनस्विनां पुण्येषु तीर्थेषु वसूनि राजन् । 035a
ददौ द्विजेभ्यः क्रतुदक्षिणाश्च यदुप्रवीरो हलभृत्प्रतीतः ॥ 035c
दोग्ध्रीश्च धेनूश्च सहस्रशो वै सुवाससः काञ्चनबद्धशृङ्गीः । 036a
हयांश्च नानाविधदेशजातान्यानानि दासांश्च शुभान्द्विजेभ्यः ॥ 036c
रत्नानि मुक्तामणिविद्रुमं चाप्यग्र्यं सुवर्णं रजतं सुशुद्धम् । 037a
अयस्मयं ताम्रमयं च भाण्डं ददौ द्विजातिप्रवरेषु रामः ॥ 037c
एवं स वित्तं प्रददौ महात्मा सरस्वतीतीर्थगतेषु भूरि । 038a
ययौ क्रमेणाप्रतिमप्रभावस्ततः कुरुक्षेत्रमुदारवृत्तः ॥ 038c
जनमेजय उवाच । 039
सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे । 039a
फलं च द्विपदां श्रेष्ठ कर्म निर्वृत्तिमेव च ॥ 039c
यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः । 040a
ब्रूहि ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे ॥ 040c
वैशम्पायन उवाच । 041
तीर्थानां च फलं राजन्गुणोत्पत्तिं च सर्वशः । 041a
मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः ॥ 041c
पूर्वं महाराज यदुप्रवीर ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् । 042a
पुण्यं प्रभासं समुपाजगाम यत्रोडुराढ्यक्ष्मणा क्षीयमाणः ॥ 042c
विमुक्तशापः पुनराप्य तेजः सर्वं जगद्भासयते नरेन्द्र । 043a
एतत्तु तीर्थप्रवरं पृथिव्यां प्रभासनात्तस्य ततः प्रभासः ॥ ॥ 043c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टदशदिवसयुद्धे पञ्चत्रिंशोऽध्यायः ॥ 35 ॥
9-35-14 मैत्रनक्षत्रयोगे अनुराधायां ॥ 9-35-15 भोजः कृतवर्मा ॥ 9-35-16 पुष्येण हि पाण्डवेभ्यः प्रयाणं अनुराधातस्तीर्थयात्रार्थमिति विवेकः ॥ 9-35-34 विपणिः पण्यवीथिका । आपणा हट्टाः । पण्यानि विक्रेयद्रव्याणि ॥ 9-35-35 कृतदक्षिणाश्चेति क.ङ.पाठः ॥ 9-35-39 गुणान् रमणीयत्वादीन् । उत्पत्तिं सम्भवम् । कर्मनिर्वृत्तिं तीर्थयात्राविधिसिद्धम् । निवृत्तिमपि कर्मणाम् इति क.ङ.पाठः ॥ 9-35-40 यथाकमेण तीर्थक्रमापेक्षया अनुपूर्वशः गुणोत्पत्त्यादिक्रमापेक्षया ॥ 9-35-43 प्रभासः प्रभासत्वम् ॥