अध्यायः 034

गदायुद्धारम्भे बलभद्रागमनम् ॥ 1 ॥ तस्मिन्पाण्ढवादिभिरर्चितोपविष्टे पुनर्गदायुद्धारम्भः ॥ 2 ॥

सञ्जय उवाच । 001
तस्मिन्युद्धे महाराज सुसंवृत्ते सुदारुणे । 001a
उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु ॥ 001c
ततस्तालध्वजो रामस्तयोर्युद्ध उपस्थिते । 002a
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः ॥ 002c
तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः । 003a
उपगम्योपसङ्गृह्य विधिवत्प्रत्यपूजयन् ॥ 003c
पूजयित्वा ततः पश्चादिदं वचनमब्रुवन् । 004a
शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव ॥ 004c
अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं सपाण्डवम् । 005a
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम् ॥ 005c
राम उवाच । 006
चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै । 006a
पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः । 006c
शिष्ययोर्वै गदायुद्धं द्रुष्टुकामोऽस्मि माधव ॥ 006e
ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् । 007a
स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम् ॥ 007c
कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम् । 008a
सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ ॥ 008c
माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः । 009a
अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम् ॥ 009c
भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप । 010a
तथैव चोद्यतगदौ पूजयामासतुर्बलम् ॥ 010c
स्वागतेन च ते तत्र प्रतिपूज्य पुनःपुनः । 011a
पश्य युद्धं महाबाहो इति ते राममब्रुवन् ॥ 011c
एवमुचुर्महात्मानं रौहिणेयं नराधिपाः ॥ 012a
परिष्वज्य तदा रामः पाण्डवान्सह सृञ्जयान् । 012c
अपृच्छत्कुशलं सर्वान्पार्थिवांश्चामितौजसः । 013a
तथैव ते समासाद्य पप्रच्छुस्तमनामयम् ॥ 013c
प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महात्मनः । 014a
कृत्वा कुशलसम्प्रश्नं संविदं च यथावयः ॥ 014c
जनार्दनं सात्यकिं च प्रेम्णा सम्परिषस्वजे । 015a
मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत ॥ 015c
तौ च तं विधिवद्राजन्पूजयामासतुर्गुरुम् । 016a
ब्रह्माणामिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ ॥ 016c
ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिन्दमम् । 017a
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत ॥ 017c
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः । 018a
न्यविशत्परमप्रीतः पूज्यमानो महारथैः ॥ 018c
स बभौ राजमध्यस्थो नीलवासाः सितप्रभः । 019a
दिवीव नक्षत्रगणैः परिवीतो निशाकरः ॥ 019c
ततस्तयोः सन्निपातस्तुमुलो रोमहर्षणः । 020a
आसीदन्तकरो राजन्वैरस्यान्तं विधित्सतोः ॥ ॥ 020c

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवशपर्वणि अष्टादशदिवसयुद्धे चतुस्त्रिंशोऽध्यायः ॥ 34 ॥